Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पुरा हरिस्त्वां किल सात्त्विकेन
प्रसादयामास मखेन देवि ।
सुरेषु तं श्रेष्ठतमं चकर्थ
स तेन सर्वत्र बभूव पूज्यः ॥ ३७-१ ॥
अधर्मवृद्धिश्च यदा त्रिलोके
धर्मक्षयश्चापि तदा भवत्या ।
धर्मं समुद्धर्तुमधर्ममृद्धं
मार्ष्टुं च देव्येष नियुज्यते हि ॥ ३७-२ ॥
स ईड्यते सर्वत एव सर्वैः
पत्न्या च भूतैश्च समं गिरीशः ।
इलावृतेऽपूरुषसन्निधाने
सङ्कर्षणाख्यं भजते मुरारिम् ॥ ३७-३ ॥
तमेव भद्रश्रवसो हयास्यं
भद्राश्ववर्षे मुनयः स्तुवन्ति ।
प्रह्लाद उच्चैर्हरिवर्षवासी
विश्वार्तिशान्त्यै नृहरिं च नौति ॥ ३७-४ ॥
श्रीः केतुमाले खलु कामरूपं
तं रम्यके मत्स्यतनुं मनुश्च ।
हिरण्मये कूर्मशरीरभाजं
स्तुवन्ति नारायणमर्यमा च ॥ ३७-५ ॥
महावराहं कुरुषूत्तरेषु
भू राघवं किम्पुरुषे हनूमान् ।
तं नारदो भारतवर्षवर्ती
नरं च नारायणमाश्रयन्ते ॥ ३७-६ ॥
सत्कर्मभूमिर्भरतस्य राज्यं
सन्त्यत्र वैकुण्ठकथैकसक्ताः ।
तीर्थानि पुण्याश्रमपर्वताश्च
जन्मात्र देवाः स्पृहयन्त्यजस्रम् ॥ ३७-७ ॥
प्रह्लादपौत्रः सुतलाधिवासः
सुरक्षितश्चात्मनिवेदनेन ।
वार्धक्यरोगक्लमभीतिमुक्तो
महाबलिर्वामनमेव नौति ॥ ३७-८ ॥
सहस्रशीर्षः शिरसा दधत् क्ष्मां
हली हरेस्तामसमूर्तिरार्यैः ।
संस्तूयमानः सहनागकन्यः
पातालमूले च सलीलमास्ते ॥ ३७-९ ॥
विचित्ररूपं जगतां हिताय
सर्वे स्तुवन्त्यच्युतमिद्धभक्त्या ।
एनं कुरु त्वं वरदानदक्षं
मातः कृपार्द्रे वरदे नमस्ते ॥ ३७-१० ॥
अष्टात्रिंश दशकम् (३८) – चित्तशुद्धिप्राधान्यम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.