Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ईश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि साम्प्रतं तत्पुरातनम् ।
सहस्रनाम परमं प्रत्यङ्गिरार्थ सिद्धये ॥ १ ॥
सहस्रनामपाठेन सर्वत्र विजयी भवेत् ।
पराभवो न चास्यास्ति सभायां वा वने रणे ॥ २ ॥
तथा तुष्टा भवेद्देवी प्रत्यङ्गिराऽस्य पाठतः ।
यथा भवति देवेशि साधकः शिव एव हि ॥ ३ ॥
अश्वमेधसहस्राणि वाजपेयस्य कोटयः ।
सकृत्पाठेन जायन्ते प्रसन्ना प्रत्यङ्गिरा भवेत् ॥ ४ ॥
भैरवोऽस्य ऋषिश्छन्दोऽनुष्टुप् देवी समीरिता ।
प्रत्यङ्गिरा विनियोगः सर्वसम्पत्ति हेतवे ॥ ५ ॥
सर्वकार्येषु संसिद्धिः सर्वसम्पत्तिदा भवेत् ।
एवं ध्यात्वा पठेदेतद्यदीच्छेदात्मनो हितम् ॥ ६ ॥
अस्य श्रीप्रत्यङ्गिरा सहस्रनाममहामन्त्रस्य भैरव ऋषिः अनुष्टुप् छन्दः श्रीमहाप्रत्यङ्गिरा देवता ह्रीं बीजं श्रीं शक्तिः स्वाहा कीलकं परकृत्याविनाशार्थे जपे पाठे विनियोगः ॥
करन्यासः –
ओं ह्रां अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं तर्जनीभ्यां नमः ।
ओं ह्रूं मध्यमाभ्यां नमः ।
ओं ह्रैं अनामिकाभ्यां नमः ।
ओं ह्रौं कनिष्ठिकाभ्यां नमः ।
ओं ह्रः करतल करपृष्ठाभ्यां नमः ।
हृदयादि न्यासः –
ओं ह्रां हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं ह्रूं शिखायै वषट् ।
ओं ह्रैं कवचाय हुम् ।
ओं ह्रौं नेत्रत्रयाय वौषट् ।
ओं ह्रः अस्त्राय फट् ।
ध्यानम् –
आशाम्बरा मुक्तकचा घनच्छवि-
-र्ध्येया सचर्मासिकरा हि भूषणा ।
दंष्ट्रोग्रवक्त्रा ग्रसिता हिता त्वया
प्रत्यङ्गिरा शङ्करतेजसेरिता ॥
स्तोत्रम् –
देवी प्रत्यङ्गिरा दिव्या सरसा शशिशेखरा ।
सुमना सामिधेती च समस्तसुरशेमुषी ॥ १ ॥
सर्वसम्पत्तिजननी सर्वदा सिन्धुसेविनी ।
शम्भुसीमन्तिनी सीमा सुराराध्या सुधारसा ॥ २ ॥
रसा रसवती वेला वन्या च वनमालिनी ।
वनजाक्षी वनचरी वनी वनविनोदिनी ॥ ३ ॥
वेगिनी वेगदा वेगबलास्या च बलाधिका ।
कला कलप्रिया कोली कोमला कालकामिनी ॥ ४ ॥
कमला कमलास्या च कमलस्था कलावती ।
कुलीना कुटिला कान्ता कोकिला कलभाषिणी ॥ ५ ॥
कीरकीली कला काली कपालिन्यपि कालिका ।
केशिनी च कुशावर्ता कौशाम्बी केशवप्रिया ॥ ६ ॥
काशी कला महाकाशी सङ्काशा केशदायिनी ।
कुण्डली कुण्डलास्या च कुण्डलाङ्गदमण्डिता ॥ ७ ॥
कुणपाली कुमुदिनी कुमुदा प्रीतिवर्धिनी ।
कुन्दप्रिया कुन्दरुचिः कुरङ्गमदनोदिनी ॥ ८ ॥
कुरङ्गनयना कुन्दा कुरुवृन्दाऽभिनन्दिनी ।
कुसुम्भकुसुमा काञ्ची क्वणत्किङ्किणिका कटा ॥ ९ ॥
कठोरा करुणा काष्ठा कौमुदी कम्बुकण्ठिनी ।
कपर्दिनी कपटिनी कण्ठिनी कालकण्ठिका ॥ १० ॥
कीरहस्ता कुमारी च कुरुदा कुसुमप्रिया ।
कुञ्जरस्था कुञ्जरता कुम्भि कुम्भस्तनद्वया ॥ ११ ॥
कुम्भिगा करिभोगा च कदली दलशालिनी ।
कुपिता कोटरस्था च कङ्काली कन्दरोदरा ॥ १२ ॥
एकान्तवासिनी काञ्ची कम्पमानशिरोरुहा ।
कादम्बरी कदम्बस्था कुङ्कुमप्रेमधारिणी ॥ १३ ॥
कुटुम्बिनीप्रियाऽऽकूती क्रतुः क्रतुकरी प्रिया ।
कात्यायनी कृत्तिका च कार्तिकेयप्रवर्तिनी ॥ १४ ॥
कामपत्नी कामदात्री कामेशी कामवन्दिता ।
कामरूपा क्रमावर्ती कामाक्षी काममोहिता ॥ १५ ॥
खड्गिनी खेचरी खड्गा खञ्जरीटेक्षणा खला ।
खरगा खरनाथा च खरास्या खेलनप्रिया ॥ १६ ॥
खरांशुः खेटिनी खट्वा खगा खट्वाङ्गधारिणी ।
खरखण्डिनी ख्याता खण्डिता खण्डनीस्थिता ॥ १७ ॥
खण्डप्रिया खण्डखाद्या सेन्दुखण्डा च खण्डिनी ।
गङ्गा गोदावरी गौरी गोमत्यपि च गौतमी ॥ १८ ॥
गया गेया गगनगा गारुडी गरुडध्वजा ।
गीता गीतप्रिया गोपा गण्डप्रीता गुणी गिरा ॥ १९ ॥
गुं गौरी मन्दमदना गोकुला गोप्रतारिणी ।
गोदा गोविन्दिनी गूढा निर्गूढा गूढविग्रहा ॥ २० ॥
गुञ्जिनी गजगा गोपी गोत्रक्षयकरी गदा ।
गिरिभूपालदुहिता गोगा गोच्छलवर्धिनी ॥ २१ ॥
घनस्तनी घनरुचिर्घनेहा घननिःस्वना ।
घूत्कारिणी घूघकरी घुघूकपरिवारिता ॥ २२ ॥
घण्टानादप्रिया घण्टा घनाघोटकवाहिनी ।
घोररूपा च घोरा च घूती प्रतिघना घनी ॥ २३ ॥
घृताची घनपुष्टिश्च घटा घनघटाऽमृता ।
घटस्या घटना घोघघातपातनिवारिणी ॥ २४ ॥
चञ्चरीका चकोरी च चामुण्डा चीरधारिणी ।
चातुरी चपला चक्रचला चेला चलाऽचला ॥ २५ ॥
चतुश्चिरन्तना चाका चिक्या चामीकरच्छविः ।
चापिनी चपला चम्पू चिन्ता चिन्तामणिश्चिता ॥ २६ ॥
चातुर्वर्ण्यमयी चञ्चच्चौराचार्या चमत्कृतिः ।
चक्रवर्तिवधूश्चक्रा चक्राङ्गा चक्रमोदिनी ॥ २७ ॥
चेतश्चरी चित्तवृत्तिरचेता चेतनप्रदा ।
चाम्पेयी चम्पकप्रीतिश्चण्डी चण्डालवासिनी ॥ २८ ॥
चिरञ्जीवितटा चिञ्चा तरुमूलनिवासिनी ।
छुरिका छत्रमध्यस्था छिद्रा छेदकरी छिदा ॥ २९ ॥
छुछुन्दरीपलप्रीती छुछुन्दरीनिभस्वना ।
छलिनी छलदा छत्रा छिटिका छेककृत्तथा ॥ ३० ॥
छगिनी छान्दसी छाया छायाकृच्छादिरित्यपि ।
जया च जयदा जाती जयस्था जयवर्धिनी ॥ ३१ ॥
जपापुष्पप्रिया जप्या जृम्भिणी यामला युता ।
जम्बूप्रिया जयस्था च जङ्गमा जङ्गमप्रिया ॥ ३२ ॥
जन्तुर्जन्तुप्रधाना च जरत्कर्णा जरद्भवा ।
जातिप्रिया जीवनस्था जीमूतसदृशच्छविः ॥ ३३ ॥
जन्या जनहिता जाया जम्भभिज्जम्भमालिनी ।
जवदा जववद्वाहा जवानी ज्वरहा ज्वरा ॥ ३४ ॥
झञ्झानिलमयी झञ्झा झणत्कारकरा तथा ।
झिण्टीशा झम्पकृत् झम्पा झम्पत्रासनिवारिणी ॥ ३५ ॥
टकारस्था टङ्कधरा टङ्कारा करशाटिनी ।
ठक्कुरा ठीत्कृती ठिण्ठी ठिण्ठीरवसमावृता ॥ ३६ ॥
ठण्ठानिलमयी ठण्ठा ठणत्कारकरा ठसा ।
डाकिनी डामरी चैव डिण्डिमध्वनिनन्दिनी ॥ ३७ ॥
ढक्कास्वनप्रिया ढक्का तपिनी तापिनी तथा ।
तरुणी तुन्दिला तुन्दा तामसी च तपःप्रिया ॥ ३८ ॥
ताम्रा ताम्राम्बरा ताली तालीदलविभूषणा ।
तुरङ्गा त्वरिता त्रेता तोतुला तोदिनी तुला ॥ ३९ ॥
तापत्रयहरा तप्ता तालकेशी तमालिनी ।
तमालदलवच्छामा तालम्लानवती तमी ॥ ४० ॥
तामसी च तमिस्रा च तीव्रा तीव्रपराक्रमा ।
तटस्था तिलतैलाक्ता तरणी तपनद्युतिः ॥ ४१ ॥
तिलोत्तमा तिलककृत्तारकाधीशशेखरा ।
तिलपुष्पप्रिया तारा तारकेशी कुटुम्बिनी ॥ ४२ ॥
स्थाणुपत्नी स्थितिकरी स्थलस्था स्थलवर्धिनी ।
स्थितिः स्थैर्या स्थविष्ठा च स्थापतिः स्थलविग्रहा ॥ ४३ ॥
दन्तिनी दण्डिनी दीना दरिद्रा दीनवत्सला ।
देवी देववधूर्दैत्यदमनी दन्तभूषणा ॥ ४४ ॥
दयावती दमवती दमदा दाडिमस्तनी ।
दन्दशूकनिभा दैत्यदारिणी देवतानना ॥ ४५ ॥
दोलाक्रीडा दलायुश्च दम्पती देवतामयी ।
दशा दीपस्थिता दोषा दोषहा दोषकारिणी ॥ ४६ ॥
दुर्गा दुर्गार्तिशमनी दुर्गमा दुर्गवासिनी ।
दुर्गन्धनाशिनी दुःस्था दुःस्वप्नशमकारिणी ॥ ४७ ॥
दुर्वारा दुन्दुभी भ्रान्ता दूरस्था दूरवासिनी ।
दरहा दरदा दात्री दायादा दुहिता दया ॥ ४८ ॥
धुरन्धरा धुरीणा च धौरी धी धनदायिनी ।
धीराऽधीरा धरित्री च धर्मदा धीरमानसा ॥ ४९ ॥
धनुर्धरा च दमनी धूर्ता धूर्तपरिग्रहा ।
धूमवर्णा धूमपाना धूमला धूममोहिनी ॥ ५० ॥
नलिनी नन्दिनी नन्दा नादिनी नन्दबालिका ।
नवीना नर्मदा नर्मिनेमिर्नियमनिश्चया ॥ ५१ ॥
निर्मला निगमाचारा निम्नगा नग्नकामिनी ।
नीतिर्निरन्तरा नग्नी निर्लेपा निर्गुणा नतिः ॥ ५२ ॥
नीलग्रीवा निरीहा च निरञ्जनजनी नवी ।
नवनीतप्रिया नारी नरकार्णवतारिणी ॥ ५३ ॥
नारायणी निराकारा निपुणा निपुणप्रिया ।
निशा निद्रा नरेन्द्रस्था नमिताऽनमितापि च ॥ ५४ ॥
निर्गुण्डिका च निर्गुण्डा निर्मांसाऽनामिका निभा ।
पताकिनी पताका च पलप्रीतिर्यशस्विनी ॥ ५५ ॥
पीना पीनस्तना पत्नी पवनाशनशायिनी ।
पराऽपरा कलापाऽऽप्पा पाककृत्यरति प्रिया ॥ ५६ ॥
पवनस्था सुपवना तापसीप्रीतिवर्धिनी ।
पशुवृद्धिकरी पुष्टिः पोषणी पुष्पवर्धिनी ॥ ५७ ॥
पुष्पिणी पुस्तककरा पुन्नागतलवासिनी ।
पुरन्दरप्रिया प्रीतिः पुरमार्गनिवासिनी ॥ ५८ ॥
पाशी पाशकरा पाशा बन्धुहा पांसुला पशुः ।
पटुः पटासा परशुधारिणी पाशिनी तथा ॥ ५९ ॥
पापघ्नी पतिपत्नी च पतिताऽपतितापि च ।
पिशाची च पिशाचघ्नी पिशिताशनतोषिता ॥ ६० ॥
पानदा पानपात्रा च पानदानकरोद्यता ।
पेया प्रसिद्धा पीयूषा पूर्णा पूर्णमनोरथा ॥ ६१ ॥
पतद्गर्भा पतद्गात्रा पातपुण्यप्रिया पुरी ।
पङ्किला पङ्कमग्ना च पानीया पञ्जरस्थिता ॥ ६२ ॥
पञ्चमी पञ्चयज्ञा च पञ्चता पञ्चमप्रिया ।
पञ्चमुद्रा पुण्डरीका पिकी पिङ्गललोचना ॥ ६३ ॥
प्रियङ्गुमञ्जरी पिण्डी पिण्डिता पाण्डुरप्रभा ।
प्रेतासना प्रियालुस्था पाण्डुघ्नी पीतसापहा ॥ ६४ ॥
फलिनी फलधात्री च फलश्रीः फणिभूषणा ।
फूत्कारकारिणी स्फारा फुल्ला फुल्लाम्बुजासना ॥ ६५ ॥
फिरङ्गहा स्फीतमतिः स्फीतिः स्फीतकरी तथा ।
बलमाया बलारातिर्बलिनी बलवर्धिनी ॥ ६६ ॥
वेणुवाद्या वनचरी विरावजनयित्री च ।
विद्या विद्याप्रदा विद्याबोधिनी बोधदायिनी ॥ ६७ ॥
बुद्धमाता च बुद्धा च वनमालावती वरा ।
वरदा वारुणी वीणा वीणावादनतत्परा ॥ ६८ ॥
विनोदिनी विनोदस्था वैष्णवी विष्णुवल्लभा ।
वैद्या वैद्यचिकित्सा च विवशा विश्वविश्रुता ॥ ६९ ॥
विद्वत्कविकला वेत्ता वितन्द्रा विगतज्वरा ।
विरावा विविधारावा बिम्बोष्ठी बिम्बवत्सला ॥ ७० ॥
विन्ध्यस्था वीरवन्द्या च वरीयसापराधवित् ।
वेदान्तवेद्या वेद्या च वैद्या च विजयप्रदा ॥ ७१ ॥
विरोधवर्धिनी वन्ध्या वन्ध्याबन्धनिवारिणी ।
भगिनी भगमाला च भवानी भवभाविनी ॥ ७२ ॥
भीमा भीमानना भैमी भङ्गुरा भीमदर्शना ।
भिल्ली भल्लधरा भीरुर्भेरुण्डा चैभभयापहा ॥ ७३ ॥
भगसर्पिण्यपि भगा भगरूपा भगालया ।
भगासना भगामोदा भेरी भाङ्काररञ्जिनी ॥ ७४ ॥
भीषणाऽभीषणा सर्वा भगवत्यपि भूषणा ।
भारद्वाजी भोगदात्री भवघ्नी भूतिभूषणा ॥ ७५ ॥
भूतिदा भूमिदात्री च भूपतित्वप्रदायिनी ।
भ्रमरी भ्रामरी नीला भूपालमुकुटस्थिता ॥ ७६ ॥
मत्ता मनोहरा मना मानिनी मोहनी महा ।
महालक्ष्मीर्मदाक्षीबा मदिरा मदिरालया ॥ ७७ ॥
