Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रियः कार्यसिद्धेर्धियः सत्सुखर्धेः
पतिं सज्जनानां गतिं देवतानाम् ।
नियन्तारमन्तः स्वयं भासमानं
भजे विघ्नराजं भवानीतनूजम् ॥ १ ॥
गणानामधीशं गुणानां सदीशं
करीन्द्राननं कृत्तकन्दर्पमानम् ।
चतुर्बाहुयुक्तं चिदानन्दसक्तं
भजे विघ्नराजं भवानीतनूजम् ॥ २ ॥
जगत्प्राणवीर्यं जनत्राणशौर्यं
सुराभीष्टकार्यं सदाऽक्षोभ्य धैर्यम् ।
गुणिश्लाघ्यचर्यं गणाधीशवर्यं
भजे विघ्नराजं भवानीतनूजम् ॥ ३ ॥
चलद्वक्रतुण्डं चतुर्बाहुदण्डं
मदस्राविगण्डं मिलच्चन्द्रखण्डम् ।
कनद्दन्तकाण्डं मुनित्राणशौण्डं
भजे विघ्नराजं भवानीतनूजम् ॥ ४ ॥
निरस्तान्तरायं परिध्वस्तमायं
चिदानन्दकायं सदा मत्सहायम् ।
अजस्रानपायं त्वजं चाप्रमेयं
भजे विघ्नराजं भवानीतनूजम् ॥ ५ ॥
वरं चाभयं पाशपुस्ताक्षसूत्रं
सृणिं बीजपूरं करैः पङ्कजं च ।
दधानं सरोजासनं शक्तियुक्तं
भजे विघ्नराजं भवानीतनूजम् ॥ ६ ॥
महामूषकारूढमाधारशक्त्या
समाराधिताङ्घ्रिं महामातृकाभिः ।
समावृत्य संसेवितं देवताभिः
भजे विघ्नराजं भवानीतनूजम् ॥ ७ ॥
श्रुतीनां शिरोभिः स्तुतं सर्वशक्तं
पतिं सिद्धिबुद्ध्योर्गतिं भूसुराणाम् ।
सुराणां वरिष्ठं गणानामधीशं
भजे विघ्नराजं भवानीतनूजम् ॥ ८ ॥
गणाधीशसाम्राज्यसिंहासनस्थं
समाराध्यमब्जासनाद्यैः समस्तैः ।
फणाभृत्समाबद्धतुण्डं प्रसन्नं
भजे विघ्नराजं भवानीतनूजम् ॥ ९ ॥
लसन्नागकेयूरमञ्जीरहारं
भुजङ्गाधिराजस्फुरत्कर्णपूरम् ।
कनद्भूतिरुद्राक्षरत्नादिभूषं
भजे विघ्नराजं भवानीतनूजम् ॥ १० ॥
स्फुरद्व्याघ्रचर्मोत्तरीयोपधानं
तुरीयाद्वयात्मानुसन्धान धुर्यम् ।
तपोयोगिवर्यं कृपोदारचर्यं
भजे विघ्नराजं भवानीतनूजम् ॥ ११ ॥
निजज्योतिषा द्योतयन्तं समस्तं
दिवि ज्योतिषां मण्डलं चात्मना च ।
भजद्भक्तसौभाग्यसिद्ध्यर्थबीजं
भजे विघ्नराजं भवानीतनूजम् ॥ १२ ॥
सदावासकल्याणपुर्यां निवासं
गुरोराज्ञया कुर्वता भूसुरेण ।
महायोगिवेल्नाडुसिद्धान्तिना य-
-त्कृतं स्तोत्रमिष्टार्थदं तत्पठध्वम् ॥ १३ ॥
इति श्रीसुब्रह्मण्ययोगि कृत श्रीगणेशभुजङ्ग स्तुतिः ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

