Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
दुष्टतमोऽपि दयारहितोऽपि
विधर्मविशेषकृतिप्रथितोऽपि ।
दुर्जनसङ्गरतोऽप्यवरोऽपि
कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ १ ॥
लोभरतोऽप्यभिमानयुतोऽपि
परहितकारणकृत्यकरोऽपि ।
क्रोधपरोऽप्यविवेकहतोऽपि
कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ २ ॥
काममयोऽपि गताश्रयणोऽपि
पराश्रयगाशयचञ्चलितोऽपि ।
वैषयिकादरसंवलितोऽपि
कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ३ ॥
उत्तमधैर्यविभिन्नतरोऽपि
निजोदरपोषणहेतुपरोऽपि ।
स्वीकृतमत्सरमोहमदोऽपि
कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ४ ॥
भक्तिपथादरमात्रकृतोऽपि
व्यर्थविरुद्धकृतिप्रसृतोऽपि ।
त्वत्पदसन्मुखतापतितोऽपि
कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ५ ॥
संसृतिगेहकलत्ररतोऽपि
व्यर्थधनार्जनखेदसहोऽपि ।
उन्मदमानससंश्रयणोऽपि
कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ६ ॥
कृष्णपथेतरधर्मरतोऽपि
स्वस्थितविस्मृतिसद्धृदयोऽपि ।
दुर्जनदुर्वचनादरणोऽपि
कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ७ ॥
वल्लभवंशजनुः सबलोऽपि
स्वप्रभुपादसरोजफलोऽपि ।
लौकिकवैदिकधर्मखलोऽपि
कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ८ ॥
पञ्चाक्षरमहामन्त्रगर्भितस्तोत्रपाठतः ।
श्रीमदाचार्यदासानां तदीयत्वं भवेद्ध्रुवम् ॥ ९ ॥
इति श्रीहरिदास कृतं पञ्चाक्षरमन्त्रगर्भ स्तोत्रम् ।
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.