Manidweepa Varnanam (Devi Bhagavatam) Part 2 – मणिद्वीपवर्णनम् (देवीभागवतम्) – २


[ प्रथम भागम्द्वितीय भागम् तृतीय भागम्  ]

अथ श्रीमद्देवीभागवते द्वादशस्कन्धे एकादशोऽध्यायः ॥

व्यास उवाच ।
पुष्परागमयादग्रे कुङ्कुमारुणविग्रहः ।
पद्मरागमयः सालो मध्ये भूश्चैव तादृशी ॥ १ ॥

दशयोजनवान्दैर्घ्ये गोपुरद्वारसम्युतः ।
तन्मणिस्तम्भसम्युक्ता मण्डपाः शतशो नृप ॥ २ ॥

मध्ये भुवि समासीनाश्चतुःषष्टिमिताः कलाः ।
नानायुधधरा वीरा रत्नभूषणभूषिताः ॥ ३ ॥

प्रत्येकलोकस्तासां तु तत्तल्लोकस्य नायकाः ।
समन्तात्पद्मरागस्य परिवार्य स्थिताः सदा ॥ ४ ॥

स्वस्वलोकजनैर्जुष्टाः स्वस्ववाहनहेतिभिः ।
तासां नामानि वक्ष्यामि शृणु त्वं जनमेजय ॥ ५ ॥

पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च ।
श्रद्धा स्वाहा स्वधाभिख्या माया सञ्ज्ञा वसुन्धरा ॥ ६ ॥

त्रिलोकधात्री सावित्री गायत्री त्रिदशेश्वरी ।
सुरूपा बहुरूपा च स्कन्दमाताऽच्युतप्रिया ॥ ७ ॥

विमला चामला तद्वदरुणी पुनरारुणी ।
प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ॥ ८ ॥

सन्ध्या माता सती हंसी मर्दिका वज्रिका परा ।
देवमाता भगवती देवकी कमलासना ॥ ९ ॥

त्रिमुखी सप्तमुख्यन्या सुरासुरविमर्दिनी ।
लम्बोष्ठी चोर्ध्वकेशी च बहुशीर्षा वृकोदरी ॥ १० ॥

रथरेखाह्वया पश्चाच्छशिरेखा तथापरा ।
गगनवेगा पवनवेगा चैव ततः परम् ॥ ११ ॥

अग्रे भुवनपाला स्यात्तत्पश्चान्मदनातुरा ।
अनङ्गानङ्गमथना तथैवानङ्गमेखला ॥ १२ ॥

अनङ्गकुसुमा पश्चाद्विश्वरूपा सुरादिका ।
क्षयङ्करी भवेच्छक्तिरक्षोभ्या च ततः परम् ॥ १३ ॥

सत्यवादिन्यथ प्रोक्ता बहुरूपा शुचिव्रता ।
उदाराख्या च वागीशी चतुःषष्टिमिताः स्मृताः ॥ १४ ॥

ज्वलज्जिह्वाननाः सर्वा वमन्त्यो वह्निमुल्बणम् ।
जलं पिबामः सकलं संहरामो विभावसुम् ॥ १५ ॥

पवनं स्तम्भयामोऽद्य भक्षयामोऽखिलं जगत् ।
इति वाचं सङ्गिरन्ते क्रोधसंरक्तलोचनाः ॥ १६ ॥

चापबाणधराः सर्वा युद्धायैवोत्सुकाः सदा ।
दंष्ट्राकटकटारावैर्बधिरीकृतदिङ्मुखाः ॥ १७ ॥

पिङ्गोर्ध्वकेश्यः सम्प्रोक्ताश्चापबाणकराः सदा ।
शताक्षौहिणिका सेनाप्येकैकस्याः प्रकीर्तिता ॥ १८ ॥

एकैकशक्तेः सामर्थ्यं लक्षब्रह्माण्डनाशने ।
शताक्षौहिणिका सेना तादृशी नृपसत्तम ॥ १९ ॥

किं न कुर्याज्जगत्यस्मिन्नशक्यं वक्तुमेव तत् ।
सर्वापि युद्धसामग्री तस्मिन्साले स्थिता मुने ॥ २० ॥

रथानां गणना नास्ति हयानां करिणां तथा ॥

शस्त्राणां गणना तद्वद्गणानां गणना तथा ॥ २१ ॥

पद्मरागमयादग्रे गोमेदमणिनिर्मितः ।
दशयोजनदैर्घ्येण प्राकारो वर्तते महान् ॥ २२ ॥

भास्वज्जपाप्रसूनाभो मध्यभूस्तस्य तादृशी ।
गोमेदकल्पितान्येव तद्वासिसदनानि च ॥ २३ ॥

पक्षिणः स्तम्भवर्याश्च वृक्षा वाप्यः सरांसि च ।
गोमेदकल्पिता एव कुङ्कुमारुणविग्रहाः ॥ २४ ॥

तन्मध्यस्था महादेव्यो द्वात्रिंशच्छक्तयः स्मृताः ।
नानाशस्त्रप्रहरणा गोमेदमणिभूषिताः ॥ २५ ॥

प्रत्येकलोकवासिन्यः परिवार्य समन्ततः ।
गोमेदसाले सन्नद्धा पिशाचवदना नृप ॥ २६ ॥

स्वर्लोकवासिभिर्नित्यं पूजिताश्चक्रबाहवः ।
क्रोधरक्तेक्षणा भिन्धि पचच्छिन्धि दहेति च ॥ २७ ॥

वदन्ति सततं वाचं युद्धोत्सुकहृदन्तराः ।
एकैकस्या महाशक्तेर्दशाक्षौहिणिका मता ॥ २८ ॥

सेना तत्राप्येकशक्तिर्लक्षब्रह्माण्डनाशिनी ।
तादृशीनां महासेना वर्णनीया कथं नृप ॥ २९ ॥

रथानां नैव गणाना वाहनानां तथैव च ।
सर्वयुद्धसमारम्भस्तत्र देव्या विराजते ॥ ३० ॥

तासां नामानि वक्ष्यामि पापनाशकराणि च ।
विद्याह्रीपुष्टयः प्रज्ञा सिनीवाली कुहूस्तथा ॥ ३१ ॥

रुद्रा वीर्या प्रभा नन्दा पोषिणी ऋद्धिदा शुभा ।
कालरात्रिर्महारात्रिर्भद्रकाली कपर्दिनी ॥ ३२ ॥

विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी ।
निशुम्भशुम्भमथिनी महिषासुरमर्दिनी ॥ ३३ ॥

इन्द्राणी चैव रुद्राणी शङ्करार्धशरीरिणी ।
नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ ३४ ॥

अम्बिका ह्लादिनी पश्चादित्येवं शक्तयः स्मृताः ।
यद्येताः कुपिता देव्यस्तदा ब्रह्माण्डनाशनम् ॥ ३५ ॥

पराजयो न चैतासां कदाचित्क्वचिदस्ति हि ।
गोमेदकमयादग्रे सद्वज्रमणिनिर्मितः ॥ ३६ ॥

दशयोजनतुङ्गोऽसौ गोपुरद्वारसम्युतः ।
कपाटशृङ्खलाबद्धो नववृक्षसमुज्ज्वलः ॥ ३७ ॥

सालस्तन्मध्यभूम्यादि सर्वं हीरमयं स्मृतम् ।
गृहाणि वीथयो रथ्या महामार्गाङ्गणानि च ॥ ३८ ॥

वृक्षालवालतरवः सारङ्गा अपि तादृशाः ।
दीर्घिकाश्रेणयो वाप्यस्तडागाः कूपसम्युताः ॥ ३९ ॥

तत्र श्रीभुवनेश्वर्या वसन्ति परिचारिकाः ।
एकैका लक्षदासीभिः सेविता मदगर्विताः ॥ ४० ॥

तालवृन्तधराः काश्चिच्चषकाढ्यकराम्बुजाः ।
काश्चित्ताम्बूलपात्राणि धारयन्त्योऽतिगर्विताः ॥ ४१ ॥

काश्चित्तच्छत्रधारिण्यश्चामराणां विधारिकाः ।
नानावस्त्रधराः काश्चित्काश्चित्पुष्पकराम्बुजाः ॥ ४२ ॥

नानादर्शकराः काश्चित्काश्चित्कुङ्कुमलेपनम् ।
धारयन्त्यः कज्जलं च सिन्दूरचषकं पराः ॥ ४३ ॥

काश्चिच्चित्रकनिर्मात्र्यः पादसंवाहने रताः ।
काश्चित्तु भूषाकारिण्यो नानाभूषाधराः पराः ॥ ४४ ॥

पुष्पभूषणनिर्मात्र्यः पुष्पशृङ्गारकारिकाः ।
नानाविलासचतुरा बह्व्य एवं विधाः पराः ॥ ४५ ॥

निबद्धपरिधानीया युवत्यः सकला अपि ।
देवीकृपालेशवशात्तुच्छीकृतजगत्त्रयाः ॥ ४६ ॥

एता दूत्यः स्मृता देव्यः शृङ्गारमदगर्विताः ।
तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम ॥ ४७ ॥

अनङ्गरूपा प्रथमाप्यनङ्गमदना परा ।
तृतीया तु ततः प्रोक्ता सुन्दरी मदनातुरा ॥ ४८ ॥

ततो भुवनवेगा स्यात्तथा भुवनपालिका ।
स्यात्सर्वशिशिरानङ्गवदनानङ्गमेखला ॥ ४९ ॥

विद्युद्दामसमानाङ्ग्यः क्वणत्काञ्चीगुणान्विताः ।
रणन्मञ्जीरचरणा बहिरन्तरितस्ततः ॥ ५० ॥

धावमानास्तु शोभन्ते सर्वा विद्युल्लतोपमाः ।
कुशलाः सर्वकार्येषु वेत्रहस्ताः समन्ततः ॥ ५१ ॥

अष्टदिक्षु तथैतासां प्राकाराद्बहिरेव च ।
सदनानि विराजन्ते नानावाहनहेतिभिः ॥ ५२ ॥

वज्रसालादग्रभागे सालो वैदूर्यनिर्मितः ।
दशयोजनतुङ्गोऽसौ गोपुरद्वारभूषितः ॥ ५३ ॥

वैदूर्यभूमिः सर्वापि गृहाणि विविधानि च ।
वीथ्यो रथ्या महामार्गाः सर्वे वैदूर्यनिर्मिताः ॥ ५४ ॥

वापीकूपतडागाश्च स्रवन्तीनां तटानि च ।
वालुका चैव सर्वापि वैदूर्यमणिनिर्मिता ॥ ५५ ॥

तत्राष्टदिक्षु परितो ब्राह्म्यादीनां च मण्डलम् ।
निजैर्गणैः परिवृतं भ्राजते नृपसत्तम ॥ ५६ ॥

प्रतिब्रह्माण्डमातॄणां ताः समष्टय ईरिताः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ ५७ ॥

वाराही च तथेन्द्राणी चामुण्डाः सप्त मातरः ।
अष्टमी तु महालक्ष्मीर्नाम्ना प्रोक्तास्तु मातरः ॥ ५८ ॥

ब्रह्मरुद्रादिदेवानां समाकारास्तु ताः स्मृताः ।
जगत्कल्याणकारिण्यः स्वस्वसेनासमावृताः ॥ ५९ ॥

तत्सालस्य चतुर्द्वार्षु वाहनानि महेशितुः ।
सज्जानि नृपते सन्ति सालङ्काराणि नित्यशः ॥ ६० ॥

दन्तिनः कोटिशो वाहाः कोटिशः शिबिकास्तथा ।
हंसाः सिंहाश्च गरुडा मयूरा वृषभास्तथा ॥ ६१ ॥

तैर्युक्ताः स्यन्दनास्तद्वत्कोटिशो नृपनन्दन ।
पार्ष्णिग्राहसमायुक्ता ध्वजैराकाशचुम्बिनः ॥ ६२ ॥

कोटिशस्तु विमानानि नानाचिह्नान्वितानि च ।
नानावादित्रयुक्तानि महाध्वजयुतानि च ॥ ६३ ॥

वैदूर्यमणिसालस्याप्यग्रे सालः परः स्मृतः ।
दशयोजनतुङ्गोऽसाविन्द्रनीलाश्मनिर्मितः ॥ ६४ ॥

तन्मध्यभूस्तथा वीथ्यो महामार्गा गृहाणि च ।
वापीकूपतडागाश्च सर्वे तन्मणिनिर्मिताः ॥ ६५ ॥

तत्र पद्मं तु सम्प्रोक्तं बहुयोजन विस्तृतम् ।
षोडशारं दीप्यमानं सुदर्शनमिवापरम् ॥ ६६ ॥

तत्र षोडशशक्तीनां स्थानानि विविधानि च ।
सर्वोपस्करयुक्तानि समृद्धानि वसन्ति हि ॥ ६७ ॥

तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम ।
कराली विकराली च तथोमा च सरस्वती ॥ ६८ ॥

श्री दुर्गोषा तथा लक्ष्मीः श्रुतिश्चैव स्मृतिर्धृतिः ।
श्रद्धा मेधा मतिः कान्तिरार्या षोडशशक्तयः ॥ ६९ ॥

नीलजीमूतसङ्काशाः करवालकराम्बुजाः ।
समाः खेटकधारिण्यो युद्धोपक्रान्तमानसाः ॥ ७० ॥

सेनान्यः सकला एताः श्रीदेव्या जगदीशितुः ।
प्रतिब्रह्माण्डसंस्थानां शक्तीनां नायिकाः स्मृताः ॥ ७१ ॥

ब्रह्माण्डक्षोभकारिण्यो देवी शक्त्युपबृंहिताः ।
नानारथसमारूढा नानाशक्तिभिरन्विताः ॥ ७२ ॥

एतत्पराक्रमं वक्तुं सहस्रास्योऽपि न क्षमः ।
इन्द्रनीलमहासालादग्रे तु बहुविस्तृतः ॥ ७३ ॥

मुक्ताप्राकार उदितो दशयोजनदैर्घ्यवान् ।
मध्यभूः पूर्ववत्प्रोक्ता तन्मध्येऽष्टदलाम्बुजम् ॥ ७४ ॥

मुक्तामणिगणाकीर्णं विस्तृतं तु सकेसरम् ।
तत्र देवीसमाकारा देव्यायुधधराः सदा ॥ ७५ ॥

सम्प्रोक्ता अष्टमन्त्रिण्यो जगद्वार्ताप्रबोधिकाः ।
देवीसमानभोगास्ता इङ्गितज्ञास्तु पण्डिताः ॥ ७६ ॥

कुशलाः सर्वकार्येषु स्वामिकार्यपरायणाः ।
देव्यभिप्रायबोध्यस्ताश्चतुरा अतिसुन्दराः ॥ ७७ ॥

नानाशक्तिसमायुक्ताः प्रतिब्रह्माण्डवर्तिनाम् ।
प्राणिनां ताः समाचारं ज्ञानशक्त्या विदन्ति च ॥ ७८ ॥

तासां नामानि वक्ष्यामि मत्तः शृणु नृपोत्तम ।
अनङ्गकुसुमा प्रोक्ताप्यनङ्गकुसुमातुरा ॥ ७९ ॥

अनङ्गमदना तद्वदनङ्गमदनातुरा ।
भुवनपाला गगनवेगा चैव ततः परम् ॥ ८० ॥

शशिरेखा च गगनरेखा चैव ततः परम् ।
पाशाङ्कुशवराभीतिधरा अरुणविग्रहाः ॥ ८१ ॥

विश्वसम्बन्धिनीं वार्तां बोधयन्ति प्रतिक्षणम् ।
मुक्तासालादग्रभागे महामारकतोः ॥ ८२ ॥

सालोत्तमः समुद्दिष्टो दशयोजनदैर्घ्यवान् ।
नानासौभाग्यसम्युक्तो नानाभोगसमन्वितः ॥ ८३ ॥

मध्यभूस्तादृशी प्रोक्ता सदनानि तथैव च ।
षट्कोणमत्र विस्तीर्णं कोणस्था देवताः शृणुः ॥ ८४ ॥

पूर्वकोणे चतुर्वक्त्रो गायत्रीसहितो विधिः ।
कुण्डिकाक्षगुणाभीतिदण्डायुधधरः परः ॥ ८५ ॥

तदायुधधरा देवी गायत्री परदेवता ।
वेदाः सर्वे मूर्तिमन्तः शास्त्राणि विविधानि च ॥ ८६ ॥

स्मृतयश्च पुराणानि मूर्तिमन्ति वसन्ति हि ।
ये ब्रह्मविग्रहाः सन्ति गायत्रीविग्रहाश्च ये ॥ ८७ ॥

व्याहृतीनां विग्रहाश्च ते नित्यं तत्र सन्ति हि ।
रक्षःकोणे शङ्खचक्रगदाम्बुजकराम्बुजा ॥ ८८ ॥

सावित्री वर्तते तत्र महाविष्णुश्च तादृशः ।
ये विष्णुविग्रहाः सन्ति मत्स्यकूर्मादयोऽखिलाः ॥ ८९ ॥

सावित्रीविग्रहा ये च ते सर्वे तत्र सन्ति हि ।
वायुकोणे परश्वक्षमालाभयवरान्वितः ॥ ९० ॥

महारुद्रो वर्ततेऽत्र सरस्वत्यपि तादृशी ।
ये ये तु रुद्रभेदाः स्युर्दक्षिणास्यादयो नृप ॥ ९१ ॥

गौरीभेदाश्च ये सर्वे ते तत्र निवसन्ति हि ।
चतुःषष्ट्यागमा ये च ये चान्येऽप्यागमाः स्मृताः ॥ ९२ ॥

ते सर्वे मूर्तिमन्तश्च तत्रैव निवसन्ति हि ।
अग्निकोणे रत्नकुम्भं तथा मणिकरण्डकम् ॥ ९३ ॥

दधानो निजहस्ताभ्यां कुबेरो धनदायकः ।
नानावीथीसमायुक्तो महालक्ष्मीसमन्वितः ॥ ९४ ॥

देव्या निधिपतिस्त्वास्ते स्वगुणैः परिवेष्टितः ।
वारुणे तु महाकोणे मदनो रतिसम्युतः ॥ ९५ ॥

पाशाङ्कुशधनुर्बाणधरो नित्यं विराजते ।
शृङ्गारा मूर्तिमन्तस्तु तत्र सन्निहिताः सदा ॥ ९६ ॥

ईशानकोणे विघ्नेशो नित्यं पुष्टिसमन्वितः ।
पाशाङ्कुशधरो वीरो विघ्नहर्ता विराजते ॥ ९७ ॥

विभूतयो गणेशस्य या याः सन्ति नृपोत्तम ।
ताः सर्वा निवसन्त्यत्र महैश्वर्यसमन्विताः ॥ ९८ ॥

प्रतिब्रह्माण्डसंस्थानां ब्रह्मादीनां समष्टयः ।
एते ब्रह्मादयः प्रोक्ताः सेवन्ते जगदीश्वरीम् ॥ ९९ ॥

महामारकतस्याग्रे शतयोजनदैर्घ्यवान् ।
प्रवालसालोऽस्त्यपरः कुङ्कुमारुणविग्रहः ॥ १०० ॥

मध्यभूस्तादृशी प्रोक्ता सदनानि च पूर्ववत् ।
तन्मध्ये पञ्चभूतानां स्वामिन्यः पञ्च सन्ति च ॥ १०१ ॥

हृल्लेखा गगना रक्ता चतुर्थी तु करालिका ।
महोच्छुष्मा पञ्चमी च पञ्चभूतसमप्रभाः ॥ १०२ ॥

पाशाङ्कुशवराभीतिधारिण्योऽमितभूषणाः ।
देवीसमानवेषाढ्या नवयौवनगर्विताः ॥ १०३ ॥

प्रवालसालादग्रे तु नवरत्नविनिर्मितः ।
बहुयोजनविस्तीर्णो महासालोऽस्ति भूमिप ॥ १०४ ॥

तत्र चाम्नायदेवीनां सदनानि बहून्यपि ।
नवरत्नमयान्येव तडागाश्च सरांसि च ॥ १०५ ॥

श्रीदेव्या येऽवताराः स्युस्ते तत्र निवसन्ति हि ।
महाविद्या महाभेदाः सन्ति तत्रैव भूमिप ॥ १०६ ॥

निजावरणदेवीभिर्निजभूषणवाहनैः ।
सर्वदेव्यो विराजन्ते कोटिसूर्यसमप्रभाः ॥ १०७ ॥

सप्तकोटिमहामन्त्रदेवताः सन्ति तत्र हि ।
नवरत्नमयादग्रे चिन्तामणिगृहं महत् ॥ १०८ ॥

तत्रत्यं वस्तुमात्रं तु चिन्तामणिविनिर्मितम् ।
सूर्योद्गारोपलैस्तद्वच्चन्द्रोद्गारोपलैस्तथा ॥ १०९ ॥

विद्युत्प्रभोपलैः स्तम्भाः कल्पितास्तु सहस्रशः ।
येषां प्रभाभिरन्तःस्थं वस्तु किञ्चिन्न दृश्यते ॥ ११० ॥

इति श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे पद्मरागादिमणिविनिर्मितप्राकारवर्णनं नामैकादशोऽध्यायः ।

[ प्रथम भागम्द्वितीय भागम् तृतीय भागम्  ]


పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed