Sri Chandra Kavacham – श्री चन्द्र कवचम्


अस्य श्रीचन्द्र कवचस्तोत्र महामन्त्रस्य गौतम ऋषिः, अनुष्टुप् छन्दः, सोमो देवता, रं बीजं, सं शक्तिः, ओं कीलकं, सोमग्रह प्रसादसिद्ध्यर्थे जपे विनियोगः ।

करन्यासः ।
वां अङ्गुष्ठाभ्यां नमः ।
वीं तर्जनीभ्यां नमः ।
वूं मध्यमाभ्यां नमः ।
वैं अनामिकाभ्यां नमः ।
वौं कनिष्ठिकाभ्यां नमः ।
वः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः ।
वां हृदयाय नमः ।
वीं शिरसे स्वाहा ।
वूं शिखायै वषट् ।
वैं कवचाय हुम् ।
वौं नेत्रत्रयाय वौषट् ।
वः अस्त्राय फट् ।

ध्यानम् –
सोमं द्विभुजपद्मं च शुक्लाम्बरधरं शुभं
श्वेतगन्धानुलेपं च मुक्ताभरणभूषणम् ।
श्वेताश्वरथमारूढं मेरुं चैव प्रदक्षिणं
सोमं चतुर्भुजं देवं केयूरमकुटोज्ज्वलम् ॥ १ ॥

वासुदेवस्य नयनं शङ्करस्य च भूषणम् ।
एवं ध्यात्वा जपेन्नित्यं चन्द्रस्य कवचं मुदा ॥ २ ॥

अथ कवचम् –
शशी पातु शिरोदेशे फालं पातु कलानिधिः ।
चक्षुषी चन्द्रमाः पातु श्रुती पातु कलात्मकः ॥ १ ॥

घ्राणं पक्षकरः पातु मुखं कुमुदबान्धवः ।
सोमः करौ तु मे पातु स्कन्धौ पातु सुधात्मकः ॥ २ ॥

ऊरू मैत्रीनिधिः पातु मध्यं पातु निशाकरः ।
कटिं सुधाकरः पातु उरः पातु शशन्धरः ॥ ३ ॥

मृगाङ्को जानुनी पातु जङ्घे पात्वमृताब्धिजः ।
पादौ हिमकरः पातु पातु चन्द्रोऽखिलं वपुः ॥ ४ ॥

एतद्धि कवचं पुण्यं भुक्तिमुक्तिप्रदायकम् ।
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥ ५ ॥

इति श्रीब्रह्मवैवर्त महापुराणे दक्षिणखण्डे श्री चन्द्र कवचम् ।


इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed