Bhagya Suktam – भाग्य सूक्तम्


प्रा॒तर॒ग्निं प्रा॒तरिन्द्रग्ं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना᳚ ।
प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तस्सोम॑मु॒त रु॒द्रग्ं हु॑वेम ॥ १ ॥

प्रा॒त॒र्जितं॒ भग॑मु॒ग्रग्ं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता ।
आ॒द्ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥ २ ॥

भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑व॒ दद॑न्नः ।
भग॒ प्रणो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्रनृभि॑र्नृ॒वन्त॑स्स्याम ॥ ३ ॥

उ॒तेदानीं॒ भग॑वन्तस्स्यामो॒त प्रपि॒त्व उ॒त मध्ये॒ अह्ना᳚म् ।
उ॒तोदि॑ता मघव॒न्थ्सूर्य॑स्य व॒यं दे॒वानाग्ं॑ सुम॒तौ स्या॑म ॥ ४ ॥

भग॑ ए॒व भग॑वाग्ं अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तस्स्याम ।
तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ स नो॑ भग पुर ए॒ता भ॑वे॒ह ॥ ५ ॥

सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ ।
अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाऽश्वा॑ वा॒जिन॒ आव॑हन्तु ॥ ६ ॥

अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒स्सद॑मुच्छन्तु भ॒द्राः ।
घृ॒तं दुहा॑ना वि॒श्वत॒: प्रपी॑ना यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥ ७ ॥

यो मा᳚ऽग्ने भा॒गिनग्ं॑ स॒न्तमथा॑भा॒गं चिकी॑ऋषति ।
अभा॒गम॑ग्ने॒ तं कु॑रु॒ माम॑ग्ने भा॒गिनं॑ कुरु ॥ ८ ॥

ओं शान्ति॒: शान्ति॒: शान्ति॑: ।


इतर वेद सूक्तानि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Bhagya Suktam – भाग्य सूक्तम्

Leave a Reply

error: Not allowed