Ishana Stuti – ईशान स्तुतिः



(रुद्राध्याय स्तुतिः (शतरुद्रीयम्) >> )

व्यास उवाच ।
प्रजापतीनां प्रथमं तेजसां पुरुषं प्रभुम् ।
भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम् ॥ १ ॥

ईशानं वरदं पार्थ दृष्टवानसि शङ्करम् ।
तं गच्छ शरणं देवं वरदं भुवनेश्वरम् ॥ २ ॥

महादेवं महात्मानमीशानं जटिलं शिवम् ।
त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम् ॥ ३ ॥

महादेवं हरं स्थाणुं वरदं भुवनेश्वरम् ।
जगत्प्रधानमधिकं जगत्प्रीतमधीश्वरम् ॥ ४ ॥

जगद्योनिं जगद्द्वीपं जयिनं जगतो गतिम् ।
विश्वात्मानां विश्वसृजं विश्वमूर्तिं यशस्विनम् ॥ ५ ॥

विश्वेश्वरं विश्वनरं कर्मणामीश्वरं प्रभुम् ।
शम्भुं स्वयम्भुं भूतेशं भूतभव्यभवोद्भवम् ॥ ६ ॥

योगं योगेश्वरं सर्वं सर्वलोकेश्वरेश्वरम् ।
सर्वश्रेष्ठं जगच्छ्रेष्ठं वरिष्ठं परमेष्ठिनम् ॥ ७ ॥

लोकत्रयविधातारमेकं लोकत्रयाश्रयम् ।
सुदुर्जयं जगन्नाथं जन्ममृत्युजरातिगम् ॥ ८ ॥

ज्ञानात्मानं ज्ञानगम्यं ज्ञानश्रेष्ठं सुदुर्विदम् ।
दातारं चैव भक्तानां प्रसादविहितान् वरान् ॥ ९ ॥

तस्य पारिषदा दिव्या रूपैर्नानाविधैर्विभोः ।
वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः ॥ १० ॥

महाकाया महोत्साहा महाकर्णास्तथापरे ।
अननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः ॥ ११ ॥

ईदृशैः स महादेवः पूज्यमानो महेश्वरः ।
स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ॥ १२ ॥

तस्मिन् घोरे सदा पार्थ सङ्ग्रामे लोमहर्षणे ।
द्रौणिकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः ॥ १३ ॥

कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत् ।
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ॥ १४ ॥

स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते ।
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥ १५ ॥

गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः ।
विसञ्ज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ॥ १६ ॥

तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि ।
ये चान्ये मानवा लोके ये च स्वर्गजितो नराः ॥ १७ ॥

ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् ।
इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् ॥ १८ ॥

नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा ।
रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ॥ १९ ॥

कपर्दिने करालाय हर्यक्ष वरदाय च ।
याम्यायारक्तकेशाय सद्वृत्ते शङ्कराय च ॥ २० ॥

काम्याय हरिनेत्राय स्थाणवे पुरुषाय च ।
हरिकेशाय मुण्डाय कनिष्ठाय सुवर्चसे ॥ २१ ॥

भास्कराय सुतीर्थाय देवदेवाय रंहसे ।
बहुरूपाय शर्वाय प्रियाय प्रियवाससे ॥ २२ ॥

उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ।
गिरिशाय सुशान्ताय पतये चीरवाससे ॥ २३ ॥

हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् ।
पर्जन्यपतये चैव भूतानां पतये नमः ॥ २४ ॥

वृक्षाणां पतये चैव गवां च पतये तथा ।
वृक्षैरावृतकायाय सेनान्ये मध्यमाय च ॥ २५ ॥

श्रुवहस्ताय देवाय धन्विने भार्गवाय च ।
बहुरूपाय विश्वस्य पतये मुञ्जवाससे ॥ २६ ॥

सहस्रशिरसे चैव सहस्रनयनाय च ।
सहस्रबाहवे चैव सहस्रचरणाय च ॥ २७ ॥

शरणं गच्छ कौन्तेय वरदं भुवनेश्वरम् ।
उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् ॥ २८ ॥

प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् ।
कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् ॥ २९ ॥

वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् ।
वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम् ॥ ३० ॥

वृषायुधं वृषशरं वृषभूतं महेश्वरम् ।
महोदरं महाकायं द्वीपिचर्मनिवासिनम् ॥ ३१ ॥

लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम् ।
त्रिशूलपाणिं वरदं खड्गचर्मधरं शुभम् ॥ ३२ ॥

पिनाकिनं खण्डपर्शुं लोकानां पतिमीश्वरम् । [खड्गधरं]
प्रपद्ये देवमीशानं शरण्यं चीरवाससम् ॥ ३३ ॥

नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा ।
सुवाससे नमो नित्यं सुव्रताय सुधन्विने ॥ ३४ ॥

धनुर्धराय देवय प्रियधन्वाय धन्विने ।
धन्वन्तराय धनुषे धन्वाचार्याय ते नमः ॥ ३५ ॥

उग्रायुधाय देवय नमः सुरवराय च ।
नमोऽस्तु बहुरूपाय नमस्ते बहुधन्विने ॥ ३६ ॥

नमोऽस्तु स्थाणवे नित्यं नमस्तस्मै सुधन्विने ।
नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः ॥ ३७ ॥

वनस्पतीनां पतये नराणां पतये नमः ।
मातॄणां पतये चैव गणानां पतये नमः ॥ ३८ ॥

गवां च पतये नित्यं यज्ञानां पतये नमः ।
अपां च पतये नित्यं देवानां पतये नमः ॥ ३९ ॥

पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च ।
हराय नीलकण्ठाय स्वर्णकेशाय वै नमः ॥ ४० ॥

इति श्रीमहाभारते द्रोणपर्वणि त्र्यधिकद्विशतोऽध्याये ईशान स्तुतिः ॥


इतर श्री शिव स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Ishana Stuti – ईशान स्तुतिः



  1. Thank you for having the Shatarundriyam strotram. I wish we could be able to save it pdf or print it.

Leave a Reply

error: Not allowed