Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
त्वमेव मूलप्रकृतिस्त्वमात्मा
त्वमस्यरूपा बहुरूपिणी च ।
दुर्गा च राधा कमला च सावि-
-त्र्याख्या सरस्वत्यपि च त्वमेव ॥ ३६-१ ॥
दुर्गा जगद्दुर्गतिनाशिनी त्वं
श्रीकृष्णलीलारसिकाऽसि राधा ।
शोभास्वरूपाऽसि गृहादिषु श्री-
-र्विद्यास्वरूपाऽसि सरस्वती च ॥ ३६-२ ॥
सरस्वती हा गुरुशापनष्टां
त्वं याज्ञवल्क्याय ददाथ विद्याम् ।
त्वामेव वाणीकवचं जपन्तः
प्रसाध्य विद्यां बहवोऽधिजग्मुः ॥ ३६-३ ॥
त्वं देवि सावित्र्यभिधां दधासि
प्रसादतस्ते खलु वेदमातुः ।
लेभे नृपालोऽश्वपतिस्तनूजां
नाम्ना च सावित्र्यभवत्किलैषा ॥ ३६-४ ॥
सा सत्यवन्तं मृतमात्मकान्त-
-माजीवयन्ती श्वशुरं विधाय ।
दूरीकृतान्ध्यं तनयानसूत
यमाद्गुरोराप च धर्मशास्त्रम् ॥ ३६-५ ॥
स्कन्दस्य पत्नी खलु बालकाधि-
-ष्ठात्रि च षष्ठीति जगत्प्रसिद्धा ।
त्वं देवसेना धनदाऽधनाना-
-मपुत्रिणां पुत्रसुखं ददासि ॥ ३६-६ ॥
सत्कर्मलब्धे तनये मृते तु
प्रियव्रतोऽदूयत भक्तवर्यः ।
तं जीवयित्वा मृतमस्य दत्वा
स्वभक्तवात्सल्यमदर्शयस्त्वम् ॥ ३६-७ ॥
त्वमेव गङ्गा तुलसी धरा च
स्वाहा स्वधा त्वं सुरभिश्च देवि ।
त्वं दक्षिणा कृष्णमयी च राधा
दधासि राधामयकृष्णतां च ॥ ३६-८ ॥
त्वं ग्रामदेवी नगराधिदेवी
वनाधिदेवी गृहदेवता च ।
सम्पूज्यते भक्तजनैश्च या या
सा सा त्वमेवासि महानुभावे ॥ ३६-९ ॥
यद्यच्छ्रुतं दृष्टमपि स्मृतं च
तत्तत्त्वदीयं हि कलांशजालम् ।
न किञ्चनास्त्येव शिवे त्वदन्य-
-द्भूयोऽपि मूलप्रकृते नमस्ते ॥ ३६-१० ॥
सप्तत्रिंश दशकम् (३७)- विष्णुमहत्त्वम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.