मदोद्धता मतङ्गस्था माधवी मधुमन्थिनी ।
मेधा मेधाकरी मेध्या मध्या मध्यवयस्थिता ॥ ७८ ॥
मद्यपा मांसला मत्स्या मोदिनी मैथुनोद्धता ।
मुद्रा मुद्रावती माता माया महिममन्दिरा ॥ ७९ ॥
महामाया महाविद्या महामारी महेश्वरी ।
महादेववधूर्मान्या मथुरा मेरुमण्डला ॥ ८० ॥
मेदस्वनी मेदसुश्रीर्महिषासुरमर्दिनी ।
मण्डपस्था मठस्थाऽमा माला मालाविलासिनी ॥ ८१ ॥
मोक्षदा मुण्डमाला च मन्दिरागर्भगर्भिता ।
मातङ्गिनी च मातङ्गी मतङ्गतनया मधुः ॥ ८२ ॥
मधुस्रवा मधुरसा मधूककुसुमप्रिया ।
यामिनी यामिनीनाथभूषा यावकरञ्जिता ॥ ८३ ॥
यवाङ्कुरप्रिया यामा यवनी यवनाधिपा ।
यमघ्नी यमवाणी च यजमानस्वरूपिणी ॥ ८४ ॥
यज्ञा यज्या यजुर्यज्वा यशोनिकरकारिणी ।
यज्ञसूत्रप्रदा ज्येष्ठा यज्ञकर्मकरी यशा ॥ ८५ ॥
यशस्विनी यज्ञसंस्था यूपस्तम्भनिवासिनी ।
रञ्जिता राजपत्नी च रमा रेखा रवी रणी ॥ ८६ ॥
रजोवती रजश्चित्रा रजनी रजनीपतिः ।
रागिणी राजिनी राज्या राज्यदा राज्यवर्धिनी ॥ ८७ ॥
राजन्वती राजनीतिस्तुर्या राजनिवासिनी ।
रमणी रमणीया च रामा रामवती रतिः ॥ ८८ ॥
रेतोवती रतोत्साहा रोगहा रोगकारिणी ।
रङ्गा रङ्गवती रागा रागज्ञा रागिनी रणा ॥ ८९ ॥
रञ्जिका रञ्जकी रञ्जा रञ्जिनी रक्तलोचना ।
रक्तचर्मधरा रन्त्री रक्तस्था रक्तवाहिनी ॥ ९० ॥
रम्भा रम्भाफलप्रीती रम्भोरू राघवप्रिया ।
रङ्गभृद्रङ्गमधुरा रोदसी रोदसीगृहा ॥ ९१ ॥
रोगकर्त्री रोगहर्त्री च रोगभृद्रोगशायिनी ।
वन्दी वन्दिस्तुता बन्धुर्बन्धूककुसुमाधरा ॥ ९२ ॥
वन्दिता वन्दिमाता बन्धुरा बैन्दवी विभा ।
विङ्की विङ्कपला विङ्का विङ्कस्था विङ्कवत्सला ॥ ९३ ॥
वेदैर्विलग्ना विग्ना च विधिर्विधिकरी विधा ।
शङ्खिनी शङ्खनिलया शङ्खमालावती शमी ॥ ९४ ॥
शङ्खपात्राशिनी शङ्खाऽशङ्खा शङ्खगला शशी ।
शिम्बी शरावती श्यामा श्यामाङ्गी श्यामलोचना ॥ ९५ ॥
श्मशानस्था श्मशाना च श्मशानस्थलभूषणा ।
शर्मदा शमहर्त्री च शाकिनी शङ्कुशेखरा ॥ ९६ ॥
शान्तिः शान्तिप्रदा शेषा शेषस्था शेषशायिनी ।
शेमुषी शोषिणी शौरी शारिः शौर्या शरा शरी ॥ ९७ ॥
शापदा शापहारी श्रीः शम्पा शपथचापिनी ।
शृङ्गिणी शृङ्गिपलभुक् शङ्करी शाङ्करी तथा ॥ ९८ ॥
शङ्का शङ्कापहा शंस्था शाश्वती शीतला शिवा ।
शवस्था शवभुक् शैवी शाववर्णा शवोदरी ॥ ९९ ॥
शायिनी शावशयना शिंशिपा शिंशिपायता ।
शवाकुण्डलिनी शैवा शङ्करा शिशिरा शिरा ॥ १०० ॥
शवकाञ्ची शवश्रीका शवमाला शवाकृतिः ।
शम्पिनी शङ्कुशक्तिः शं शन्तनुः शीलदायिनी ॥ १०१ ॥
सिन्धुः सरस्वती सिन्धुसुन्दरी सुन्दरानना ।
साधुसिद्धिः सिद्धिदात्री सिद्धा सिद्धसरस्वती ॥ १०२ ॥
सन्ततिः सम्पदा सम्पत्संवित्सम्पत्तिदायिनी ।
सपत्नी सरसा सारा सरस्वतिकरी सुधा ॥ १०३ ॥
सरः समा समाना च समाराध्या समस्तदा ।
समिद्धा समदा संमा सम्मोहा समदर्शना ॥ १०४ ॥
समितिः समिधा सीमा सावित्री संविदा सती ।
सवना सवनाधारा सावना समरा समी ॥ १०५ ॥
समीरा सुमना साध्वी सध्रीचीन्यसहायिनी ।
हंसी हंसगतिर्हंसा हंसोज्ज्वलनिचोलयुक् ॥ १०६ ॥
हलिनी हलदा हाला हरश्रीर्हरवल्लभा ।
हेला हेलावती ह्रेषा ह्रेषस्था ह्रेषवर्धिनी ॥ १०७ ॥
हन्ता हानिर्हयाह्वा हृद्धन्तहा हन्तहारिणी ।
हुङ्कारी हन्तकृद्धङ्का हीहा हाहा हताहिता ॥ १०८ ॥
हेमा प्रभा हरवती हारीता हरिसम्मता ।
होरी होत्री होलिका च होम्या होमा हविर्हरिः ॥ १०९ ॥
हारिणी हरिणीनेत्रा हिमाचलनिवासिनी ।
लम्बोदरी लम्बकर्णा लम्बिका लम्बविग्रहा ॥ ११० ॥
लीला लीलावती लोला ललना लालितालता ।
ललामलोचना लोच्या लोलाक्षी लक्षणा लटा ॥ १११ ॥
लम्पती लुम्पती लम्पा लोपामुद्रा ललन्ति च ।
लतिका लङ्घिका लङ्घा लघिमा लघुमध्यमा ॥ ११२ ॥
लघ्वीयसी लघूदर्का लूता लूतनिवारिणी ।
लोमभृल्लोमलोम्नी च लुलुती लुलुलुम्पिनी ॥ ११३ ॥
लुलायस्था च लहरी लङ्कापुरपुरन्दरी ।
लक्ष्मीर्लक्ष्मीप्रदा लक्ष्या लक्ष्यबलगतिप्रदा ॥ ११४ ॥
क्षणक्षपा क्षणक्षीणा क्षमा क्षान्तिः क्षमावती ।
क्षामा क्षामोदरी क्षोणी क्षोणिभृत् क्षत्रियाङ्गना ॥ ११५ ॥
क्षपा क्षपाकरी क्षीरा क्षीरदा क्षीरसागरा ।
क्षीणङ्करी क्षयकरी क्षयभृत् क्षयदा क्षतिः ।
क्षरन्ती क्षुद्रिका क्षुद्रा क्षुत्क्षामा क्षरपातका ॥ ११६ ॥
फलश्रुतिः –
मातुः सहस्रनामेदं प्रत्यङ्गिरासिद्धिदायकम् ॥ १ ॥
यः पठेत्प्रयतो नित्यं दरिद्रो धनदो भवेत् ।
अनाचान्तः पठेन्नित्यं स चापि स्यान्महेश्वरः ।
मूकः स्याद्वाक्पतिर्देवी रोगी नीरोगतां भवेत् ॥ २ ॥
अपुत्रः पुत्रमाप्नोति त्रिषुलोकेषु विश्रुतम् ।
वन्ध्यापि सूते तनयान् गावश्च बहुदुग्धदाः ॥ ३ ॥
राजानः पादनम्राः स्युस्तस्य दासा इव स्फुटाः ।
अरयः सङ्क्षयं यान्ति मनसा संस्मृता अपि ॥ ४ ॥
दर्शनादेव जायन्ते नरा नार्योऽपि तद्वशाः ।
कर्ता हर्ता स्वयंवीरो जायते नात्रसंशयः ॥ ५ ॥
यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ।
दुरितं न च तस्यास्ति नास्ति शोकः कदाचन ॥ ६ ॥
चतुष्पथेऽर्धरात्रे च यः पठेत्साधकोत्तमः ।
एकाकी निर्भयो धीरो दशावर्तं नरोत्तमः ॥ ७ ॥
मनसा चिन्तितं कार्यं तस्य सिद्धिर्न संशयम् ।
विना सहस्रनाम्नां यो जपेन्मन्त्रं कदाचन ॥ ८ ॥
न सिद्धो जायते तस्य मन्त्रः कल्पशतैरपि ।
कुजवारे श्मशाने च मध्याह्ने यो जपेत्तथा ॥ ९ ॥
शतावर्त्या स जयेत कर्ता हर्ता नृणामिह ।
रोगार्तो यो निशीथान्ते पठेदम्भसि संस्थितः ॥ १० ॥
सद्यो नीरोगतामेति यदि स्यान्निर्भयस्तदा ।
अर्धरात्रे श्मशाने वा शनिवारे जपेन्मनुम् ॥ ११ ॥
अष्टोत्तरसहस्रं तु दशवारं जपेत्ततः ।
सहस्रनाममेत्तद्धि तदा याति स्वयं शिवा ॥ १२ ॥
महापवनरूपेण घोरगोमायुनादिनी ।
तदा यदि न भीतिः स्यात्ततो देहीति वाग्भवेत् ॥ १३ ॥
तदा पशुबलिं दद्यात् स्वयं गृह्णाति चण्डिका ।
यथेष्टं च वरं दत्त्वा याति प्रत्यङ्गिरा शिवा ॥ १४ ॥
रोचनागुरुकस्तूरी कर्पूरमदचन्दनैः ।
कुङ्कुमप्रथमाभ्यां तु लिखितं भूर्जपत्रके ॥ १५ ॥
शुभनक्षत्रयोगे तु समभ्यर्च्य घटान्तरे ।
कृतसम्पातनात्सिद्धं धार्यन्तद्दक्षिणेकरे ॥ १६ ॥
सहस्रनामस्वर्णस्थं कण्ठे वापि जितेन्द्रियः ।
तदायं प्रणमेन्मन्त्री क्रुद्धः सम्रियते नरः ॥ १७ ॥
यस्मै ददाति च स्वस्ति स भवेद्धनदोपमः ।
दुष्टश्वापदजन्तूनां न भीः कुत्रापि जायते ॥ १८ ॥
बालकानामियं रक्षा गर्भिणीनामपि ध्रुवम् ।
मोहन स्तम्भनाकर्षमारणोच्चाटनानि च ॥ १९ ॥
यन्त्रधारणतो नूनं सिध्यन्ते साधकस्य च ।
नीलवस्त्रे विलिखितं ध्वजायां यदि तिष्ठति ॥ २० ॥
तदा नष्टा भवत्येव प्रचण्डा परवाहिनी ।
एतज्जप्तं महाभस्म ललाटे यदि धारयेत् ॥ २१ ॥
तद्दर्शनत एव स्युः प्राणिनस्तस्य किङ्कराः ।
राजपत्न्योऽपि वश्याः स्युः किमन्याः परयोषितः ॥ २२ ॥
एतज्जपन्निशितोये मासैकेन महाकविः ।
पण्डितश्च महावादी जायते नात्रसंशयः ॥ २३ ॥
शक्तिं सम्पूज्य देवेशि पठेत् स्तोत्रं वरं शुभम् ।
इहलोके सुखं भुक्त्वा परत्र त्रिदिवं व्रजेत् ॥ २४ ॥
इति नामसहस्रं तु प्रत्यङ्गिर मनोहरम् ।
गोप्यं गुह्यतमं लोके गोपनीयं स्वयोनिवत् ॥ २५ ॥
इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्री प्रत्यङ्गिरा सहस्रनाम स्तोत्रम् ।
इतर श्री प्रत्यङ्गिरा स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.