Sri Ganesha Bhujanga Stuti – श्री गणेश भुजङ्ग स्तुतिः


श्रियः कार्यसिद्धेर्धियः सत्सुखर्धेः
पतिं सज्जनानां गतिं देवतानाम् ।
नियन्तारमन्तः स्वयं भासमानं
भजे विघ्नराजं भवानीतनूजम् ॥ १ ॥

गणानामधीशं गुणानां सदीशं
करीन्द्राननं कृत्तकन्दर्पमानम् ।
चतुर्बाहुयुक्तं चिदानन्दसक्तं
भजे विघ्नराजं भवानीतनूजम् ॥ २ ॥

जगत्प्राणवीर्यं जनत्राणशौर्यं
सुराभीष्टकार्यं सदाऽक्षोभ्य धैर्यम् ।
गुणिश्लाघ्यचर्यं गणाधीशवर्यं
भजे विघ्नराजं भवानीतनूजम् ॥ ३ ॥

चलद्वक्रतुण्डं चतुर्बाहुदण्डं
मदस्राविगण्डं मिलच्चन्द्रखण्डम् ।
कनद्दन्तकाण्डं मुनित्राणशौण्डं
भजे विघ्नराजं भवानीतनूजम् ॥ ४ ॥

निरस्तान्तरायं परिध्वस्तमायं
चिदानन्दकायं सदा मत्सहायम् ।
अजस्रानपायं त्वजं चाप्रमेयं
भजे विघ्नराजं भवानीतनूजम् ॥ ५ ॥

वरं चाभयं पाशपुस्ताक्षसूत्रं
सृणिं बीजपूरं करैः पङ्कजं च ।
दधानं सरोजासनं शक्तियुक्तं
भजे विघ्नराजं भवानीतनूजम् ॥ ६ ॥

महामूषकारूढमाधारशक्त्या
समाराधिताङ्घ्रिं महामातृकाभिः ।
समावृत्य संसेवितं देवताभिः
भजे विघ्नराजं भवानीतनूजम् ॥ ७ ॥

श्रुतीनां शिरोभिः स्तुतं सर्वशक्तं
पतिं सिद्धिबुद्ध्योर्गतिं भूसुराणाम् ।
सुराणां वरिष्ठं गणानामधीशं
भजे विघ्नराजं भवानीतनूजम् ॥ ८ ॥

गणाधीशसाम्राज्यसिंहासनस्थं
समाराध्यमब्जासनाद्यैः समस्तैः ।
फणाभृत्समाबद्धतुण्डं प्रसन्नं
भजे विघ्नराजं भवानीतनूजम् ॥ ९ ॥

लसन्नागकेयूरमञ्जीरहारं
भुजङ्गाधिराजस्फुरत्कर्णपूरम् ।
कनद्भूतिरुद्राक्षरत्नादिभूषं
भजे विघ्नराजं भवानीतनूजम् ॥ १० ॥

स्फुरद्व्याघ्रचर्मोत्तरीयोपधानं
तुरीयाद्वयात्मानुसन्धान धुर्यम् ।
तपोयोगिवर्यं कृपोदारचर्यं
भजे विघ्नराजं भवानीतनूजम् ॥ ११ ॥

निजज्योतिषा द्योतयन्तं समस्तं
दिवि ज्योतिषां मण्डलं चात्मना च ।
भजद्भक्तसौभाग्यसिद्ध्यर्थबीजं
भजे विघ्नराजं भवानीतनूजम् ॥ १२ ॥

सदावासकल्याणपुर्यां निवासं
गुरोराज्ञया कुर्वता भूसुरेण ।
महायोगिवेल्नाडुसिद्धान्तिना य-
-त्कृतं स्तोत्रमिष्टार्थदं तत्पठध्वम् ॥ १३ ॥

इति श्रीसुब्रह्मण्ययोगि कृत श्रीगणेशभुजङ्ग स्तुतिः ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed