Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
बुधो बुधार्चितः सौम्यः सौम्यचित्तः शुभप्रदः ।
दृढव्रतो दृढफलः श्रुतिजालप्रबोधकः ॥ १ ॥
सत्यवासः सत्यवचाः श्रेयसां पतिरव्ययः ।
सोमजः सुखदः श्रीमान् सोमवंशप्रदीपकः ॥ २ ॥
वेदविद्वेदतत्त्वज्ञो वेदान्तज्ञानभास्वरः ।
विद्याविचक्षण विभुर्विद्वत्प्रीतिकरो ऋजः ॥ ३ ॥
विश्वानुकूलसञ्चारो विशेषविनयान्वितः ।
विविधागमसारज्ञो वीर्यवान् विगतज्वरः ॥ ४ ॥
त्रिवर्गफलदोऽनन्तः त्रिदशाधिपपूजितः ।
बुद्धिमान् बहुशास्त्रज्ञो बली बन्धविमोचकः ॥ ५ ॥
वक्रातिवक्रगमनो वासवो वसुधाधिपः ।
प्रसन्नवदनो वन्द्यो वरेण्यो वाग्विलक्षणः ॥ ६ ॥
सत्यवान् सत्यसङ्कल्पः सत्यबन्धुः सदादरः ।
सर्वरोगप्रशमनः सर्वमृत्युनिवारकः ॥ ७ ॥
वाणिज्यनिपुणो वश्यो वाताङ्गो वातरोगहृत् ।
स्थूलः स्थैर्यगुणाध्यक्षः स्थूलसूक्ष्मादिकारणः ॥ ८ ॥
अप्रकाशः प्रकाशात्मा घनो गगनभूषणः ।
विधिस्तुत्यो विशालाक्षो विद्वज्जनमनोहरः ॥ ९ ॥
चारुशीलः स्वप्रकाशः चपलश्च जितेन्द्रियः ।
उदङ्मुखो मखासक्तो मगधाधिपतिर्हरः ॥ १० ॥
सौम्यवत्सरसञ्जातः सोमप्रियकरः सुखी ।
सिंहाधिरूढः सर्वज्ञः शिखिवर्णः शिवङ्करः ॥ ११ ॥
पीताम्बरो पीतवपुः पीतच्छत्रध्वजाङ्कितः ।
खड्गचर्मधरः कार्यकर्ता कलुषहारकः ॥ १२ ॥
आत्रेयगोत्रजोऽत्यन्तविनयो विश्वपावनः ।
चाम्पेयपुष्पसङ्काशः चारणः चारुभूषणः ॥ १३ ॥
वीतरागो वीतभयो विशुद्धकनकप्रभः ।
बन्धुप्रियो बन्धमुक्तो बाणमण्डलसंश्रितः ॥ १४ ॥
अर्केशानप्रदेशस्थः तर्कशास्त्रविशारदः ।
प्रशान्तः प्रीतिसम्युक्तः प्रियकृत् प्रियभाषणः ॥ १५ ॥
मेधावी माधवासक्तो मिथुनाधिपतिः सुधीः ।
कन्याराशिप्रियः कामप्रदो घनफलाश्रयः ॥ १६ ॥
बुधस्यैवं प्रकारेण नाम्नामष्टोत्तरं शतम् ।
सम्पूज्य विधिवत्कर्ता सर्वान्कामानवाप्नुयात् ॥ १७ ॥
इति श्री बुध अष्टोत्तरशतनाम स्तोत्रम् ।
इतर नवग्रह स्तोत्राणि पश्यतु ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.