Maheshwara Pancharatna Stotram – श्री महेश्वर पञ्चरत्न स्तोत्रम्


प्रातः स्मरामि परमेश्वरवक्त्रपद्मं
फालाक्षिकीलपरिशोषितपञ्चबाणम् ।
भस्मत्रिपुण्ड्ररचितं फणिकुण्डलाढ्यं
कुन्देन्दुचन्दनसुधारसमन्दहासम् ॥ १ ॥

प्रातर्भजामि परमेश्वरबाहुदण्डान्
खट्वाङ्गशूलहरिणाहिपिनाकयुक्तान् ।
गौरीकपोलकुचरञ्जितपत्ररेखान्
सौवर्णकङ्कणमणिद्युतिभासमानान् ॥ २ ॥

प्रातर्नमामि परमेश्वरपादपद्मं
पद्मोद्भवामरमुनीन्द्रमनोनिवासम् ।
पद्माक्षनेत्रसरसीरुह पूजनीयं
पद्माङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ॥ ३ ॥

प्रातः स्मरामि परमेश्वरपुण्यमूर्तिं
कर्पूरकुन्दधवलं गजचर्मचेलम् ।
गङ्गाधरं घनकपर्दिविभासमानं
कात्यायनीतनुविभूषितवामभागम् ॥ ४ ॥

प्रातः स्मरामि परमेश्वरपुण्यनाम
श्रेयः प्रदं सकलदुःखविनाशहेतुम् ।
संसारतापशमनं कलिकल्मषघ्नं
गोकोटिदानफलदं स्मरणेन पुंसाम् ॥ ५ ॥

श्रीपञ्चरत्नानि महेश्वरस्य
भक्त्या पठेद्यः प्रयतः प्रभाते ।
आयुष्यमारोग्यमनेकभोगान्
प्राप्नोति कैवल्यपदं दुरापम् ॥ ६ ॥

इति श्रीमच्छङ्कराचार्य कृतं महेश्वर पञ्चरत्न स्तोत्रम् ।


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed