Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
गुरुर्गुणवरो गोप्ता गोचरो गोपतिप्रियः ।
गुणी गुणवतां श्रेष्ठो गुरूणां गुरुरव्ययः ॥ १ ॥
जेता जयन्तो जयदो जीवोऽनन्तो जयावहः ।
आङ्गीरसोऽध्वरासक्तो विविक्तोऽध्वरकृत्परः ॥ २ ॥
वाचस्पतिर्वशी वश्यो वरिष्ठो वाग्विचक्षणः ।
चित्तशुद्धिकरः श्रीमान् चैत्रः चित्रशिखण्डिजः ॥ ३ ॥
बृहद्रथो बृहद्भानुर्बृहस्पतिरभीष्टदः ।
सुराचार्यः सुराराध्यः सुरकार्यहितङ्करः ॥ ४ ॥
गीर्वाणपोषको धन्यो गीष्पतिर्गिरिशोऽनघः ।
धीवरो धिषणो दिव्यभूषणो देवपूजितः ॥ ५ ॥
धनुर्धरो दैत्यहन्ता दयासारो दयाकरः ।
दारिद्र्यनाशको धन्यो दक्षिणायनसम्भवः ॥ ६ ॥
धनुर्मीनाधिपो देवो धनुर्बाणधरो हरिः ।
आङ्गीरसाब्जसञ्जातः आङ्गीरसकुलोद्भवः ॥ ७ ॥
सिन्धुदेशाधिपो धीमान् स्वर्णवर्णश्चतुर्भुजः ।
हेमाङ्गदो हेमवपुर्हेमभूषणभूषितः ॥ ८ ॥
पुष्यनाथः पुष्यरागमणिमण्डलमण्डितः ।
काशपुष्पसमानाभः कलिदोषनिवारकः ॥ ९ ॥
इन्द्रादिदेवोदेवेशो देवताभीष्टदायकः ।
असमानबलः सत्त्वगुणसम्पद्विभासुरः ॥ १० ॥
भूसुराभीष्टदो भूरियशः पुण्यविवर्धनः ।
धर्मरूपो धनाध्यक्षो धनदो धर्मपालनः ॥ ११ ॥
सर्ववेदार्थतत्त्वज्ञः सर्वापद्विनिवारकः ।
सर्वपापप्रशमनः स्वमतानुगतामरः ॥ १२ ॥
ऋग्वेदपारगो ऋक्षराशिमार्गप्रचारकः ।
सदानन्दः सत्यसन्धः सत्यसङ्कल्पमानसः ॥ १३ ॥
सर्वागमज्ञः सर्वज्ञः सर्ववेदान्तविद्वरः ।
ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः ॥ १४ ॥
समानाधिकनिर्मुक्तः सर्वलोकवशंवदः ।
ससुरासुरगन्धर्ववन्दितः सत्यभाषणः ॥ १५ ॥
नमः सुरेन्द्रवन्द्याय देवाचार्याय ते नमः ।
नमस्तेऽनन्तसामर्थ्य वेदसिद्धान्तपारगः ॥ १६ ॥
सदानन्द नमस्तेऽस्तु नमः पीडाहराय च ।
नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ॥ १७ ॥
नमोऽद्वितीयरूपाय लम्बकूर्चाय ते नमः ।
नमः प्रहृष्टनेत्राय विप्राणां पतये नमः ॥ १८ ॥
नमो भार्गवशिष्याय विपन्नहितकारिणे ।
नमस्ते सुरसैन्यानां विपत्तित्राणहेतवे ॥ १९ ॥
—
बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः ।
लोकत्रयगुरुः श्रीमान् सर्वगः सर्वतोविभुः ॥ २० ॥
सर्वेशः सर्वदातुष्टः सर्वदः सर्वपूजितः ।
अक्रोधनो मुनिश्रेष्ठो नीतिकर्ता जगत्पिता ॥ २१ ॥
विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः ।
भूर्भुवोधनदाता च भर्ताजीवो महाबलः ॥ २२ ॥
बृहस्पतिः काश्यपेयो दयावान् शुभलक्षणः ।
अभीष्टफलदः श्रीमान् शुभग्रह नमोऽस्तु ते ॥ २३ ॥
बृहस्पतिः सुराचार्यो देवासुरसुपूजितः ।
आचार्योदानवारिश्च सुरमन्त्री पुरोहितः ॥ २४ ॥
कालज्ञः कालऋग्वेत्ता चित्तगश्च प्रजापतिः ।
विष्णुः कृष्णः सदासूक्ष्मः प्रतिदेवोज्ज्वलग्रहः ॥ २५ ॥
इति श्री बृहस्पति अष्टोत्तरशतनाम स्तोत्रम् ।
इतर नवग्रह स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.