Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
गले कलितकालिमः प्रकटितेन्दुफालस्थले
विनाटितजटोत्करं रुचिरपाणिपाथोरुहे ।
उदञ्चितकपालजं जघनसीम्नि सन्दर्शित
द्विपाजिनमनुक्षणं किमपि धाम वन्दामहे ॥ १ ॥
वृषोपरि परिस्फुरद्धवलदामधामश्रिया
कुबेरगिरि-गौरिमप्रभवगर्वनिर्वासि तत् ।
क्वचित्पुनरुमा-कुचोपचितकुङ्कुमै रञ्जितं
गजाजिनविराजितं वृजिनभङ्गबीजं भजे ॥ २ ॥
उदित्वर-विलोचनत्रय-विसृत्वरज्योतिषा
कलाकरकलाकर-व्यतिकरेण चाहर्निशम् ।
विकासित जटाटवी विहरणोत्सवप्रोल्लस-
त्तरामर तरङ्गिणी तरल-चूडमीडे मृडम् ॥ ३ ॥
विहाय कमलालयाविलसितानि विद्युन्नटी-
विडंबनपटूनि मे विहरणं विधत्तां मनः ।
कपर्दिनि कुमुद्वतीरमणखण्डचूडामणौ
कटी तटपटी भवत्करटिचर्मणि ब्रह्मणि ॥ ४ ॥
भवद्भवनदेहली-विकटतुण्ड-दण्डाहति
त्रुटन्मुकुटकोटिभि-र्मघवदादिभिर्भूयते ।
व्रजेम भवदन्तिकं प्रकृतिमेत्य पैशाचकीं
किमित्यमरसम्पदः प्रमथनाथ नाथामहे ॥ ५ ॥
त्वदर्चनपरायण-प्रमथकन्यकालुण्ठित
प्रसूनसफलद्रुमं कमपि शैलमाशान्महे ।
अलं तटवितर्दिकाशयितसिद्ध-सीमन्तिनी
प्रकीर्ण सुमनोमनो-रमणमेरुणामेरुणा ॥ ६ ॥
न जातु हर यातु मे विषयदुर्विलासं मनो
मनोभवकथास्तु मे न च मनोरथातिथ्यभूः ।
स्फुरत्सुरतरङ्गिणी-तटकुटीरकोटा वस-
न्नये शिव दिवानिशं तव भवानि पूजापरः ॥ ७ ॥
विभूषण सुरापगा शुचितरालवालावली-
वलद्बहलसीकर-प्रकरसेकसंवर्धिता ।
महेश्वर सुरद्रुमस्फुरित-सज्जटामञ्जरी
नमज्जनफलप्रदा मम नु हन्त भूयादियम् ॥ ८ ॥
बहिर्विषयसङ्गति-प्रतिनिवर्तिताक्षापले-
स्समाधिकलितात्मनः पशुपतेरशेषात्मनः ।
शिरस्सुरसरित्तटी-कुटिलकल्पकल्पद्रुमं
निशाकर कलामहं वटुविमृष्यमाणां भजे ॥ ९ ॥
त्वदीय सुरवाहिनी विमलवारिधारावल-
ज्जटागहनगाहिनी मतिरियं मम क्रामतु ।
सुरोत्तमसरित्तटी-विटपिताटवी प्रोल्लस-
त्तपस्वि-परिषत्तुलाममल मल्लिकाभ प्रभो ॥ १० ॥
इति श्रीलंकेश्वरविरचिता शिवस्तुतिः ॥
इतर श्री शिव स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.