Manidweepa Varnanam (Devi Bhagavatam) Part 3 – मणिद्वीपवर्णनम् (देवीभागवतम्) – ३



[ दशमोऽध्यायःएकादशोऽध्यायः – द्वादशोऽध्यायः ]

अथ श्रीमद्देवीभागवते द्वादशस्कन्धे द्वादशोऽध्यायः ॥

व्यास उवाच ।
तदेव देवीसदनं मध्यभागे विराजते ।
सहस्रस्तम्भसम्युक्ताश्चत्वारस्तेषु मण्डपाः ॥ १ ॥

शृङ्गारमण्डपश्चैको मुक्तिमण्डप एव च ।
ज्ञानमण्डपसञ्ज्ञस्तु तृतीयः परिकीर्तितः ॥ २ ॥

एकान्तमण्डपश्चैव चतुर्थः परिकीर्तितः ।
नानावितानसम्युक्ता नानाधूपैस्तु धूपिताः ॥ ३ ॥

कोटिसूर्यसमाः कान्त्या भ्राजन्ते मण्डपाः शुभाः ।
तन्मण्डपानां परितः काश्मीरवनिका स्मृता ॥ ४ ॥

मल्लिकाकुन्दवनिका यत्र पुष्कलकाः स्थिताः ।
असङ्ख्याता मृगमदैः पूरितास्तत्स्रवा नृप ॥ ५ ॥

महापद्माटवी तद्वद्रत्नसोपाननिर्मिता ।
सुधारसेन सम्पूर्णा गुञ्जन्मत्तमधुव्रता ॥ ६ ॥

हंसकारण्डवाकीर्णा गन्धपूरितदिक्तटा ।
वनिकानां सुगन्धैस्तु मणिद्वीपं सुवासितम् ॥ ७ ॥

शृङ्गारमण्डपे देव्यो गायन्ति विविधैः स्वरैः ।
सभासदो देववरा मध्ये श्रीजगदम्बिका ॥ ८ ॥

मुक्तिमण्डपमध्ये तु मोचयत्यनिशं शिवा ।
ज्ञानोपदेशं कुरुते तृतीये नृप मण्डपे ॥ ९ ॥

चतुर्थमण्डपे चैव जगद्रक्षाविचिन्तनम् ।
मन्त्रिणीसहिता नित्यं करोति जगदम्बिका ॥ १० ॥

चिन्तामणिगृहे राजन् शक्तितत्त्वात्मकैः परैः ।
सोपानैर्दशभिर्युक्तो मञ्चकोऽप्यधिराजते ॥ ११ ॥

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते मञ्चखुराः प्रोक्ताः फलकस्तु सदाशिवः ॥ १२ ॥

तस्योपरि महादेवो भुवनेशो विराजते ।
या देवी निजलीलार्थं द्विधाभूता बभूव ह ॥ १३ ॥

सृष्ट्यादौ तु स एवायं तदर्धाङ्गो महेश्वरः ।
कन्दर्पदर्पनाशोद्यत्कोटिकन्दर्पसुन्दरः ॥ १४ ॥

पञ्चवक्त्रस्त्रिनेत्रश्च मणिभूषणभूषितः ।
हरिणाभीतिपरशून्वरं च निजबाहुभिः ॥ १५ ॥

दधानः षोडशाब्दोऽसौ देवः सर्वेश्वरो महान् ।
कोटिसूर्यप्रतीकाशश्चन्द्रकोटिसुशीतलः ॥ १६ ॥

शुद्धस्फटिकसङ्काशस्त्रिनेत्रः शीतलद्युतिः ।
वामाङ्के सन्निषण्णास्य देवी श्रीभुवनेश्वरी ॥ १७ ॥

नवरत्नगणाकीर्णकाञ्चीदामविराजिता ।
तप्तकाञ्चनसन्नद्धवैदूर्याङ्गदभूषणा ॥ १८ ॥

कनच्छ्रीचक्रताटङ्कविटङ्कवदनाम्बुजा ।
ललाटकान्तिविभवविजितार्धसुधाकरा ॥ १९ ॥

बिम्बकान्तितिरस्कारिरदच्छदविराजिता ।
लसत्कुङ्कुमकस्तूरीतिलकोद्भासितानना ॥ २० ॥

दिव्यचूडामणिस्फारचञ्चच्चन्द्रकसूर्यका ।
उद्यत्कविसमस्वच्छनासाभरणभासुरा ॥ २१ ॥

चिन्ताकलम्बितस्वच्छमुक्तागुच्छविराजिता ।
पाटीरपङ्ककर्पूरकुङ्कुमालङ्कृतस्तनी ॥ २२ ॥

विचित्रविविधाकल्पा कम्बुसङ्काशकन्धरा ।
दाडिमीफलबीजाभदन्तपङ्क्तिविराजिता ॥ २३ ॥

अनर्घ्यरत्नघटितमुकुटाञ्चितमस्तका ।
मत्तालिमालाविलसदलकाढ्यमुखाम्बुजा ॥ २४ ॥

कलङ्ककार्श्यनिर्मुक्तशरच्चन्द्रनिभानना ।
जाह्नवीसलिलावर्तशोभिनाभिविभूषिता ॥ २५ ॥

माणिक्यशकलाबद्धमुद्रिकाङ्गुलिभूषिता ।
पुण्डरीकदलाकारनयनत्रयसुन्दरी ॥ २६ ॥

कल्पिताच्छमहारागपद्मरागोज्ज्वलप्रभा ।
रत्नकिङ्किणिकायुक्तरत्नकङ्कणशोभिता ॥ २७ ॥

मणिमुक्तासरापारलसत्पदकसन्ततिः ।
रत्नाङ्गुलिप्रविततप्रभाजाललसत्करा ॥ २८ ॥

कञ्चुकीगुंफितापारनानारत्नततिद्युतिः ।
मल्लिकामोदिधम्मिल्लमल्लिकालिसरावृता ॥ २९ ॥

सुवृत्तनिबिडोत्तुङ्गकुचभारालसा शिवा ।
वरपाशाङ्कुशाभीतिलसद्बाहुचतुष्टया ॥ ३० ॥

सर्वशृङ्गारवेषाढ्या सुकुमाराङ्गवल्लरी ।
सौन्दर्यधारासर्वस्वा निर्व्याजकरुणामयी ॥ ३१ ॥

निजसंल्लापमाधुर्यविनिर्भर्त्सितकच्छपी ।
कोटिकोटिरवीन्दूनां कान्तिं या बिभ्रती परा ॥ ३२ ॥

नानासखीभिर्दासीभिस्तथा देवाङ्गनादिभिः ।
सर्वाभिर्देवताभिस्तु समन्तात्परिवेष्टिता ॥ ३३ ॥

इच्छाशक्त्या ज्ञानशक्त्या क्रियाशक्त्या समन्विता ।
लज्जा तुष्टिस्तथा पुष्टिः कीर्तिः कान्तिः क्षमा दया ॥ ३४ ॥

बुद्धिर्मेधा स्मृतिर्लक्ष्मीर्मूर्तिमत्योऽङ्गनाः स्मृताः ।
जया च विजया चैवाप्यजिता चापराजिता ॥ ३५ ॥

नित्या विलासिनी दोग्ध्री त्वघोरा मङ्गला नवा ।
पीठशक्तय एतास्तु सेवन्ते यां पराम्बिकाम् ॥ ३६ ॥

यस्यास्तु पार्श्वभागे स्तो निधी तौ शङ्खपद्मकौ ।
नवरत्नवहा नद्यस्तथा वै काञ्चनस्रवाः ॥ ३७ ॥

सप्तधातुवहा नद्यो निधिभ्यां तु विनिर्गताः ।
सुधासिन्ध्वन्तगामिन्यस्ताः सर्वा नृपसत्तम ॥ ३८ ॥

सा देवी भुवनेशानी तद्वामाङ्के विराजते ।
सर्वेशत्वं महेशस्य यत्सङ्गादेव नान्यथा ॥ ३९ ॥

चिन्तामणिगृहस्यास्य प्रमाणं शृणु भूमिप ।
सहस्रयोजनायामं महान्तस्तत्प्रचक्षते ॥ ४० ॥

तदुत्तरे महाशालाः पूर्वस्माद्द्विगुणाः स्मृताः ।
अन्तरिक्षगतं त्वेतन्निराधारं विराजते ॥ ४१ ॥

सङ्कोचश्च विकाशश्च जायतेऽस्य निरन्तरम् ।
पटवत्कार्यवशतः प्रलये सर्जने तथा ॥ ४२ ॥

शालानां चैव सर्वेषां सर्वकान्तिपरावधि ।
चिन्तामणिगृहं प्रोक्तं यत्र देवी महोमयी ॥ ४३ ॥

ये ये उपासकाः सन्ति प्रतिब्रह्माण्डवर्तिनः ।
देवेषु नागलोकेषु मनुष्येष्वितरेषु च ॥ ४४ ॥

श्रीदेव्यास्ते च सर्वेऽपि व्रजन्त्यत्रैव भूमिप ।
देवीक्षेत्रे ये त्यजन्ति प्राणान्देव्यर्चने रताः ॥ ४५ ॥

ते सर्वे यान्ति तत्रैव यत्र देवी महोत्सवा ।
घृतकुल्या दुग्धकुल्या दधिकुल्या मधुस्रवाः ॥ ४६ ॥

स्यन्दन्ति सरितः सर्वास्तथामृतवहाः पराः ।
द्राक्षारसवहाः काश्चिज्जम्बूरसवहाः पराः ॥ ४७ ॥

आम्रेक्षुरसवाहिन्यो नद्यस्तास्तु सहस्रशः ।
मनोरथफला वृक्षा वाप्यः कूपास्तथैव च ॥ ४८ ॥

यथेष्टपानफलदा न न्यूनं किञ्चिदस्ति हि ।
न रोगपलितं वापि जरा वापि कदाचन ॥ ४९ ॥

न चिन्ता न च मात्सर्यं कामक्रोधादिकं तथा ।
सर्वे युवानः सस्त्रीकाः सहस्रादित्यवर्चसः ॥ ५० ॥

भजन्ति सततं देवीं तत्र श्रीभुवनेश्वरीम् ।
केचित्सलोकतापन्नाः केचित्सामीप्यतां गताः ॥ ५१ ॥

सरूपतां गताः केचित्सार्ष्टितां च परे गताः ।
या यास्तु देवतास्तत्र प्रतिब्रह्माण्डवर्तिनाम् ॥ ५२ ॥

समष्टयः स्थितास्तास्तु सेवन्ते जगदीश्वरीम् ।
सप्तकोटिमहामन्त्रा मूर्तिमन्त उपासते ॥ ५३ ॥

महाविद्याश्च सकलाः साम्यावस्थात्मिकां शिवाम् ।
कारणब्रह्मरूपां तां मायाशबलविग्रहाम् ॥ ५४ ॥

इत्थं राजन् मया प्रोक्तं मणिद्वीपं महत्तरम् ।
न सूर्यचन्द्रौ नो विद्युत्कोटयोऽग्निस्तथैव च ॥ ५५ ॥

एतस्य भासा कोट्यंशकोट्यंशेनापि ते समाः ।
क्वचिद्विद्रुमसङ्काशं क्वचिन्मरकतच्छवि ॥ ५६ ॥

विद्युद्भानुसमच्छायं मध्यसूर्यसमं क्वचित् ।
विद्युत्कोटिमहाधारा सारकान्तिततं क्वचित् ॥ ५७ ॥

क्वचित्सिन्दूरनीलेन्द्रमाणिक्यसदृशच्छवि ।
हीरसारमहागर्भधगद्धगितदिक्तटम् ॥ ५८ ॥

कान्त्या दावानलसमं तप्तकाञ्चनसन्निभम् ।
क्वचिच्चन्द्रोपलोद्गारं सूर्योद्गारं च कुत्रचित् ॥ ५९ ॥

रत्नशृङ्गिसमायुक्तं रत्नप्राकारगोपुरम् ।
रत्नपत्रै रत्नफलैर्वृक्षैश्च परिमण्डितम् ॥ ६० ॥

नृत्यन्मयूरसङ्घैश्च कपोतरणितोज्ज्वलम् ।
कोकिलाकाकलीलापैः शुकलापैश्च शोभितम् ॥ ६१ ॥

सुरम्यरमणीयाम्बुलक्षावधिसरोवृतम् ।
तन्मध्यभागविलसद्विकचद्रत्नपङ्कजैः ॥ ६२ ॥

सुगन्धिभिः समन्तात्तु वासितं शतयोजनम् ।
मन्दमारुतसम्भिन्नचलद्द्रुमसमाकुलम् ॥ ६३ ॥

चिन्तामणिसमूहानां ज्योतिषा वितताम्बरम् ।
रत्नप्रभाभिरभितो धगद्धगितदिक्तटम् ॥ ६४ ॥

वृक्षव्रातमहागन्धवातव्रातसुपूरितम् ।
धूपधूपायितं राजन्मणिदीपायुतोज्ज्वलम् ॥ ६५ ॥

मणिजालकसच्छिद्रतरलोदरकान्तिभिः ।
दिङ्मोहजनकं चैतद्दर्पणोदरसम्युतम् ॥ ६६ ॥

ऐश्वर्यस्य समग्रस्य शृङ्गारस्याखिलस्य च ।
सर्वज्ञतायाः सर्वायास्तेजसश्चाखिलस्य च ॥ ६७ ॥

पराक्रमस्य सर्वस्य सर्वोत्तमगुणस्य च ।
सकलाया दयायाश्च समाप्तिरिह भूपते ॥ ६८ ॥

राज्ञ आनन्दमारभ्य ब्रह्मलोकान्तभूमिषु ।
आनन्दा ये स्थिताः सर्वे तेऽत्रैवान्तर्भवन्ति हि ॥ ६९ ॥

इति ते वर्णितं राजन्मणिद्वीपं महत्तरम् ।
महादेव्याः परं स्थानं सर्वलोकोत्तमोत्तमम् ॥ ७० ॥

एतस्य स्मरणात्सद्यः सर्वं पापं विनश्यति ।
प्राणोत्क्रमणसन्धौ तु स्मृत्वा तत्रैव गच्छति ॥ ७१ ॥

अध्यायपञ्चकं त्वेतत्पठेन्नित्यं समाहितः ।
भूतप्रेतपिशाचादिबाधा तत्र भवेन्न हि ॥ ७२ ॥

नवीनगृहनिर्माणे वास्तुयागे तथैव च ।
पठितव्यं प्रयत्नेन कल्याणं तेन जायते ॥ ७३ ॥

इति श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे मणिद्वीपवर्णनं नाम द्वादशोऽध्यायः ॥

[ दशमोऽध्यायःएकादशोऽध्यायः – द्वादशोऽध्यायः ]


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Manidweepa Varnanam (Devi Bhagavatam) Part 3 – मणिद्वीपवर्णनम् (देवीभागवतम्) – ३



Leave a Reply

error: Not allowed