Sri Guhya Kali Sudha Dhara Stava – श्री गुह्यकाली सुधाधारा स्तवः



महाकाल रुद्र उवाच ।
अचिन्त्यामिताकारशक्तिस्वरूपा
प्रतिव्यक्त्यधिष्ठानसत्त्वैकमूर्तिः ।
गुणातीतनिर्द्वन्द्वबोधैकगम्या
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १ ॥

अगोत्राकृतित्वादनैकान्तिकत्वा-
-दलक्ष्यागमत्वादशेषाकरत्वात् ।
प्रपञ्चालसत्वादनारम्भकत्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २ ॥

असाधारणत्वादसम्बन्धकत्वा-
-दभिन्नाश्रयत्वादनाकारकत्वात् ।
अविद्यात्मकत्वादनाद्यन्तकत्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३ ॥

यदा नैव धाता न विष्णुर्न रुद्रो
न कालो न वा पञ्चभूतानि नाशा ।
तदा कारणीभूत सत्त्वैकमूर्ति-
-स्त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४ ॥

न मीमांसका नैव कालादितर्का
न साङ्ख्या न योगा न वेदान्तवेदाः ।
न देवा विदुस्ते निराकारभावं
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५ ॥

न ते नामगोत्रे न ते जन्ममृत्यू
न ते धामचेष्टे न ते दुःखसौख्ये ।
न ते मित्रशत्रू न ते बन्धमोक्षौ
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ६ ॥

न बाला न च त्वं वयस्का न वृद्धा
न च स्त्री न षण्ढः पुमान्नैव च त्वम् ।
न च त्वं सुरो नासुरो नो नरो वा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ७ ॥

जले शीतलत्वं शुचौ दाहकत्वं
विधौ निर्मलत्वं रवौ तापकत्वम् ।
तवैवाम्बिके यस्य कस्यापि शक्ति-
-स्त्वमेका परब्रह्मरूपेण सिद्धा ॥ ८ ॥

पपौ क्ष्वेडमुग्रं पुरा यन्महेशः
पुनः संहरत्यन्तकाले जगच्च ।
तवैव प्रसादान्न च स्वस्य शक्त्या
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ९ ॥

करालाकृतीन्याननानि श्रयन्ती
भजन्ती करास्त्रादि बाहुल्यमित्थम् ।
जगत्पालनायाऽसुराणां वधाय
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १० ॥

रुवन्ती शिवाभिर्वहन्ती कपालं
जयन्ती सुरारीन् वधन्ती प्रसन्ना ।
नटन्ती पतन्ती चलन्ती हसन्ती
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ११ ॥

अपादाऽपि वाताधिकं धावसि त्वं
श्रुतिभ्यां विहीनाऽपि शब्दं शृणोषि ।
अनासाऽपि जिघ्रस्य नेत्राऽपि पश्य-
-स्वजिह्वाऽपि नानारसास्वाद विज्ञा ॥ १२ ॥

यथा बिम्बमेकं रवेरम्बरस्थं
प्रतिच्छायया यावदेकोदकेषु ।
समुद्भासतेऽनेकरूपं यथावत्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १३ ॥

यथा भ्रामयित्वा मृदं चक्रमध्ये
कुलालो विधत्ते शरावं घटं च ।
महामोहयन्त्रेषु भूतान्यशेषान्
तथा मानुषांस्त्वं सृजस्यादिसर्गे ॥ १४ ॥

यथा रङ्गरज्ज्वर्कदृष्टिष्वकस्मा-
-नृणां रूपदर्वीकराम्बुभ्रमः स्यात् ।
जगत्यत्र तत्तन्मये तद्वदेव
त्वमेकैव तत्तन्निवृतौ समस्तम् ॥ १५ ॥

महाज्योति एकार सिंहासनं यत्-
स्वकीयान् सुरान् वाहयस्युग्रमूर्ते ।
अवष्टभ्य पद्भ्यां शिवं भैरवं च
स्थिता तेन मध्ये भवत्येव मुख्या । १६ ॥

क्व योगासने योगमुद्रादिनीतिः
क्व गोमायुपोतस्य बालाननं च ।
जगन्मातरादृक् तवाऽपूर्वलीला
कथं कारमस्मद्विधैर्देवि गम्या ॥ १७ ॥

विशुद्धा परा चिन्मयी स्वप्रकाशा-
-मृतानन्दरूपा जगद्व्यापिका च ।
तवेदृग्विधाया निजाकारमूर्तिः
किमस्माभिरन्तर्हृदि ध्यायितव्या ॥ १८ ॥

महाघोरकालानल ज्वालज्वाला
हिता त्यक्तवासा महाट्‍टाट्‍टहासा ।
जटाभारकाला महामुण्डमाला
विशाला त्वमीदृङ्मया ध्यायसेऽम्ब ॥ १९ ॥

तपो नैव कुर्वन् वपुः खेदयामि
व्रजन्नापि तीर्थं पदे खञ्जयामि ।
पठन्नापि वेदं जनिं पावयामि
त्वदङ्घ्रिद्वये मङ्गलं साधयामि ॥ २० ॥

तिरस्कुर्वतोऽन्यामरोपासनार्चे
परित्यक्तधर्माध्वरस्यास्य जन्तोः ।
त्वदाराधनान्यस्त चित्तस्य किं मे
करिष्यन्त्यमी धर्मराजस्य दूताः ॥ २१ ॥

न मन्ये हरिं नो विधातारमीशं
न वह्निं न ह्यर्कं न चेन्द्रादि देवान् ।
शिवोदीरितानेक वाक्यप्रबन्धै-
-स्त्वदर्चाविधानं विशत्वम्ब मत्याम् ॥ २२ ॥

न वा मां विनिन्दन्तु नाम त्यजेन्मां
त्यजेद्बान्धवा ज्ञातयः सन्त्यजन्तु ।
यमीया भटा नारके पातयन्तु
त्वमेका गतिर्मे त्वमेका गतिर्मे ॥ २३ ॥

महाकालरुद्रोदितस्तोत्रमेतत्
सदा भक्तिभावेन योऽध्येति भक्तः ।
न चापन्न शोको न रोगो न मृत्यु-
-र्भवेत् सिद्धिरन्ते च कैवल्यलाभः ॥ २४ ॥

इदं शिवायाः कथितं सुधाधाराख्यं स्तवम् ।
एतस्य सतताभ्यासात् सिद्धिः करतलेस्थिता ॥ २५ ॥

एतत् स्तोत्रं च कवचं पद्यं त्रितयमप्यदः ।
पठनीयं प्रयत्नेन नैमित्तिकसमर्पणे ॥ २६ ॥

सौम्येन्दीवरनीलनीरदघटाप्रोद्दामदेहच्छटा
लास्योन्मादनिनादमङ्गलचयैः श्रोण्यन्तदोलज्जटाः ।
सा काली करवालकालकलना हन्त्वश्रियं चण्डिका ॥ २७ ॥

काली क्रोधकरालकालभयदोन्मादप्रमोदालया
नेत्रोपान्तकृतान्तदैत्यनिवहाप्रोद्दाम देहाभया ।
पायाद्वो जयकालिका प्रवलिका हूङ्कारघोरानना
भक्तानामभयप्रदा विजयदा विश्वेशसिद्धासना ॥ २८ ॥

करालोन्मुखी कालिका भीमकान्ता
कटिव्याघ्रचर्मावृता दानवान्ता ।
हूं हूं कड्मडीनादिनी कालिका तु
प्रसन्ना सदा नः प्रसन्नान् पुनातु ॥ २९ ॥

इत्यादिनाथविरचित महाकालसंहितायां श्री गुह्यकाली सुधाधारा स्तवः ॥


इतर श्री कालिका स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed