Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
स सर्वं सिद्धिमासाद्य ह्यन्ते रामपदं व्रजेत् ।
चिन्तयेच्चेतसा नित्यं श्रीरामः शरणं मम ॥ १ ॥
विश्वस्य चात्मनो नित्यं पारतन्त्र्यं विचिन्त्य च ।
चिन्तयेच्चेतसा नित्यं श्रीरामः शरणं मम ॥ २ ॥
अचिन्त्योऽपि शरीरादेः स्वातन्त्र्येणैव विद्यते ।
चिन्तयेच्चेतसा नित्यं श्रीरामः शरणं मम ॥ ३ ॥
आत्माधारं स्वतन्त्रं च सर्वशक्तिं विचिन्त्य च ।
चिन्तयेच्चेतसा नित्यं श्रीरामः शरणं मम ॥ ४ ॥
नित्यात्मगुणसम्युक्तो नित्यात्मतनुमण्डितः ।
नित्यात्मकेलिनिरतः श्रीरामः शरणं मम ॥ ५ ॥
गुणलीलास्वरूपैश्च मितिर्यस्य न विद्यते ।
अतोऽवाङ्मनसा वेद्यः श्रीरामः शरणं मम ॥ ६ ॥
कर्ता सर्वस्य जगतो भर्ता सर्वस्य सर्वगः ।
आहर्ता कार्य जातस्य श्रीरामः शरणं मम ॥ ७ ॥
वासुदेवादिमूर्तीनां चतुर्णां कारणं परम् ।
चतुर्विंशति मूर्तीनां श्रीरामः शरणं मम ॥ ८ ॥
नित्यमुक्तजनैर्जुष्टो निविष्टः परमे पदे ।
पदं परमभक्तानां श्रीरामः शरणं मम ॥ ९ ॥
महदादिस्वरूपेण संस्थितः प्राकृते पदे ।
ब्रह्मादिदेवरूपैश्च श्रीरामः शरणं मम ॥ १० ॥
मन्वादिनृपरूपेण श्रुतिमार्गं बिभर्तियः ।
यः प्राकृत स्वरूपेण श्रीरामः शरणं मम ॥ ११ ॥
ऋषिरूपेण यो देवो वन्यवृत्तिमपालयत् ।
योऽन्तरात्मा च सर्वेषां श्रीरामः शरणं मम ॥ १२ ॥
योऽसौ सर्वतनुः सर्वः सर्वनामा सनातनः ।
आस्थितः सर्वभावेषु श्रीरामः शरणं मम ॥ १३ ॥
बहिर्मत्स्यादिरूपेण सद्धर्ममनुपालयन् ।
परिपाति जनान् दीनान् श्रीरामः शरणं मम ॥ १४ ॥
यश्चात्मानं पृथक्कृत्य भावेन पुरुषोत्तमः ।
अर्चायामास्थितो देवः श्रीरामः शरणं मम ॥ १५ ॥
अर्चावतार रूपेण दर्शनस्पर्शनादिभिः ।
दीनानुद्धरते योऽसौ श्रीरामः शरणं मम ॥ १६ ॥
कौशल्याशुक्तिसञ्जातो जानकीकण्ठभूषणः ।
मुक्ताफलसमो योऽसौ श्रीरामः शरणं मम ॥ १७ ॥
विश्वामित्रमखत्राता ताटकागतिदायकः ।
अहल्याशापशमनः श्रीरामः शरणं मम ॥ १८ ॥
पिनाकभञ्जनः श्रीमान् जानकीप्रेमपालकः ।
जामदग्न्यप्रतापघ्नः श्रीरामः शरणं मम ॥ १९ ॥
राज्याभिषेकसंहृष्टः कैकेयी वचनात्पुनः ।
पितृदत्तवनक्रीडः श्रीरामः शरणं मम ॥ २० ॥
जटाचीरधरोधन्वी जानकीलक्ष्मणान्वितः ।
चित्रकूटकृतावासः श्रीरामः शरणं मम ॥ २१ ॥
महापञ्चवटीलीला सञ्जातपरमोत्सवः ।
दण्डकारण्यसञ्चारी श्रीरामः शरणं मम ॥ २२ ॥
खरदूषणविच्छेदी दुष्टराक्षसभञ्जनः ।
हृतशूर्पणखाशोभः श्रीरामः शरणं मम ॥ २३ ॥
मायामृगविभेत्ता च हृतसीतानुतापकृत् ।
जानकीविरहाक्रोशी श्रीरामः शरणं मम ॥ २४ ॥
लक्ष्मणानुचरोधन्वी लोकयात्राविडम्बकृत् ।
पम्पातीरकृतान्वेषः श्रीरामः शरणं मम ॥ २५ ॥
जटायुगति दाता च कबन्धगतिदायकः ।
हनुमत्कृतसाहित्य श्रीरामः शरणं मम ॥ २६ ॥
सुग्रीवराज्यदः श्रीशो वालिनिग्रहकारकः ।
अङ्गदाश्वासनकरः श्रीरामः शरणं मम ॥ २७ ॥
सीतान्वेषणनिर्मुक्तहनुमत्प्रमुखव्रजः ।
मुद्रानिवेशितबलः श्रीरामः शरणं मम ॥ २८ ॥
हेलोत्तरितपाथोधिर्बलनिर्धूतराक्षसः ।
लङ्कादाहकरो धीरः श्रीरामः शरणं मम ॥ २९ ॥
रोषसम्बद्धपाथोधिर्लङ्काप्रासादरोधकः ।
रावणादिप्रभेत्ता च श्रीरामः शरणं मम ॥ ३० ॥
जानकी जीवनत्राता विभीषणसमृद्धिदः ।
पुष्पकारोहणासक्तः श्रीरामः शरणं मम ॥ ३१ ॥
राज्यसिंहासनारूढः कौशल्यानन्दवर्धनः ।
नामनिर्धूतनिरयः श्रीरामः शरणं मम ॥ ३२ ॥
यज्ञकर्ता यज्ञभोक्ता यज्ञभर्तामहेश्वरः ।
अयोध्यामुक्तिदः शास्ता श्रीरामः शरणं मम ॥ ३३ ॥
प्रपठेद्यः शुभं स्तोत्रं मुच्येत भवबन्धनात् ।
मन्त्रश्चाष्टाक्षरो देवः श्रीरामः शरणं मम ॥ ३४ ॥
प्रपन्नः सर्वधर्मेभ्योः मामेकं शरणं गतः ।
पठेन्निदं मम स्तोत्रं मुच्यते भव बन्धनात् ॥ ३५ ॥
इति बृहद्ब्रह्मसंहितान्तर्गत अष्टाक्षर श्रीराम मन्त्र स्तोत्रम् ।
इतर श्री राम स्तोत्राणि पश्यतु |
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

