Sri Pratyangira Stotram 1 – श्री प्रत्यङ्गिरा स्तोत्रम् – १



अस्य श्री प्रत्यङ्गिरा स्तोत्रस्य अङ्गिरा ऋषिः अनुष्टुप् छन्दः श्रीप्रत्यङ्गिरा देवता ओं बीजं ह्रीं शक्तिः हुं कीलकं ममाभीष्टसिद्ध्यर्थे पाठे विनियोगः ॥

करन्यासः –
ओं ह्रां अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं तर्जनीभ्यां नमः ।
ओं ह्रूं मध्यमाभ्यां नमः ।
ओं ह्रैं अनामिकाभ्यां नमः ।
ओं ह्रौं कनिष्ठिकाभ्यां नमः ।
ओं ह्रः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं ह्रां हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं ह्रूं शिखायै वषट् ।
ओं ह्रैं कवचाय हुम् ।
ओं ह्रौं नेत्रत्रयाय वौषट् ।
ओं ह्रः अस्त्राय फट् ।

ध्यानम् –
कृष्णरूपां बृहद्रूपां रक्तकुञ्चितमूर्धजाम् ।
शिरः कपालमालां च विकेशीं घूर्णिताननाम् ॥ १ ॥

रक्तनेत्रामतिक्रुद्धां लम्बजिह्वामधोमुखीम् ।
दंष्ट्राकरालवदनां नेत्रभ्रुकुटिलेक्षणाम् ॥ २ ॥

ऊर्ध्वदक्षिणहस्तेन बिभ्रतीं च परष्यधम् ।
अधोदक्षिणहस्तेन बिभ्राणां शूलमद्भुतम् ॥ ३ ॥

ततोर्ध्ववामहस्तेन धारयन्तीं महाङ्कुशाम् ।
अधोवामकरेणाथ बिभ्राणां पाशमेव च ॥ ४ ॥

एवं ध्यात्वा महाकृत्यां स्तोत्रमेतदुदीरयेत् ॥ ५ ॥

ईश्वर उवाच ।
नमः प्रत्यङ्गिरे देवि प्रतिकूलविधायिनि ।
नमः सर्वगते शान्ते परचक्रविमर्दिनी ॥ ६ ॥

नमो जगत्रयाधारे परमन्त्रविदारिणी ।
नमस्ते चण्डिके चण्डी महामहिषवाहिनी ॥ ७ ॥

नमो ब्रह्माणि देवेशि रक्तबीजनिपातिनी ।
नमः कौमारिके कुण्ठी परदर्पनिषूदिनी ॥ ८ ॥

नमो वाराहि चैन्द्राणि परे निर्वाणदायिनी ।
नमस्ते देवि चामुण्डे चण्डमुण्डविदारिणी ॥ ९ ॥

नमो मातर्महालक्ष्मी संसारार्णवतारिणी ।
निशुम्भदैत्यसंहारि कालान्तकि नमोऽस्तु ते ॥ १० ॥

ओं कृष्णाम्बर शोभिते सकल सेवक जनोपद्रवकारक दुष्टग्रह राजघण्टा संहट्‍ट हारिहि कालान्तकि नमोऽस्तु ते ॥ ११ ॥

दुर्गे सहस्रवदने अष्टादशभुजलताभूषिते महाबलपराक्रमे अद्भुते अपराजिते देवि प्रत्यङ्गिरे सर्वार्तिशायिनि परकर्म विध्वंसिनि परयन्त्र मन्त्र तन्त्र चूर्णादि प्रयोगकृत वशीकरण स्तम्भन जृम्भणादि दोषाञ्चयाच्छादिनि सर्वशत्रूच्चाटिनि मारिणि मोहिनि वशीकरणि स्तम्भिनि जृम्भिणि आकर्षिणि सर्वदेवग्रह योगग्रह योगिनिग्रह दानवग्रह दैत्यग्रह राक्षसग्रह सिद्धग्रह यक्षग्रह गुह्यकग्रह विद्याधरग्रह किन्नरग्रह गन्धर्वग्रह अप्सराग्रह भूतग्रह प्रेतग्रह पिशाचग्रह कूष्माण्डग्रह गजादिकग्रह मातृग्रह पितृग्रह वेतालग्रह राजग्रह चौरग्रह गोत्रग्रह अश्वदेवताग्रह गोत्रदेवताग्रह आधिग्रह व्याधिग्रह अपस्मारग्रह नासाग्रह गलग्रह याम्यग्रह डामरिकाग्रहोदकग्रह विद्योरग्रहारातिग्रह छायाग्रह शल्यग्रह सर्वग्रह विशल्यग्रह कालग्रह सर्वदोषग्रह विद्राविणी सर्वदुष्टभक्षिणि सर्वपापनिषूदिनि सर्वयन्त्रस्फोटिनि सर्वशृङ्खलात्रोटिनि सर्वमुद्राद्राविणि ज्वालाजिह्वे करालवक्त्रे रौद्रमूर्ते देवि प्रत्यङ्गिरे सर्वं देहि यशो देहि पुत्रं देहि आरोग्यं देहि भुक्तिमुक्त्यादिकं देहि सर्वसिद्धिं देहि मम सपरिवारं रक्ष रक्ष पूजा जप होम ध्यानार्चनादिकं कृतं न्यूनमधिकं वा परिपूर्णं कुरु कुरु अभिमुखी भव रक्ष रक्ष क्षम सर्वापराधम् ॥ १२ ॥

फलश्रुतिः –
एवं स्तुता महादेवि शिवेन परमात्मनः ।
उवाचेदं प्रहृष्टाङ्गी शृणुष्व परमेश्वरः ॥ १३ ॥

एतत् प्रत्यङ्गिरा स्तोत्रं ये पठन्ति द्विजोत्तमाः ।
शृण्वन्तः साधयन्ताश्च तेषां सिद्धिप्रदा भवेत् ॥ १४ ॥

श्रीश्च कुब्जीं महाकुब्जी कालिका गुह्यकालिका ।
त्रिपुरा त्वरिता नित्या त्रैलोक्यविजया जया ॥ १४ ॥

जितापराजिता देवी जयन्ती भद्रकालिका ।
सिद्धलक्ष्मी महालक्ष्मीः कालरात्रि नमोऽस्तु ते ॥ १५ ॥

काली करालविक्रान्ते कालिका पापहारिणी ।
विकरालमुखी देवि ज्वालामुखि नमोऽस्तु ते ॥ १६ ॥

इदं प्रत्यङ्गिरा स्तोत्रं यः पठेन्नियतः शुचिः ।
तस्य सर्वार्थसिद्धिस्यान्नात्रकार्याविचरणा ॥ १७ ॥

शत्रवो नाशमायान्ति महानैश्वर्यवान्भवेत् ।
इदं रहस्यं परमं नाख्येयं यस्यकस्यचित् ॥ १८ ॥

सर्वपापहरं पुण्यं सद्यः प्रत्ययकारकम् ।
गोपनीयं प्रयत्नेन सर्वकामफलप्रदम् ॥ १९ ॥

इति अथर्वणरहस्ये श्री प्रत्यङ्गिरा स्तोत्रम् ॥


इतर श्री प्रत्यङ्गिरा स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed