Panchakshara Mantra Garbha Stotram – श्री पञ्चाक्षरमन्त्रगर्भ स्तोत्रम्


दुष्टतमोऽपि दयारहितोऽपि विधर्मविशेषकृतिप्रथितोऽपि ।
दुर्जनसङ्गरतोऽप्यवरोऽपि कृष्ण तवाऽस्मि न चास्मि परस्य ॥ १ ॥

लोभरतोऽप्यभिमानयुतोऽपि परहितकारणकृत्यकरोऽपि ।
क्रोधपरोऽप्यविवेकहतोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ २ ॥

काममयोऽपि गताश्रयणोऽपि पराश्रयणाशयचञ्चलितोऽपि ।
वैषयिकादरसंवलितोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ३ ॥

उत्तमधैर्यविभिन्नतरोऽपि निजोदरपोषणहेतुपरोऽपि ।
स्वीकृतमत्सरमोहमदोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ४ ॥

भक्तिपथादरमात्रकृतोऽपि व्यर्थविरुद्धकृतिप्रसृतोऽपि ।
त्वत्पदसन्मुखताऽपतितोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ५ ॥

संसृतिगेहकलत्ररतोऽपि व्यर्थधनार्जनखेदसहोऽपि ।
उन्मदमानससंश्रयणोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ६ ॥

कृष्णपथेतरधर्मरतोऽपि स्वस्थितिविस्मृतिसद्धृदयोऽपि ।
दुर्जनदुर्वचनादरणोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ७ ॥

वल्लभवंशजनुस्सबलोऽपि स्वप्रभुपादसरोजफलोऽपि ।
लौकिकवैदिकधर्मखलोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ८ ॥

पञ्चाक्षर महामन्त्रगर्भित स्तोत्र पाठतः ।
श्रीमदाचार्यदासानां तदीयत्वं भवेद्ध्रुवम् ॥ ९ ॥

इति श्रीहरिदासोक्तं पञ्चाक्षरगर्भस्तोत्रम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed