Sri Aditya Kavacham – श्री आदित्य कवचम्


अस्य श्री आदित्यकवचस्तोत्रमहामन्त्रस्य अगस्त्यो भगवानृषिः अनुष्टुप्छन्दः आदित्यो देवता श्रीं बीजं णीं शक्तिः सूं कीलकं मम आदित्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।

ध्यानम् –
जपाकुसुमसङ्काशं द्विभुजं पद्महस्तकम् ।
सिन्दूराम्बरमाल्यं च रक्तगन्धानुलेपनम् ॥ १ ॥

माणिक्यरत्नखचितसर्वाभरणभूषितम् ।
सप्ताश्वरथवाहं तु मेरुं चैव प्रदक्षिणम् ॥ २ ॥

देवासुरवरैर्वन्द्यं घृणिभिः परिसेवितम् ।
ध्यायेत् पठेत् सुवर्णाभं सूर्यस्य कवचं मुदा ॥ ३ ॥

अथ कवचं –
घृणिः पातु शिरोदेशे सूर्यः पातु ललाटकम् ।
आदित्यो लोचने पातु श्रुती पातु दिवाकरः ॥ ४ ॥

घ्राणं पातु सदा भानुः मुखं पातु सदा रविः ।
जिह्वां पातु जगन्नेत्रः कण्ठं पातु विभावसुः ॥ ५ ॥

स्कन्धौ ग्रहपतिः पातु भुजौ पातु प्रभाकरः ।
करावब्जकरः पातु हृदयं पातु नभोमणिः ॥ ६ ॥

द्वादशात्मा कटिं पातु सविता पातु सक्थिनी ।
ऊरू पातु सुरश्रेष्ठो जानुनी पातु भास्करः ॥ ७ ॥

जङ्घे मे पातु मार्ताण्डो गुल्फौ पातु त्विषां पतिः ।
पादौ दिनमणिः पातु पातु मित्रोऽखिलं वपुः ॥ ८ ॥

आदित्यकवचं पुण्यमभेद्यं वज्रसन्निभम् ।
सर्वरोगभयादिभ्यो मुच्यते नात्र संशयः ॥ ९ ॥

संवत्सरमुपासित्वा साम्राज्यपदवीं लभेत् ।
अशेषरोगशान्त्यर्थं ध्यायेदादित्यमण्डलम् ॥ १० ॥

आदित्य मण्डल स्तुतिः –
अनेकरत्नसम्युक्तं स्वर्णमाणिक्यभूषणम् ।
कल्पवृक्षसमाकीर्णं कदम्बकुसुमप्रियम् ॥ ११ ॥

सिन्दूरवर्णाय सुमण्डलाय
सुवर्णरत्नाभरणाय तुभ्यम् ।
पद्मादिनेत्रे च सुपङ्कजाय
ब्रह्मेन्द्र-नारायण-शङ्कराय ॥ १२ ॥

संरक्तचूर्णं ससुवर्णतोयं
सकुङ्कुमाभं सकुशं सपुष्पम् ।
प्रदत्तमादाय च हेमपात्रे
प्रशस्तनादं भगवन् प्रसीद ॥ १३ ॥

इति श्री आदित्य कवचम् ।


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed