Manidweepa Varnanam (Devi Bhagavatam) Part 3 – मणिद्वीपवर्णनम् (देवीभागवतम्) – ३


[ प्रथम भागम्द्वितीय भागम्तृतीय भागम् ]

अथ श्रीमद्देवीभागवते द्वादशस्कन्धे द्वादशोऽध्यायः ॥

व्यास उवाच ।
तदेव देवीसदनं मध्यभागे विराजते ।
सहस्रस्तम्भसम्युक्ताश्चत्वारस्तेषु मण्डपाः ॥ १ ॥

शृङ्गारमण्डपश्चैको मुक्तिमण्डप एव च ।
ज्ञानमण्डपसञ्ज्ञस्तु तृतीयः परिकीर्तितः ॥ २ ॥

एकान्तमण्डपश्चैव चतुर्थः परिकीर्तितः ।
नानावितानसम्युक्ता नानाधूपैस्तु धूपिताः ॥ ३ ॥

कोटिसूर्यसमाः कान्त्या भ्राजन्ते मण्डपाः शुभाः ।
तन्मण्डपानां परितः काश्मीरवनिका स्मृता ॥ ४ ॥

मल्लिकाकुन्दवनिका यत्र पुष्कलकाः स्थिताः ।
असङ्ख्याता मृगमदैः पूरितास्तत्स्रवा नृप ॥ ५ ॥

महापद्माटवी तद्वद्रत्नसोपाननिर्मिता ।
सुधारसेन सम्पूर्णा गुञ्जन्मत्तमधुव्रता ॥ ६ ॥

हंसकारण्डवाकीर्णा गन्धपूरितदिक्तटा ।
वनिकानां सुगन्धैस्तु मणिद्वीपं सुवासितम् ॥ ७ ॥

शृङ्गारमण्डपे देव्यो गायन्ति विविधैः स्वरैः ।
सभासदो देववरा मध्ये श्रीजगदम्बिका ॥ ८ ॥

मुक्तिमण्डपमध्ये तु मोचयत्यनिशं शिवा ।
ज्ञानोपदेशं कुरुते तृतीये नृप मण्डपे ॥ ९ ॥

चतुर्थमण्डपे चैव जगद्रक्षाविचिन्तनम् ।
मन्त्रिणीसहिता नित्यं करोति जगदम्बिका ॥ १० ॥

चिन्तामणिगृहे राजन् शक्तितत्त्वात्मकैः परैः ।
सोपानैर्दशभिर्युक्तो मञ्चकोऽप्यधिराजते ॥ ११ ॥

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते मञ्चखुराः प्रोक्ताः फलकस्तु सदाशिवः ॥ १२ ॥

तस्योपरि महादेवो भुवनेशो विराजते ।
या देवी निजलीलार्थं द्विधाभूता बभूव ह ॥ १३ ॥

सृष्ट्यादौ तु स एवायं तदर्धाङ्गो महेश्वरः ।
कन्दर्पदर्पनाशोद्यत्कोटिकन्दर्पसुन्दरः ॥ १४ ॥

पञ्चवक्त्रस्त्रिनेत्रश्च मणिभूषणभूषितः ।
हरिणाभीतिपरशून्वरं च निजबाहुभिः ॥ १५ ॥

दधानः षोडशाब्दोऽसौ देवः सर्वेश्वरो महान् ।
कोटिसूर्यप्रतीकाशश्चन्द्रकोटिसुशीतलः ॥ १६ ॥

शुद्धस्फटिकसङ्काशस्त्रिनेत्रः शीतलद्युतिः ।
वामाङ्के सन्निषण्णास्य देवी श्रीभुवनेश्वरी ॥ १७ ॥

नवरत्नगणाकीर्णकाञ्चीदामविराजिता ।
तप्तकाञ्चनसन्नद्धवैदूर्याङ्गदभूषणा ॥ १८ ॥

कनच्छ्रीचक्रताटङ्कविटङ्कवदनाम्बुजा ।
ललाटकान्तिविभवविजितार्धसुधाकरा ॥ १९ ॥

बिम्बकान्तितिरस्कारिरदच्छदविराजिता ।
लसत्कुङ्कुमकस्तूरीतिलकोद्भासितानना ॥ २० ॥

दिव्यचूडामणिस्फारचञ्चच्चन्द्रकसूर्यका ।
उद्यत्कविसमस्वच्छनासाभरणभासुरा ॥ २१ ॥

चिन्ताकलम्बितस्वच्छमुक्तागुच्छविराजिता ।
पाटीरपङ्ककर्पूरकुङ्कुमालङ्कृतस्तनी ॥ २२ ॥

विचित्रविविधाकल्पा कम्बुसङ्काशकन्धरा ।
दाडिमीफलबीजाभदन्तपङ्क्तिविराजिता ॥ २३ ॥

अनर्घ्यरत्नघटितमुकुटाञ्चितमस्तका ।
मत्तालिमालाविलसदलकाढ्यमुखाम्बुजा ॥ २४ ॥

कलङ्ककार्श्यनिर्मुक्तशरच्चन्द्रनिभानना ।
जाह्नवीसलिलावर्तशोभिनाभिविभूषिता ॥ २५ ॥

माणिक्यशकलाबद्धमुद्रिकाङ्गुलिभूषिता ।
पुण्डरीकदलाकारनयनत्रयसुन्दरी ॥ २६ ॥

कल्पिताच्छमहारागपद्मरागोज्ज्वलप्रभा ।
रत्नकिङ्किणिकायुक्तरत्नकङ्कणशोभिता ॥ २७ ॥

मणिमुक्तासरापारलसत्पदकसन्ततिः ।
रत्नाङ्गुलिप्रविततप्रभाजाललसत्करा ॥ २८ ॥

कञ्चुकीगुंफितापारनानारत्नततिद्युतिः ।
मल्लिकामोदिधम्मिल्लमल्लिकालिसरावृता ॥ २९ ॥

सुवृत्तनिबिडोत्तुङ्गकुचभारालसा शिवा ।
वरपाशाङ्कुशाभीतिलसद्बाहुचतुष्टया ॥ ३० ॥

सर्वशृङ्गारवेषाढ्या सुकुमाराङ्गवल्लरी ।
सौन्दर्यधारासर्वस्वा निर्व्याजकरुणामयी ॥ ३१ ॥

निजसंल्लापमाधुर्यविनिर्भर्त्सितकच्छपी ।
कोटिकोटिरवीन्दूनां कान्तिं या बिभ्रती परा ॥ ३२ ॥

नानासखीभिर्दासीभिस्तथा देवाङ्गनादिभिः ।
सर्वाभिर्देवताभिस्तु समन्तात्परिवेष्टिता ॥ ३३ ॥

इच्छाशक्त्या ज्ञानशक्त्या क्रियाशक्त्या समन्विता ।
लज्जा तुष्टिस्तथा पुष्टिः कीर्तिः कान्तिः क्षमा दया ॥ ३४ ॥

बुद्धिर्मेधा स्मृतिर्लक्ष्मीर्मूर्तिमत्योऽङ्गनाः स्मृताः ।
जया च विजया चैवाप्यजिता चापराजिता ॥ ३५ ॥

नित्या विलासिनी दोग्ध्री त्वघोरा मङ्गला नवा ।
पीठशक्तय एतास्तु सेवन्ते यां पराम्बिकाम् ॥ ३६ ॥

यस्यास्तु पार्श्वभागे स्तो निधी तौ शङ्खपद्मकौ ।
नवरत्नवहा नद्यस्तथा वै काञ्चनस्रवाः ॥ ३७ ॥

सप्तधातुवहा नद्यो निधिभ्यां तु विनिर्गताः ।
सुधासिन्ध्वन्तगामिन्यस्ताः सर्वा नृपसत्तम ॥ ३८ ॥

सा देवी भुवनेशानी तद्वामाङ्के विराजते ।
सर्वेशत्वं महेशस्य यत्सङ्गादेव नान्यथा ॥ ३९ ॥

चिन्तामणिगृहस्यास्य प्रमाणं शृणु भूमिप ।
सहस्रयोजनायामं महान्तस्तत्प्रचक्षते ॥ ४० ॥

तदुत्तरे महाशालाः पूर्वस्माद्द्विगुणाः स्मृताः ।
अन्तरिक्षगतं त्वेतन्निराधारं विराजते ॥ ४१ ॥

सङ्कोचश्च विकाशश्च जायतेऽस्य निरन्तरम् ।
पटवत्कार्यवशतः प्रलये सर्जने तथा ॥ ४२ ॥

शालानां चैव सर्वेषां सर्वकान्तिपरावधि ।
चिन्तामणिगृहं प्रोक्तं यत्र देवी महोमयी ॥ ४३ ॥

ये ये उपासकाः सन्ति प्रतिब्रह्माण्डवर्तिनः ।
देवेषु नागलोकेषु मनुष्येष्वितरेषु च ॥ ४४ ॥

श्रीदेव्यास्ते च सर्वेऽपि व्रजन्त्यत्रैव भूमिप ।
देवीक्षेत्रे ये त्यजन्ति प्राणान्देव्यर्चने रताः ॥ ४५ ॥

ते सर्वे यान्ति तत्रैव यत्र देवी महोत्सवा ।
घृतकुल्या दुग्धकुल्या दधिकुल्या मधुस्रवाः ॥ ४६ ॥

स्यन्दन्ति सरितः सर्वास्तथामृतवहाः पराः ।
द्राक्षारसवहाः काश्चिज्जम्बूरसवहाः पराः ॥ ४७ ॥

आम्रेक्षुरसवाहिन्यो नद्यस्तास्तु सहस्रशः ।
मनोरथफला वृक्षा वाप्यः कूपास्तथैव च ॥ ४८ ॥

यथेष्टपानफलदा न न्यूनं किञ्चिदस्ति हि ।
न रोगपलितं वापि जरा वापि कदाचन ॥ ४९ ॥

न चिन्ता न च मात्सर्यं कामक्रोधादिकं तथा ।
सर्वे युवानः सस्त्रीकाः सहस्रादित्यवर्चसः ॥ ५० ॥

भजन्ति सततं देवीं तत्र श्रीभुवनेश्वरीम् ।
केचित्सलोकतापन्नाः केचित्सामीप्यतां गताः ॥ ५१ ॥

सरूपतां गताः केचित्सार्ष्टितां च परे गताः ।
या यास्तु देवतास्तत्र प्रतिब्रह्माण्डवर्तिनाम् ॥ ५२ ॥

समष्टयः स्थितास्तास्तु सेवन्ते जगदीश्वरीम् ।
सप्तकोटिमहामन्त्रा मूर्तिमन्त उपासते ॥ ५३ ॥

महाविद्याश्च सकलाः साम्यावस्थात्मिकां शिवाम् ।
कारणब्रह्मरूपां तां मायाशबलविग्रहाम् ॥ ५४ ॥

इत्थं राजन् मया प्रोक्तं मणिद्वीपं महत्तरम् ।
न सूर्यचन्द्रौ नो विद्युत्कोटयोऽग्निस्तथैव च ॥ ५५ ॥

एतस्य भासा कोट्यंशकोट्यंशेनापि ते समाः ।
क्वचिद्विद्रुमसङ्काशं क्वचिन्मरकतच्छवि ॥ ५६ ॥

विद्युद्भानुसमच्छायं मध्यसूर्यसमं क्वचित् ।
विद्युत्कोटिमहाधारा सारकान्तिततं क्वचित् ॥ ५७ ॥

क्वचित्सिन्दूरनीलेन्द्रमाणिक्यसदृशच्छवि ।
हीरसारमहागर्भधगद्धगितदिक्तटम् ॥ ५८ ॥

कान्त्या दावानलसमं तप्तकाञ्चनसन्निभम् ।
क्वचिच्चन्द्रोपलोद्गारं सूर्योद्गारं च कुत्रचित् ॥ ५९ ॥

रत्नशृङ्गिसमायुक्तं रत्नप्राकारगोपुरम् ।
रत्नपत्रै रत्नफलैर्वृक्षैश्च परिमण्डितम् ॥ ६० ॥

नृत्यन्मयूरसङ्घैश्च कपोतरणितोज्ज्वलम् ।
कोकिलाकाकलीलापैः शुकलापैश्च शोभितम् ॥ ६१ ॥

सुरम्यरमणीयाम्बुलक्षावधिसरोवृतम् ।
तन्मध्यभागविलसद्विकचद्रत्नपङ्कजैः ॥ ६२ ॥

सुगन्धिभिः समन्तात्तु वासितं शतयोजनम् ।
मन्दमारुतसम्भिन्नचलद्द्रुमसमाकुलम् ॥ ६३ ॥

चिन्तामणिसमूहानां ज्योतिषा वितताम्बरम् ।
रत्नप्रभाभिरभितो धगद्धगितदिक्तटम् ॥ ६४ ॥

वृक्षव्रातमहागन्धवातव्रातसुपूरितम् ।
धूपधूपायितं राजन्मणिदीपायुतोज्ज्वलम् ॥ ६५ ॥

मणिजालकसच्छिद्रतरलोदरकान्तिभिः ।
दिङ्मोहजनकं चैतद्दर्पणोदरसम्युतम् ॥ ६६ ॥

ऐश्वर्यस्य समग्रस्य शृङ्गारस्याखिलस्य च ।
सर्वज्ञतायाः सर्वायास्तेजसश्चाखिलस्य च ॥ ६७ ॥

पराक्रमस्य सर्वस्य सर्वोत्तमगुणस्य च ।
सकलाया दयायाश्च समाप्तिरिह भूपते ॥ ६८ ॥

राज्ञ आनन्दमारभ्य ब्रह्मलोकान्तभूमिषु ।
आनन्दा ये स्थिताः सर्वे तेऽत्रैवान्तर्भवन्ति हि ॥ ६९ ॥

इति ते वर्णितं राजन्मणिद्वीपं महत्तरम् ।
महादेव्याः परं स्थानं सर्वलोकोत्तमोत्तमम् ॥ ७० ॥

एतस्य स्मरणात्सद्यः सर्वं पापं विनश्यति ।
प्राणोत्क्रमणसन्धौ तु स्मृत्वा तत्रैव गच्छति ॥ ७१ ॥

अध्यायपञ्चकं त्वेतत्पठेन्नित्यं समाहितः ।
भूतप्रेतपिशाचादिबाधा तत्र भवेन्न हि ॥ ७२ ॥

नवीनगृहनिर्माणे वास्तुयागे तथैव च ।
पठितव्यं प्रयत्नेन कल्याणं तेन जायते ॥ ७३ ॥

इति श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे मणिद्वीपवर्णनं नाम द्वादशोऽध्यायः ॥


గమనిక: "శ్రీ లక్ష్మీ స్తోత్రనిధి" పారాయణ గ్రంథము తెలుగులో ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.

Report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Manidweepa Varnanam (Devi Bhagavatam) Part 3 – मणिद्वीपवर्णनम् (देवीभागवतम्) – ३

Leave a Reply

Your email address will not be published.

error: Not allowed
%d bloggers like this: