Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीमन्वृषभशैलेश वर्धतां विजयी भवान् ।
दिव्यं त्वदीयमैश्वर्यं निर्मर्यादं विजृम्भताम् ॥ १ ॥
देवीभूषायुधैर्नित्यैर्मुक्तैर्मोक्षैकलक्षणैः ।
सत्त्वोत्तरैस्त्वदीयैश्च सङ्गः स्तात्सरसस्तव ॥ २ ॥
प्राकारगोपुरवरप्रासादमणिमण्टपाः ।
शालिमुद्गतिलादीनां शालाः शैलकुलोज्ज्वलाः ॥ ३ ॥
रत्नकाञ्चनकौशेयक्षौमक्रमुकशालिकाः ।
शय्यागृहाणि पर्यङ्कवर्याः स्थूलासनानि च ॥ ४ ॥
कनत्कनकभृङ्गारपतद्ग्रहकलाचिकाः ।
छत्रचामरमुख्याश्च सन्तु नित्याः परिच्छदाः ॥ ५ ॥
अस्तु निस्तुलमव्यग्रं नित्यमभ्यर्चनं तव ।
पक्षेपक्षे विवर्धन्तां मासिमासि महोत्सवाः ॥ ६ ॥
मणिकाञ्चनचित्राणि भूषणान्यम्बराणि च ।
काश्मीरसारकस्तूरीकर्पूराद्यनुलेपनम् ॥ ७ ॥
कोमलानि च दामानि कुसुमैः सौरभोत्करैः ।
धूपाः कर्पूरदीपाश्च सन्तु सन्ततमेव ते ॥ ८ ॥
नृत्तगीतयुतं वाद्यं नित्यमत्र विवर्धताम् ।
श्रोत्रेषु सुधाधाराः कल्पन्तां काहलीस्वनाः ॥ ९ ॥
कन्दमूलफलोदग्रं कालेकाले चतुर्विधम् ।
सूपापूपघृतक्षीरशर्करासहितं हविः ॥ १० ॥
घनसारशिलोदग्रैः क्रमुकाष्टदलैः सह ।
विमलानि च ताम्बूलीदलानि स्वीकुरु प्रभो ॥ ११ ॥
प्रीतिभीतियुतो भूयाद्भूयान् परिजनस्तव ।
भक्तिमन्तो भजन्तु त्वां पौरा जानपदास्तथा ॥ १२ ॥
धरणीधनरत्नानि वितरन्तु चिरं तव ।
कैङ्कर्यमखिलं सर्वे कुर्वन्तु क्षोणिपालकाः ॥ १३ ॥
प्रेमदिग्धदृशः स्वैरं प्रेक्षमाणास्त्वदाननम् ।
महान्तः सन्ततं सन्तो मङ्गलानि प्रयुञ्जताम् ॥ १४ ॥
एवमेव भवेन्नित्यं पालयन् कुशली भवान् ।
मामहीरमण श्रीमान् वर्धतामभिवर्धताम् ॥ १५ ॥
पत्युः प्रत्यहमित्थं यः प्रार्थयेत समुच्छ्रयम् ।
प्रसादसुमुखः श्रीमान् पश्यत्येनं परः पुमान् ॥ १६ ॥
इति ऋद्धिस्तवः ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.