Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीमत्पयोनिधिनिकेतनचक्रपाणे
भोगीन्द्रभोगमणिराजितपुण्यमूर्ते ।
योगीश शाश्वत शरण्य भवाब्धिपोत
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १ ॥
ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटि-
-सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त ।
लक्ष्मीलसत्कुचसरोरुहराजहंस
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २ ॥
संसारदावदहनाकरभीकरोरु-
-ज्वालावलीभिरतिदग्धतनूरुहस्य ।
त्वत्पादपद्मसरसीरुहमागतस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ३ ॥
संसारजालपतितस्य जगन्निवास
सर्वेन्द्रियार्थबडिशाग्रझषोपमस्य ।
प्रोत्कम्पितप्रचुरतालुकमस्तकस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ४ ॥
संसारकूपमतिघोरमगाधमूलं
सम्प्राप्य दुःखशतसर्पसमाकुलस्य ।
दीनस्य देव कृपया पदमागतस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ५ ॥
संसारभीकरकरीन्द्रकराभिघात-
-निष्पीड्यमानवपुषः सकलार्तिनाश ।
प्राणप्रयाणभवभीतिसमाकुलस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ६ ॥
संसारसर्पविषदग्धमहोग्रतीव्र-
-दंष्ट्राग्रकोटिपरिदष्टविनष्टमूर्तेः ।
नागारिवाहन सुधाब्धिनिवास शौरे
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ७ ॥
संसारवृक्षमघबीजमनन्तकर्म-
-शाखायुतं करणपत्रमनङ्गपुष्पम् ।
आरुह्य दुःखफलितं पततो दयालो [चकितं]
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ८ ॥
संसारसागरविशालकरालकाल-
-नक्रग्रहग्रसितनिग्रहविग्रहस्य ।
व्यग्रस्य रागनिचयोर्मिनिपीडितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ९ ॥
संसारसागरनिमज्जनमुह्यमानं
दीनं विलोकय विभो करुणानिधे माम् ।
प्रह्लादखेदपरिहारपरावतार
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १० ॥
संसारघोरगहने चरतो मुरारे
मारोग्रभीकरमृगप्रचुरार्दितस्य ।
आर्तस्य मत्सरनिदाघसुदुःखितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ११ ॥
बद्ध्वा गले यमभटा बहुतर्जयन्तः
कर्षन्ति यत्र भवपाशशतैर्युतं माम् ।
एकाकिनं परवशं चकितं दयालो
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १२ ॥
लक्ष्मीपते कमलनाभ सुरेश विष्णो
यज्ञेश यज्ञ मधुसूदन विश्वरूप ।
ब्रह्मण्य केशव जनार्दन वासुदेव
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १३ ॥
एकेन चक्रमपरेण करेण शङ्ख-
-मन्येन सिन्धुतनयामवलम्ब्य तिष्ठन् ।
वामेतरेण वरदाभयपद्मचिह्नं
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १४ ॥
अन्धस्य मे हृतविवेकमहाधनस्य
चोरैर्महाबलिभिरिन्द्रियनामधेयैः ।
मोहान्धकारकुहरे विनिपातितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १५ ॥
प्रह्लादनारदपराशरपुण्डरीक-
-व्यासादिभागवतपुङ्गवहृन्निवास ।
भक्तानुरक्तपरिपालनपारिजात
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १६ ॥
लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन
स्तोत्रं कृतं शुभकरं भुवि शङ्करेण ।
ये तत्पठन्ति मनुजा हरिभक्तियुक्ता-
-स्ते यान्ति तत्पदसरोजमखण्डरूपम् ॥ १७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छङ्कराचार्य विरचितं श्रीलक्ष्मीनृसिंह करावलम्ब स्तोत्रम् ।
— अधिकश्लोकाः —
संसारयोग सकलेप्सितनित्यकर्म
सम्प्राप्यदुःख सकलेन्द्रियमृत्युनाश ।
सङ्कल्प सिन्धुतनयाकुच कुङ्कुमाङ्क
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १८ ॥
आद्यन्तशून्यमजमव्ययमप्रमेयं
आदित्यरुद्रनिगमादिनुतप्रभावम् ।
अम्भोधिजास्य मधुलोलुप मत्तभृङ्ग
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १९ ॥
वाराह राम नरसिंह रमादिकान्ता
क्रीडाविलोल विधिशूलि सुरप्रवन्द्य ।
हंसात्मकं परमहंस विहारलीलं
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २० ॥
माता नृसिंहश्च पिता नृसिंहः
भ्राता नृसिंहश्च सखा नृसिंहः ।
विद्या नृसिंहो द्रविणं नृसिंहः
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २१ ॥
प्रह्लाद मानस सरोज विहारभृङ्ग
गङ्गातरङ्ग धवलाङ्ग रमास्थिताङ्क ।
शृङ्गार सुन्दर किरीट लसद्वराङ्ग
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २२ ॥
श्रीशङ्करार्य रचितं सततं मनुष्यः
स्तोत्रं पठेदिहतु सत्वगुणप्रसन्नम् ।
सद्योविमुक्त कलुषो मुनिवर्य गण्यो
लक्ष्मी पदमुपैति सनिर्मलात्मा ॥ २३ ॥
यन्माययोर्जितः वपुः प्रचुर प्रवाह
मग्नार्थ मत्रनिवहोरु करावलम्बम् ।
लक्ष्मीनृसिंह चरणाब्ज मधुव्रतेन
स्तोत्रं कृतं शुभकरं भुवि शङ्करेण ॥ २४ ॥
श्रीमन्नृसिंह विभवे गरुडध्वजाय
तापत्रयोपशमनाय भवौषधाय ।
तृष्णादि वृश्चिक जलाग्नि भुजङ्ग रोग
क्लेशापहाय हरये गुरवे नमस्ते ॥ २५ ॥
इति श्रीलक्ष्मीनृसिंह करावलम्ब स्तोत्रम् ।
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Very very nice organised all the striotram