Sri Bala Tripurasundari Sahasranama Stotram 2 – श्री बालात्रिपुरसुन्दरी सहस्रनाम स्तोत्रम् २


शौनक उवाच ।
कैलासशिखरे रम्ये नानापुष्पोपशोभिते ।
कल्पपादपमध्यस्थे गन्धर्वगणसेविते ॥ १ ॥

मणिमण्डपमध्यस्थे नानारत्नोपशोभिते ।
तं कदाचित् सुखासीनं भगवन्तं जगद्गुरुम् ॥ २ ॥

कपालखट्वाङ्गधरं चन्द्रार्धकृतशेखरम् ।
त्रिशूलडमरुधरं महावृषभवाहनम् ॥ ३ ॥

जटाजूटधरं देवं वासुकिकण्ठभूषणम् ।
विभूतिभूषणं देवं नीलकण्ठं त्रिलोचनम् ॥ ४ ॥

द्वीपिचर्मपरीधानं शुद्धस्फटिकसन्निभम् ।
सहस्रादित्यसङ्काशं गिरिजार्धाङ्गभूषणम् ॥ ५ ॥

प्रणम्य शिरसा नाथं कारणं विश्वरूपिणम् ।
कृताञ्जलिपुटो भूत्वा प्राह तं शिखिवाहनः ॥ ६ ॥

कार्तिकेय उवाच ।
देवदेव महादेव सृष्टिस्थित्यन्तकारक ।
त्वं गतिः सर्वदेवानां त्वं गतिः सर्वदेहिनाम् ॥ ७ ॥

त्वं गतिः सर्वदेवानां सर्वेषां त्वं गतिर्विभो ।
त्वमेव जगदाधारस्त्वमेव विश्वकारणम् ॥ ८ ॥

त्वमेव पूज्यः सर्वेषां त्वदन्यो नास्ति मे गतिः ।
किं गुह्यं परमं लोके किमेकं सर्वसिद्धिदम् ॥ ९ ॥

किमेकं परमं सृष्टिः किं भौमैश्वर्यमोक्षदम् ।
विना तीर्थेन तपसा विना वेदैर्विना मखैः ॥ १० ॥

विना जाप्येन ध्यानेन कथं सिद्धिमवाप्नुयात् ।
कस्मादुत्पद्यते सृष्टिः कस्मिंश्च विलयो भवेत् ॥ ११ ॥

कस्मादुत्तीर्यते देव संसारार्णवसङ्कटात् ।
तदहं श्रोतुमिच्छामि कथयस्व महेश्वर ॥ १२ ॥

श्रीमहादेव उवाच ।
साधु साधु त्वया पृष्टोऽस्म्यहं पार्वतीनन्दन ।
अस्ति गुह्यतमं पुत्र कथयिष्याम्यसंशयम् ॥ १३ ॥

सत्त्वं रजस्तमश्चैव ब्रह्मविष्णुशिवादयः ।
ये चान्ये बहवो भूताः सर्वे प्रकृतिसम्भवाः ॥ १४ ॥

सैव देवी पराशक्तिर्महात्रिपुरसुन्दरी ।
सैव संहरते विश्वं जगदेतच्चराचरम् ॥ १५ ॥

आधारं सर्वभूतानां सैव रोगार्तिहारिणी ।
इच्छाशक्तिः क्रियारूपा ब्रह्मविष्णुशिवात्मिका ॥ १६ ॥

त्रिधा शक्तिस्वरूपेण सृष्टिस्थितिविनाशिनी ।
सृजति ब्रह्मरूपेण विष्णुरूपेण रक्षति ॥ १७ ॥

हरते रुद्ररूपेण जगदेतच्चराचरम् ।
यस्य योनौ जगत्सर्वमद्यापि वर्ततेऽखिलम् ॥ १८ ॥

यस्यां प्रलीयते चान्ते यस्यां च जायते पुनः ।
यां समाराध्य त्रैलोक्ये सम्प्राप्तं पदमुत्तमम् ।
तस्याः नामसहस्रं ते कथयामि शृणुष्व तत् ॥ १९ ॥

अस्य श्रीबालासहस्रनामस्तोत्रमन्त्रस्य, भगवान् दक्षिणामुर्तिर्वामदेव ऋषिः, गायत्री छन्दः, प्रकट गुप्त गुप्ततर सम्प्रदाय कुल कौलोत्तीर्णा निगर्भ रहस्यातिरहस्य परापररहस्या चिन्त्य वर्तिनी बाला देवता, आं बीजं, ह्रीं शक्तिः, क्लीं कीलकं, श्रीबालाप्रीत्यर्थे पारायणे विनियोगः ।

ध्यानम् –
आधारे तरुणार्कबिम्बसदृशं हेमप्रभं वाग्भवं
बीजं मान्मथमिन्द्रगोपसदृशं हृत्पङ्कजे संस्थितम् ।
चक्रं भालमयं शशाङ्करुचिरं बीजं तु तार्तीयकं
ये ध्यायन्ति पदत्रयं तव शिवे ते यान्ति सूक्ष्मां गतिम् ॥

स्तोत्रं –
कल्याणी कमला काली कराली कामरूपिणी ।
कामाक्षा कामदा काम्या कामना कामचारिणी ॥ २२ ॥

कौमारी करुणामूर्तिः कलिकल्मषनाशिनी ।
कात्यायनी कलाधारा कौमुदी कमलप्रिया ॥ २३ ॥

कीर्तिदा बुद्धिदा मेधा नीतिज्ञा नीतिवत्सला ।
माहेश्वरी महामाया महातेजा महेश्वरी ॥ २४ ॥

कालरात्रिर्महारात्रिः कालिन्दी कल्परूपिणी ।
महाजिह्वा महालोला महादंष्ट्रा महाभुजा ॥ २५ ॥

महामोहान्धकारघ्नी महामोक्षप्रदायिनी ।
महादारिद्र्यराशिघ्नी महाशत्रुविमर्दिनी ॥ २६ ॥

महाशक्तिर्महाज्योतिर्महासुरविमर्दिनी ।
महाकाया महाबीजा महापातकनाशिनी ॥ २७ ॥

महामखा मन्त्रमयी मणिपुरनिवासिनी ।
मानसी मानदा मान्या मनश्चक्षुरगोचरा ॥ २८ ॥

गणमाता च गायत्री गणगन्धर्वसेविता ।
गिरिजा गिरिशा साध्वी गिरिसूर्गिरिसम्भवा ॥ २९ ॥

चण्डेश्वरी चन्द्ररूपा प्रचण्डा चण्डमालिनी ।
चर्चिका चर्चिताकारा चण्डिका चारुरूपिणी ॥ ३० ॥

यज्ञेश्वरी यज्ञरूपा जपयज्ञपरायणा ।
यज्ञमाता यज्ञगोप्त्री यज्ञेशी यज्ञसम्भवा ॥ ३१ ॥

यज्ञसिद्धिः क्रियासिद्धिर्यज्ञाङ्गी यज्ञरक्षका ।
यज्ञप्रिया यज्ञरूपा याज्ञी यज्ञकृपालया ॥ ३२ ॥

जालन्धरी जगन्माता जातवेदा जगत्प्रिया ।
जितेन्द्रिया जितक्रोधा जननी जन्मदायिनी ॥ ३३ ॥

गङ्गा गोदावरी गौरी गौतमी च शतह्रदा ।
घुर्घुरा वेदगर्भा च रेविका करसम्भवा ॥ ३४ ॥

सिन्धुर्मन्दाकिनी क्षिप्रा यमुना च सरस्वती ।
चन्द्रभागा विपाशा च गण्डकी विन्ध्यवासिनी ॥ ३५ ॥

नर्मदा कन्हा कावेरी वेत्रवत्या च कौशिकी ।
महोनतनया चैव अहल्या चम्पकावती ॥ ३६ ॥

अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
द्वारावती च तीर्थेशी महाकिल्बिषनाशिनी ॥ ३७ ॥

पद्मिनी पद्ममध्यस्था पद्मकिञ्जल्कवासिनी ।
पद्मवक्त्रा च पद्माक्षी पद्मस्था पद्मसम्भवा ॥ ३८ ॥

ह्रीङ्कारी कुण्डली धात्री हृत्पद्मस्था सुलोचना ।
श्रीङ्कारी भूषणा लक्ष्मीः क्लीङ्कारी क्लेशनाशिनी ॥ ३९ ॥

हरिप्रिया हरेर्मूर्तिर्हरिनेत्रकृतालया ।
हरिवक्त्रोद्भवा शान्ता हरिवक्षःस्थलस्थिता ॥ ४० ॥

वैष्णवी विष्णुरूपा च विष्णुमातृस्वरूपिणी ।
विष्णुमाया विशालाक्षी विशालनयनोज्ज्वला ॥ ४१ ॥

विश्वेश्वरी च विश्वात्मा विश्वेशी विश्वरूपिणी ।
शिवेश्वरी शिवाधारा शिवनाथा शिवप्रिया ॥ ४२ ॥ [विश्वेश्वरी]

शिवमाता शिवाक्षी च शिवदा शिवरूपिणी ।
भवेश्वरी भवाराध्या भवेशी भवनायिका ॥ ४३ ॥

भवमाता भवागम्या भवकण्टकनाशिनी ।
भवप्रिया भवानन्दा भवानी भवमोचिनी ॥ ४४ ॥

गीतिर्वरेण्या सावित्री ब्रह्माणी ब्रह्मरूपिणी ।
ब्रह्मेशी ब्रह्मदा ब्राह्मी ब्रह्माणी ब्रह्मवादिनी ॥ ४५ ॥

दुर्गस्था दुर्गरूपा च दुर्गा दुर्गार्तिनाशिनी ।
त्रयीदा ब्रह्मदा ब्राह्मी ब्रह्माणी ब्रह्मवादिनी ॥ ४६ ॥

त्वक्स्था तथा च त्वग्रूपा त्वग्गा त्वगार्तिहारिणी ।
स्वर्गमा निर्गमा दात्री दाया दोग्ध्री दुरापहा ॥ ४७ ॥

दूरघ्नी च दुराराध्या दूरदुष्कृतिनाशिनी ।
पञ्चस्था पञ्चमी पूर्णा पूर्णापीठनिवासिनी ॥ ४८ ॥

सत्त्वस्था सत्त्वरूपा च सत्त्वदा सत्त्वसम्भवा ।
रजःस्था च रजोरूपा रजोगुणसमुद्भवा ॥ ४९ ॥

तामसी च तमोरूपा तमसी तमसः प्रिया ।
तमोगुणसमुद्भूता सात्त्विकी राजसी तमी ॥ ५० ॥

कला काष्ठा निमेषा च स्वकृता तदनन्तरा ।
अर्धमासा च मासा च संवत्सरस्वरूपिणी ॥ ५१ ॥

युगस्था युगरूपा च कल्पस्था कल्परूपिणी ।
नानारत्नविचित्राङ्गी नानाभरणमण्डिता ॥ ५२ ॥

विश्वात्मिका विश्वमाता विश्वपाशा विधायिनी ।
विश्वासकारिणी विश्वा विश्वशक्तिर्विचक्षणा ॥ ५३ ॥

जपाकुसुमसङ्काशा दाडिमीकुसुमोपमा ।
चतुरङ्गा चतुर्बाहुश्चतुरा चारुहासिनी ॥ ५४ ॥

सर्वेशी सर्वदा सर्वा सर्वज्ञा सर्वदायिनी ।
सर्वेश्वरी सर्वविद्या शर्वाणी सर्वमङ्गला ॥ ५५ ॥

नलिनी नन्दिनी नन्दा आनन्दानन्दवर्धिनी ।
व्यापिनी सर्वभूतेषु भवभारविनाशिनी ॥ ५६ ॥

कुलीना कुलमध्यस्था कुलधर्मोपदेशिनी ।
सर्वशृङ्गारवेषाढ्या पाशाङ्कुशकरोद्यता ॥ ५७ ॥

सूर्यकोटिसहस्राभा चन्द्रकोटिनिभानना ।
गणेशकोटिलावण्या विष्णुकोट्यरिमर्दिनी ॥ ५८ ॥

दावाग्निकोटिज्वलिनी रुद्रकोट्युग्ररूपिणी ।
समुद्रकोटिगम्भीरा वायुकोटिमहाबला ॥ ५९ ॥

आकाशकोटिविस्तारा यमकोटिभयङ्करा ।
मेरुकोटिसमुच्छ्राया गुणकोटिसमृद्धिदा ॥ ६० ॥

निष्कलङ्का निराधारा निर्गुणा गुणवर्जिता ।
अशोका शोकरहिता तापत्रयविवर्जिता ॥ ६१ ॥

विशिष्टा विश्वजननी विश्वमोहविधारिणी ।
चित्रा विचित्रा चित्राशी हेतुगर्भा कुलेश्वरी ॥ ६२ ॥

इच्छाशाक्तिः ज्ञानशक्तिः क्रियाशक्तिः शुचिस्मिता ।
श्रुतिस्मृतिमयी सत्या श्रुतिरूपा श्रुतिप्रिया ॥ ६३ ॥

श्रुतिप्रज्ञा महासत्या पञ्चतत्त्वोपरिस्थिता ।
पार्वती हिमवत्पुत्री पाशस्था पाशरूपिणी ॥ ६४ ॥

जयन्ती भद्रकाली च अहल्या कुलनायिका ।
भूतधात्री च भूतेशी भूतस्था भूतभाविनी ॥ ६५ ॥

महाकुण्डलिनीशक्तिर्महाविभववर्धिनी ।
हंसाक्षी हंसरूपा च हंसस्था हंसरूपिणी ॥ ६६ ॥

सोमसूर्याग्निमध्यस्था मणिपूरकवासिनी ।
षट्पत्राम्भोजमध्यस्था मणिपूरनिवासिनी ॥ ६७ ॥

द्वादशारसरोजस्था सूर्यमण्डलवासिनी ।
अकलङ्का शशाङ्काभा षोडशारनिवासिनी ॥ ६८ ॥

द्विपत्रदलमध्यस्था ललाटतलवासिनी ।
डाकिनी शाकिनी चैव लाकिनी काकिनी तथा ॥ ६९ ॥

राकिणी हाकिनी चैव षट्चक्रक्रमवासिनी ।
सृष्टिस्थितिविनाशा च सृष्टिस्थित्यन्तकारिणी ॥ ७० ॥

श्रीकण्ठा श्रीप्रिया कण्ठनादाख्या बिन्दुमालिनी ।
चतुःषष्टिकलाधारा मेरुदण्डसमाश्रया ॥ ७१ ॥

महाकाली द्युतिर्मेधा स्वधा तुष्टिर्महाद्युतिः ।
हिङ्गुला मङ्गलशिवा सुषुम्णामध्यगामिनी ॥ ७२ ॥

परा घोरा करालाक्षी विजया जयशालिनी ।
हृत्पद्मनिलया देवी भीमा भैरवनादिनी ॥ ७३ ॥

आकाशलिङ्गसम्भूता भुवनोद्यानवासिनी ।
महासूक्ष्माऽभया काली भीमरूपा महाबला ॥ ७४ ॥

मेनकागर्भसम्भूता तप्तकाञ्चनसन्निभा ।
अन्तःस्था कूटबीजा च त्रिकूटाचलवासिनी ॥ ७५ ॥

वर्णाक्षा वर्णरहिता पञ्चाशद्वर्णभेदिनी ।
विद्याधरी लोकधात्री अप्सरा अप्सरःप्रिया ॥ ७६ ॥

दक्षा दाक्षायणी दीक्षा दक्षयज्ञविनाशिनी ।
यशस्विनी यशःपूर्णा यशोदागर्भसम्भवा ॥ ७७ ॥

देवकी देवमाता च राधिका कृष्णवल्लभा ।
अरुन्धती शचीन्द्राणी गान्धारी गन्धमोदिनी ॥ ७८ ॥

ध्यानातीता ध्यानगम्या ध्याना ध्यानावधारिणी ।
लम्बोदरी च लम्बोष्ठा जाम्बवती जलोदरी ॥ ७९ ॥

महोदरी मुक्तकेशी मुक्तिकामार्थसिद्धिदा ।
तपस्विनी तपोनिष्ठा चापर्णा पर्णभक्षिणी ॥ ८० ॥

बाणचापधरा वीरा पाञ्चाली पञ्चमप्रिया ।
गुह्या गभीरा गहना गुह्यतत्त्वा निरञ्जना ॥ ८१ ॥

अशरीरा शरीरस्था संसारार्णवतारिणी ।
अमृता निष्कला भद्रा सकला कृष्णपिङ्गला ॥ ८२ ॥

चक्रेश्वरी चक्रहस्ता पाशचक्रनिवासिनी ।
पद्मरागप्रतीकाशा निर्मलाकाशसन्निभा ॥ ८३ ॥

ऊर्ध्वस्था ऊर्ध्वरूपा च ऊर्ध्वपद्मनिवासिनी ।
कार्यकारणकर्त्री च पर्वाख्या रूपसंस्थिता ॥ ८४ ॥

रसज्ञा रसमध्यस्था गन्धज्ञा गन्धरूपिणी ।
परब्रह्मस्वरूपा च परब्रह्मनिवासिनी ॥ ८५ ॥

शब्दब्रह्मस्वरूपा च शब्दस्था शब्दवर्जिता ।
सिद्धिर्वृद्धिपरा वृद्धिः सत्कीर्तिर्दीप्तिसंस्थिता ॥ ८६ ॥

स्वगुह्या शाम्भवीशक्तिस्तत्त्वज्ञा तत्त्वरूपिणी ।
सरस्वती भूतमाता महाभूताधिपप्रिया ॥ ८७ ॥

श्रुतिप्रज्ञादिमा सिद्धिः दक्षकन्याऽपराजिता ।
कामसन्दीपिनी कामा सदाकामा कुतूहला ॥ ८८ ॥

भोगोपचारकुशला अमला ह्यमलानना ।
भक्तानुकम्पिनी मैत्री शरणागतवत्सला ॥ ८९ ॥

सहस्रभुजा चिच्छक्तिः सहस्राक्षा शतानना ।
सिद्धलक्ष्मीर्महालक्ष्मीर्वेदलक्ष्मीः सुलक्षणा ॥ ९० ॥

यज्ञसारा तपःसारा धर्मसारा जनेश्वरी ।
विश्वोदरी विश्वसृष्टा विश्वाख्या विश्वतोमुखी ॥ ९१ ॥

विश्वास्यश्रवणघ्राणा विश्वमाला परात्मिका ।
तरुणादित्यसङ्काशा करणानेकसङ्कुला ॥ ९२ ॥

क्षोभिणी मोहिनी चैव स्तम्भिनी जृम्भिणी तथा ।
रथिनी ध्वजिनी सेना सर्वमन्त्रमयी त्रयी ॥ ९३ ॥

ज्ञानमुद्रा महामुद्रा जपमुद्रा महोत्सवा ।
जटाजूटधरा मुक्ता सूक्ष्मशान्तिर्विभीषणा ॥ ९४ ॥

द्वीपिचर्मपरीधाना चीरवल्कलधारिणी ।
त्रिशूलडमरुधरा नरमालाविभूषिणी ॥ ९५ ॥

अत्युग्ररूपिणी चोग्रा कल्पान्तदहनोपमा ।
त्रैलोक्यसाधिनी साध्या सिद्धसाधकवत्सला ॥ ९६ ॥

सर्वविद्यामयी सारा असुराम्बुधिधारिणी ।
सुभगा सुमुखी सौम्या सुशूरा सोमभूषणा ॥ ९७ ॥

शुद्धस्फटिकसङ्कशा महावृषभवाहिनी ।
महिषी महिषारूढा महिषासुरघातिनी ॥ ९८ ॥

दमिनी दामिनी दान्ता दया दोग्ध्री दुरापहा ।
अग्निजिह्वा महाघोराऽघोरा घोरतरानना ॥ ९९ ॥

नारायणी नारसिंही नृसिंहहृदयस्थिता ।
योगेश्वरी योगरूपा योगमाला च योगिनी ॥ १०० ॥

खेचरी भूचरी खेला निर्वाणपदसंश्रया ।
नागिनी नागकन्या च सुवेगा नागनायिका ॥ १०१ ॥

विषज्वालावती दीप्ता कलाशतविभूषणा ।
भीमवक्त्रा महावक्त्रा वक्त्राणां कोटिधारिणी ॥ १०२ ॥

महदात्मा च धर्मज्ञा धर्मातिसुखदायिनी ।
कृष्णमूर्तिर्महामूर्तिर्घोरमूर्तिर्वरानना ॥ १०३ ॥

सर्वेन्द्रियमनोन्मत्ता सर्वेन्द्रियमनोमयी ।
सर्वसङ्ग्रामजयदा सर्वप्रहरणोद्यता ॥ १०४ ॥

सर्वपीडोपशमनी सर्वारिष्टविनाशिनी ।
सर्वैश्वर्यसमुत्पत्तिः सर्वग्रहविनाशिनी ॥ १०५ ॥

भीतिघ्नी भक्तिगम्या च भक्तानामार्तिनाशिनी ।
मातङ्गी मत्तमातङ्गी मातङ्गगणमण्डिता ॥ १०६ ॥

अमृतोदधिमध्यस्था कटिसूत्रैरलङ्कृता ।
अमृतद्वीपमध्यस्था प्रबला वत्सलोज्ज्वला ॥ १०७ ॥

मणिमण्डपमध्यस्था रत्नसिंहासनस्थिता ।
परमानन्दमुदिता ईषत्प्रहसितानना ॥ १०८ ॥

कुमुदा ललिता लोला लाक्षालोहितलोचना ।
दिग्वासा देवदूती च देवदेवादिदेवता ॥ १०९ ॥

सिंहोपरिसमारूढा हिमाचलनिवासिनी ।
अट्‍टाट्‍टहासिनी घोरा घोरदैत्यविनाशिनी ॥ ११० ॥

अत्युग्रा रक्तवसना नागकेयूरमण्डिता ।
मुक्ताहारस्तनोपेता तुङ्गपीनपयोधरा ॥ १११ ॥

रक्तोत्पलदलाकारा मदाघूर्णितलोचना ।
गण्डमण्डितताटङ्का गुञ्जाहारविभूषणा ॥ ११२ ॥

सङ्गीतरङ्गरसना वीणावाद्यकुतूहला ।
समस्तदेवमूर्तिश्च ह्यसुरक्षयकारिणी ॥ ११३ ॥

खड्गिनी शूलहस्ता च चक्रिणी चाक्षमालिनी ।
पाशिनी चक्रिणी दान्ता वज्रिणी वज्रदण्डिनी ॥ ११४ ॥

आनन्दोदधिमध्यस्था कटिसूत्रैरलङ्कृता ।
नानाभरणदीप्ताङ्गी नानामणिविभूषणा ॥ ११५ ॥

जगदानन्दसम्भूतिश्चिन्तामणिगुणाकरा ।
त्रैलोक्यनमिता पूज्या चिन्मयाऽऽनन्दरूपिणी ॥ ११६ ॥

त्रैलोक्यनन्दिनी देवी दुःखदुःस्वप्ननाशिनी ।
घोराग्निदाहशमनी राजदैवादिशालिनी ॥ ११७ ॥

महापराधराशिघ्नी महावैरिभयापहा ।
रागादिदोषरहिता जरामरणवर्जिता ॥ ११८ ॥

चन्द्रमण्डलमध्यस्था पीयूषार्णवसम्भवा ।
सर्वदेवैः स्तुता देवी सर्वसिद्धिनमस्कृता ॥ ११९ ॥

अचिन्त्यशक्तिरूपा च मणिमन्त्रमहौषधी ।
स्वस्तिः स्वस्तिमती बाला मलयाचलसंस्थिता ॥ १२० ॥

धात्री विधात्री संहारा रतिज्ञा रतिदायिनी ।
रुद्राणी रुद्ररूपा च रौद्री रौद्रार्तिहारिणी ॥ १२१ ॥

सर्वज्ञा चौरधर्मज्ञा रसज्ञा दीनवत्सला ।
अनाहता त्रिनयना निर्भरा निर्वृतिः परा ॥ १२२ ॥

परा घोरकरालाक्षी स्वमाता प्रियदायिनी ।
मन्त्रात्मिका मन्त्रगम्या मन्त्रमाता समन्त्रिणी ॥ १२३ ॥

शुद्धानन्दा महाभद्रा निर्द्वन्द्वा निर्गुणात्मिका ।
धरणी धारिणी पृथ्वी धरा धात्री वसुन्धरा ॥ १२४ ॥

मेरुमन्दिरमध्यस्था शिवा शङ्करवल्लभा ।
श्रीगतिः श्रीमती श्रेष्ठा श्रीकरी श्रीविभावनी ॥ १२५ ॥

श्रीदा श्रीमा श्रीनिवासा श्रीमती श्रीमतां गतिः ।
उमा शारङ्गिणी कृष्णा कुटिला कुटिलालका ॥ १२६ ॥

त्रिलोचना त्रिलोकात्मा पुण्यदा पुण्यकीर्तिदा ।
अमृता सत्यसङ्कल्पा सत्याशा ग्रन्थिभेदिनी ॥ १२७ ॥

परेशा परमा विद्या पराविद्या परात्परा ।
सुन्दराङ्गी सुवर्णाभा सुरासुरनमस्कृता ॥ १२८ ॥

प्रजा प्रजावती धन्या धनधान्यसमृद्धिदा ।
ईशानी भुवनेशानी भुवना भुवनेश्वरी ॥ १२९ ॥

अनन्ताऽनन्तमहिमा जगत्सारा जगद्भवा ।
अचिन्त्यशक्तिमहिमा चिन्त्याचिन्त्यस्वरूपिणी ॥ १३० ॥

ज्ञानगम्या ज्ञानमूर्तिर्ज्ञानदा ज्ञानशालिनी ।
अमिता घोररूपा च सुधाधारा सुधावहा ॥ १३१ ॥

भास्करी भासुरी भाती भास्वदुत्तानशायिनी ।
अनसूया क्षमा लज्जा दुर्लभा भुवनान्तिका ॥ १३२ ॥

विश्ववन्द्या विश्वबीजा विश्वधीर्विश्वसंस्थिता ।
शीलस्था शीलरूपा च शीला शीलप्रदायिनी ॥ १३३ ॥

बोधिनी बोधकुशला रोधिनी बाधिनी तथा ।
विद्योतिनी विचित्रात्मा विद्युत्पटलसन्निभा ॥ १३४ ॥

विश्वयोनिर्महायोनिः कर्मयोनिः प्रियंवदा ।
रोगिणी रोगशमनी महारोगभयापहा ॥ १३५ ॥

वरदा पुष्टिदा देवी मानदा मानवप्रिया ।
कृष्णाङ्गवाहिनी चैव कृष्णा कृष्णसहोदरी ॥ १३६ ॥

शाम्भवी शम्भुरूपा च तथैव शम्भुसम्भवा ।
विश्वोदरी विश्वमाता योगमुद्रा च योगिनी ॥ १३७ ॥

वागीश्वरी योगमुद्रा योगिनीकोटिसेविता ।
कौलिकानन्दकन्या च शृङ्गारपीठवासिनी ॥ १३८ ॥

क्षेमङ्करी सर्वरूपा दिव्यरूपा दिगम्बरा ।
धूम्रवक्त्रा धूम्रनेत्रा धूम्रकेशी च धूसरा ॥ १३९ ॥

पिनाकी रुद्रवेताली महावेतालरूपिणी ।
तपिनी तापिनी दक्षा विष्णुविद्या त्वनाथिता ॥ १४० ॥

अङ्कुरा जठरा तीव्रा अग्निजिह्वा भयापहा ।
पशुघ्नी पशुरूपा च पशुदा पशुवाहिनी ॥ १४१ ॥

पिता माता च भ्राता च पशुपाशविनाशिनी ।
चन्द्रमा चन्द्ररेखा च चन्द्रकान्तिविभूषणा ॥ १४२ ॥

कुङ्कुमाङ्कितसर्वाङ्गी सुधीर्बुद्बुदलोचना ।
शुक्लाम्बरधरा देवी वीणापुस्तकधारिणी ॥ १४३ ॥

श्वेतवस्त्रधरा देवी श्वेतपद्मासनस्थिता ।
रक्ताम्बरा च रक्ताङ्गी रक्तपद्मविलोचना ॥ १४४ ॥

निष्ठुरा क्रूरहृदया अक्रूरा मितभाषिणी ।
आकाशलिङ्गसम्भूता भुवनोद्यानवासिनी ॥ १४५ ॥

महासूक्ष्मा च कङ्काली भीमरूपा महाबला ।
अनौपम्यगुणोपेता सदा मधुरभाषिणी ॥ १४६ ॥

विरूपाक्षी सहस्राक्षी शताक्षी बहुलोचना ।
दुस्तरी तारिणी तारा तरुणी ताररूपिणी ॥ १४७ ॥

सुधाधारा च धर्मज्ञा धर्मयोगोपदेशिनी ।
भगेश्वरी भगाराध्या भगिनी भगिनीप्रिया ॥ १४८ ॥

भगविश्वा भगक्लिन्ना भगयोनिर्भगप्रदा ।
भगेश्वरी भगरूपा भगगुह्या भगावहा ॥ १४९ ॥

भगोदरी भगानन्दा भगाढ्या भगमालिनी ।
सर्वसङ्क्षोभिणीशक्तिः सर्वविद्राविणी तथा ॥ १५० ॥

मालिनी माधवी माध्वी मदरूपा मदोत्कटा ।
भेरुण्डा चण्डिका ज्योत्स्ना विश्वचक्षुस्तपोवहा ॥ १५१ ॥

सुप्रसन्ना महादूती यमदूती भयङ्करी ।
उन्मादिनी महारूपा दिव्यरूपा सुरार्चिता ॥ १५२ ॥

चैतन्यरूपिणी नित्या नित्यक्लिन्ना मदोल्लसा ।
मदिरानन्दकैवल्या मदिराक्षी मदालसा ॥ १५३ ॥

सिद्धेश्वरी सिद्धविद्या सिद्धाद्या सिद्धवन्दिता ।
सिद्धार्चिता सिद्धमाता सिद्धसर्वार्थसाधिका ॥ १५४ ॥

मनोन्मनी गुणातीता परञ्ज्योतिःस्वरूपिणी ।
परेशी पारगा पारा पारसिद्धिः परा गतिः ॥ १५५ ॥

विमला मोहिनीरूपा मधुपानपरायणा ।
वेदवेदाङ्गजननी सर्वशास्त्रविशारदा ॥ १५६ ॥

सर्ववेदमयी विद्या सर्वशास्त्रमयी तथा ।
सर्वज्ञानमयी देवी सर्वधर्ममयीश्वरी ॥ १५७ ॥

सर्वयज्ञमयी यज्वा सर्वमन्त्राधिकारिणी ।
त्रैलोक्याकर्षिणी देवी सर्वाद्यानन्दरूपिणी ॥ १५८ ॥

सर्वसम्पत्त्यधिष्ठात्री सर्वविद्राविणी परा ।
सर्वसङ्क्षोभिणी देवी सर्वमङ्गलकारिणी ॥ १५९ ॥

त्रैलोक्यरञ्जनी देवी सर्वस्तम्भनकारिणी ।
त्रैलोक्यजयिनी देवी सर्वोन्मादस्वरूपिणी ॥ १६० ॥

सर्वसम्मोहिनी देवी सर्ववश्यङ्करी तथा ।
सर्वार्थसाधिनी देवी सर्वसम्पत्तिदायिनी ॥ १६१ ॥

सर्वकामप्रदा देवी सर्वमङ्गलकारिणी ।
सर्वसिद्धिप्रदा देवी सर्वदुःखविमोचिनी ॥ १६२ ॥

सर्वमृत्युप्रशमनी सर्वविघ्नविनाशिनी ।
सर्वाङ्गसुन्दरी माता सर्वसौभाग्यदायिनी ॥ १६३ ॥

सर्वदा सर्वशक्तिश्च सर्वैश्वर्यफलप्रदा ।
सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी ॥ १६४ ॥

सर्वाधारा सर्वरूपा सर्वपापहरा तथा ।
सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी ॥ १६५ ॥

सर्वलक्ष्मीमयी विद्या सर्वेप्सितफलप्रदा ।
सर्वदुःखप्रशमनी परमानन्ददायिनी ॥ १६६ ॥

त्रिकोणनिलया त्रीष्टा त्रिमता त्रितनुस्थिता ।
त्रैविद्या चैव त्रिस्मारा त्रैलोक्यत्रिपुरेश्वरी ॥ १६७ ॥

त्रिकोदरस्था त्रिविधा त्रिपुरा त्रिपुरात्मिका ।
त्रिधात्री त्रिदशा त्र्यक्षा त्रिघ्नी त्रिपुरवाहिनी ॥ १६८ ॥

त्रिपुराश्रीः स्वजननी बालात्रिपुरसुन्दरी ।
श्रीमत्त्रिपुरसुन्दर्या मन्त्रनामसहस्रकम् ॥ १६९ ॥

गुह्याद्गुह्यतरं पुत्र तव प्रीत्या प्रकीर्तितम् ।
गोपनीयं प्रयत्नेन पठनीयं प्रयत्नतः ॥ १७० ॥

नातः परतरं पुण्यं नातः परतरं शुभम् ।
नातः परतरं स्तोत्रं नातः परतरा गतिः ॥ १७१ ॥

स्तोत्रं सहस्रनामाख्यं मम वक्त्राद्विनिःसृतम् ।
यः पठेत्परया भक्त्या शृणुयाद्वा समाहितः ॥ १७२ ॥

मोक्षार्थी लभते मोक्षं सुखार्थी सुखमाप्नुयात् ।
फलार्थी लभते कामान् धनार्थी लभते धनम् ॥ १७३ ॥

विद्यार्थी लभते विद्यां यशोऽर्थी लभते यशः ।
कन्यार्थी लभते कन्यां सुतार्थी लभते सुतम् ॥ १७४ ॥

गुर्विणी लभते पुत्रं कन्या विन्दति सत्पतिम् ।
मूर्खोऽपि लभते शास्त्रं चौरोऽपि लभते गतिम् ॥ १७५ ॥

सङ्क्रान्तावमावास्यायामष्टम्यां भौमवासरे ।
पठेद्वा पाठयेद्वापि शृणुयाद्वा समाहितः ॥ १७६ ॥

पौर्णमास्यां चतुर्दश्यां नवम्यां च विशेषतः ।
स मुक्तः सर्वपापेभ्यः कामेश्वरसमो भवेत् ॥ १७७ ॥

लक्ष्मीवान् सुतवांश्चैव वल्लभः सर्वयोषिताम् ।
तस्या वश्यं भवेद्दास्ये त्रैलोक्यं सचराचरम् ॥ १७८ ॥

रुद्रं दृष्ट्वा यथा देवा विष्णुं दृष्ट्वा च दानवाः ।
पन्नगा गरुडं दृष्ट्वा सिंहं दृष्ट्वा यथा मृगाः ॥ १७९ ॥

मण्डूका भोगिनं दृष्ट्वा मार्जारं मूषको यथा ।
कीटवत्प्रपलायन्ते तस्य वक्त्रावलोकनात् ॥ १८० ॥

अग्निचौरभयं तस्य कदाचिन्नैव सम्भवेत् ।
पातका विविधाः सन्ति मेरुमन्दरसन्निभाः ॥ १८१ ॥

भस्मसात्तत्क्षणं कुर्यात् तृणं वह्नियुतं यथा ।
एकधा पठनादेव सर्पपापक्षयो भवेत् ॥ १८२ ॥

दशधा पठनादेव वाञ्छासिद्धिः प्रजायते ।
नश्यन्ति सहसा रोगा दशधाऽऽवर्तनेन च ॥ १८३ ॥

सहस्रं वा पठेद्यस्तु खेचरो जायते नरः ।
सहस्रदशकं यस्तु पठेद्भक्तिपरायणः ॥ १८४ ॥

सा तस्य जगतां धात्री प्रत्यक्षा भवति ध्रुवम् ।
लक्षं पूर्णं यदा पुत्र स्तवराजं पठेत्सुधीः ॥ १८५ ॥

भवपाशविनिर्मुक्तो मम तुल्यो न संशयः ।
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ॥ १८६ ॥

सर्वदेवेषु यत्पुण्यं तत्फलं परिकीर्तितम् ।
तत्फलं कोटिगुणितं सकृज्जप्त्वा लभेन्नरः ॥ १८७ ॥

श्रुत्वा महाबलश्चाशु पुत्रवान् सर्वसम्पदः ।
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ १८८ ॥

अद्वैतयोगिभिर्ज्ञेयं मार्गगैरपि दुर्लभम् ।
स यास्यति न सन्देहः स्तवराजप्रकीर्तनात् ॥ १८९ ॥

यः सदा पठते भक्तो मुक्तिस्तस्य न संशयः ॥ १९० ॥

इति श्रीवामकेश्वरतन्त्रे श्री बालात्रिपुरसुन्दरी सहस्रनाम स्तोत्रम् ।


इतर श्री बाला स्तोत्राणि पश्यतु ।


పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed