Sankata Hara Chaturthi Puja Vidhanam – सङ्कटहर चतुर्थी पूजा विधानम्


आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य ।

सङ्कल्पं –
मम उपात्त ………. समेतस्य, मम सर्वसङ्कटनिवृत्तिद्वारा सकलकार्यसिद्ध्यर्थं ___ मासे कृष्णचतुर्थ्यां शुभतिथौ श्रीगणेश देवता प्रीत्यर्थं यथा शक्ति सङ्कटहरचतुर्थी पुजां करिष्ये ।

तदङ्ग कलश पूजां च करिष्ये । श्री महागणपति पूजां च करिष्ये ।

॥ सङ्कटहरचतुर्थी पूजा प्रारम्भः ॥

ध्यानम् –
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् ।
लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥
आखुपृष्ठसमासीनं चामरैर्वीजितं गणैः ।
शेषयज्ञोपवीतं च चिन्तयामि गजाननम् ॥
ओं श्रीविनायकाय नमः ध्यायामि ।

आवाहनं –
आगच्छ देव देवेश सङ्कटं मे निवारय ।
यावत्पूजा समाप्येत तावत्त्वं सन्निधौ भव ॥
ओं गजास्याय नमः आवाहयामि ।

आसनं –
गणाधीश नमस्तेऽस्तु सर्वसिद्धिप्रदायक ।
आसनं गृह्यतां देव सङ्कटं मे निवारय ॥
ओं विघ्नराजाय नमः आसनं समर्पयामि ।

पाद्यं –
उमापुत्र नमस्तेऽस्तु नमस्ते मोदकप्रिय ।
पाद्यं गृहाण देवेश सङ्कटं मे निवारय ॥
ओं लम्बोदराय नमः पाद्यं समर्पयामि ।

अर्घ्यं –
लम्बोदर नमस्तेऽस्तु रत्नयुक्तं फलान्वितम् ।
अर्घ्यं गृहाण देवेश सङ्कटं मे निवारय ॥
ओं शङ्करसूनवे नमः अर्घ्यं समर्पयामि ।

आचमनीयं –
गङ्गादिसर्वतीर्थेभ्यः आहृतं जलमुत्तमम् ।
गृहाणाचमनीयार्थं सङ्कटं मे निवारय ॥
ओं उमासुताय नमः आचमनीयं समर्पयामि ।

पञ्चामृत स्नानं –
पयोदधिघृतं चैव शर्करामधुसम्युतम् ।
पञ्चामृतं गृहाणेदं सङ्कटं मे निवारय ॥
ओं वक्रतुण्डाय नमः पञ्चामृतस्नानं समर्पयामि ।

शुद्धोदक स्नानं –
कवेरजासिन्धुगङ्गा कृष्णागोदोद्भवैर्जलैः ।
स्नापितोऽसि मया भक्त्या सङ्कटं मे निवारय ॥
ओं उमापुत्राय नमः शुद्धोदकस्नानं समर्पयामि ।

वस्त्रं –
इभवक्त्र नमस्तुभ्यं गृहाण परमेश्वर ।
वस्त्रयुग्मं गणाध्यक्ष सङ्कटं मे निवारय ॥
ओं शूर्पकर्णाय नमः वस्त्राणि समर्पयामि ।

उपवीतं –
विनायक नमस्तुभ्यं नमः परशुधारिणे ।
उपवीतं गृहाणेदं सङ्कटं मे निवारय ॥
ओं कुब्जाय नमः यज्ञोपवीतं समर्पयामि ।

गन्धं –
ईशपुत्र नमस्तुभ्यं नमो मूषिकवाहन ।
चन्दनं गृह्यतां देव सङ्कटं मे निवारय ॥
ओं गणेश्वराय नमः गन्धान् धारयामि ।

अक्षतान् –
घृतकुङ्कुम सम्युक्ताः तण्डुलाः सुमनोहराः ।
अक्षतास्ते नमस्तुभ्यं सङ्कटं मे निवारय ॥
ओं विघ्नराजाय नमः अक्षतान् समर्पयामि ।

पुष्पं –
चम्पकं मल्लिकां दूर्वाः पुष्पजातीरनेकशः ।
गृहाण त्वं गणाध्यक्ष सङ्कटं मे निवारय ॥
ओं विघ्नविनाशिने नमः पुष्पैः पूजयामि ।

पुष्प पूजा –
ओं सुमुखाय नमः । ओं एकदन्ताय नमः ।
ओं कपिलाय नमः । ओं गजकर्णकाय नमः ।
ओं लम्बोदराय नमः । ओं विकटाय नमः ।
ओं विघ्नराजाय नमः । ओं विनायकाय नमः ।
ओं धूमकेतवे नमः । ओं गणाध्यक्षाय नमः ।
ओं फालचन्द्राय नमः । ओं गजाननाय नमः ।
ओं वक्रतुण्डाय नमः । ओं शूर्पकर्णाय नमः ।
ओं हेरम्बाय नमः । ओं स्कन्दपूर्वजाय नमः ।

एकविंशति दूर्वायुग्म पूजा –
गणाधिपाय नमः दूर्वायुग्मं समर्पयामि ।
उमापुत्राय नमः दूर्वायुग्मं समर्पयामि ।
अघनाशनाय नमः दूर्वायुग्मं समर्पयामि ।
एकदन्ताय नमः दूर्वायुग्मं समर्पयामि ।
इभवक्त्राय नमः दूर्वायुग्मं समर्पयामि ।
मूषिकवाहनाय नमः दूर्वायुग्मं समर्पयामि ।
विनायकाय नमः दूर्वायुग्मं समर्पयामि ।
ईशपुत्राय नमः दूर्वायुग्मं समर्पयामि ।
सर्वसिद्धिप्रदाय नमः दूर्वायुग्मं समर्पयामि ।
लम्बोदराय नमः दूर्वायुग्मं समर्पयामि ।
वक्रतुण्डाय नमः दूर्वायुग्मं समर्पयामि ।
मोदकप्रियाय नमः दूर्वायुग्मं समर्पयामि ।
विघ्नविध्वंसकर्त्रे नमः दूर्वायुग्मं समर्पयामि ।
विश्ववन्द्याय नमः दूर्वायुग्मं समर्पयामि ।
अमरेशाय नमः दूर्वायुग्मं समर्पयामि ।
गजकर्णकाय नमः दूर्वायुग्मं समर्पयामि ।
नागयज्ञोपवीतिने नमः दूर्वायुग्मं समर्पयामि ।
फालचन्द्राय नमः दूर्वायुग्मं समर्पयामि ।
परशुधारिणे नमः दूर्वायुग्मं समर्पयामि ।
विघ्नाधिपाय नमः दूर्वायुग्मं समर्पयामि ।
विद्याप्रदाय नमः दूर्वायुग्मं समर्पयामि ।

धूपं –
लम्बोदर महाकाय धूम्रकेतो सुवासितम् ।
धूपं गृहाण देवेश सङ्कटं मे निवारय ॥
ओं विकटाय नमः धूपं आघ्रापयामि ।

दीपं –
विघ्नान्धकार संहार कारक त्रिदशाधिप ।
दीपं गृहाण देवेश सङ्कटं मे निवारय ॥
ओं वामनाय नमः दीपं दर्शयामि ।

नैवेद्यं –
मोदकापूपलड्डुक पायसं शर्करान्वितम् ।
पक्वान्नं सघृतं देव नैवेद्यं प्रतिगृह्यताम् ॥
ओं सर्वदेवाय नमः अमृतोपहारं समर्पयामि ।

फलं –
नारिकेल फलं द्राक्षा रसालं दाडिमं शुभम् ।
फलं गृहाण देवेश सङ्कटं मे निवारय ॥
ओं सर्वार्तिनाशिने नमः फलं समर्पयामि ।

ताम्बूलं –
क्रमुकैलालवङ्गानि नागवल्लीदलानि च ।
ताम्बूलं गृह्यतां देव सङ्कटं मे निवारय ॥
ओं विघ्नहर्त्रे नमः ताम्बूलं समर्पयामि ।

नीराजनं –
कर्पूरानलसम्युक्तं अशेषाघौघनाशनम् ।
नीराजनं गृहाणेश सङ्कटान्मां विमोचय ॥
ओं श्रीविनायकाय नमः कर्पूरनीराजनं समर्पयामि ।

पुष्पाञ्जलिः –
चम्पकाशोकवकुल पारिजात भवैः सुमैः ।
पुष्पाञ्जलिं गृहाणेमं सङ्कटान्मां विमोचय ॥
ओं देवोत्तमाय नमः सुवर्णपुष्पं समर्पयामि ।

नमस्कारं –
त्वमेव विश्वं सृजसीभवक्त्र
त्वमेव विश्वं परिपासि देव ।
त्वमेव विश्वं हरसेऽखिलेश
त्वमेव विश्वात्मक आविभासि ॥
नमामि देवं गणनाथमीशं
विघ्नेश्वरं विघ्नविनाशदक्षम् ।
भक्तार्तिहं भक्तविमोक्षदक्षं
विद्याप्रदं वेदनिदानमाद्यम् ॥
ये त्वामसम्पूज्य गणेश नूनं
वाञ्छन्ति मूढाः विहितार्थसिद्धिम् ।
त एव नष्टा नियतं हि लोके
ज्ञातो मया ते सकलः प्रभावः ॥
ओं धूम्राय नमः प्रार्थना नमस्कारान् समर्पयामि ।

अर्घ्यं –
तिथीनामुत्तमे देवि गणेशप्रियवल्लभे ।
सङ्कटं हर मे देवि गृहाणार्घ्यं नमोऽस्तु ते ॥
चतुर्थीतिथिदेवतायै नमः इदमर्घ्यम् । (७)

लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय ।
सङ्कटं हर मे देव गृहाणार्घ्यं नमोऽस्तु ते ॥
सङ्कटहर विघ्नेशाय नमः इदमर्घ्यम् । (७)

क्षीरोदार्णव सम्भूत अत्रिगोत्रसमुद्भव ।
गृहाणार्घ्यं मया दत्तं रोहिणीसहितः शशिन् ॥
चन्द्राय नमः इदमर्घ्यम् । (७)

क्षमाप्रार्थन –
यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे गजाननम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं गणाधिप ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥

समर्पणं –
अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मिकः श्री गणेशः सुप्रीतो सुप्रसन्नो वरदो भवन्तु । इदं सङ्कटहरचतुर्थी पूजा गणेशार्पणमस्तु ।

तीर्थप्रसाद स्वीकरण –
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री महागणाधिपति पादोदकं पावनं शुभम् ॥
श्री महागणपति प्रसादं शिरसा गृह्णामि ॥

उद्वासनं –
गच्छ सत्त्वमुमापुत्र ममानुग्रहकारणात् ।
पूजितोऽसि मया भक्त्या गच्छ स्वस्थानकं प्रभो ॥
गणपतये नमः यथास्थानं उद्वासयामि ।
शोभनार्थे क्षेमाय पुनरागमनाय च ।

ओं शान्तिः शान्तिः शान्तिः ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed