Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं गङ्गायै नमः ।
ओं विष्णुपादसम्भूतायै नमः ।
ओं हरवल्लभायै नमः ।
ओं हिमाचलेन्द्रतनयायै नमः ।
ओं गिरिमण्डलगामिन्यै नमः ।
ओं तारकारातिजनन्यै नमः ।
ओं सगरात्मजतारकायै नमः ।
ओं सरस्वतीसमायुक्तायै नमः ।
ओं सुघोषायै नमः । ९
ओं सिन्धुगामिन्यै नमः ।
ओं भागीरथ्यै नमः ।
ओं भाग्यवत्यै नमः ।
ओं भगीरथरथानुगायै नमः ।
ओं त्रिविक्रमपदोद्भूतायै नमः ।
ओं त्रिलोकपथगामिन्यै नमः ।
ओं क्षीरशुभ्रायै नमः ।
ओं बहुक्षीरायै नमः ।
ओं क्षीरवृक्षसमाकुलायै नमः । १८
ओं त्रिलोचनजटावासायै नमः ।
ओं ऋणत्रयविमोचिन्यै नमः ।
ओं त्रिपुरारिशिरश्चूडायै नमः ।
ओं जाह्नव्यै नमः ।
ओं नरकभीतिहृते नमः ।
ओं अव्ययायै नमः ।
ओं नयनानन्ददायिन्यै नमः ।
ओं नगपुत्रिकायै नमः ।
ओं निरञ्जनायै नमः । २७
ओं नित्यशुद्धायै नमः ।
ओं नीरजालिपरिष्कृतायै नमः ।
ओं सावित्र्यै नमः ।
ओं सलिलावासायै नमः ।
ओं सागराम्बुसमेधिन्यै नमः ।
ओं रम्यायै नमः ।
ओं बिन्दुसरसे नमः ।
ओं अव्यक्तायै नमः ।
ओं अव्यक्तरूपधृते नमः । ३६
ओं उमासपत्न्यै नमः ।
ओं शुभ्राङ्गायै नमः ।
ओं श्रीमत्यै नमः ।
ओं धवलाम्बरायै नमः ।
ओं आखण्डलवनवासायै नमः ।
ओं कण्ठेन्दुकृतशेखरायै नमः ।
ओं अमृताकारसलिलायै नमः ।
ओं लीलालिङ्गितपर्वतायै नमः ।
ओं विरिञ्चिकलशावासायै नमः । ४५
ओं त्रिवेण्यै नमः ।
ओं त्रिगुणात्मकायै नमः ।
ओं सङ्गताघौघशमन्यै नमः ।
ओं भीतिहर्त्रे नमः ।
ओं शङ्खदुन्दुभिनिस्वनायै नमः ।
ओं भाग्यदायिन्यै नमः ।
ओं नन्दिन्यै नमः ।
ओं शीघ्रगायै नमः ।
ओं सिद्धायै नमः । ५४
ओं शरण्यै नमः ।
ओं शशिशेखरायै नमः ।
ओं शाङ्कर्यै नमः ।
ओं शफरीपूर्णायै नमः ।
ओं भर्गमूर्धकृतालयायै नमः ।
ओं भवप्रियायै नमः ।
ओं सत्यसन्धप्रियायै नमः ।
ओं हंसस्वरूपिण्यै नमः ।
ओं भगीरथभृतायै नमः । ६३
ओं अनन्तायै नमः ।
ओं शरच्चन्द्रनिभाननायै नमः ।
ओं ओङ्काररूपिण्यै नमः ।
ओं अनलायै नमः ।
ओं क्रीडाकल्लोलकारिण्यै नमः ।
ओं स्वर्गसोपानशरण्यै नमः ।
ओं सर्वदेवस्वरूपिण्यै नमः ।
ओं अम्बःप्रदायै नमः ।
ओं दुःखहन्त्र्यै नमः । ७२
ओं शान्तिसन्तानकारिण्यै नमः ।
ओं दारिद्र्यहन्त्र्यै नमः ।
ओं शिवदायै नमः ।
ओं संसारविषनाशिन्यै नमः ।
ओं प्रयागनिलयायै नमः ।
ओं श्रीदायै नमः ।
ओं तापत्रयविमोचिन्यै नमः ।
ओं शरणागतदीनार्तपरित्राणायै नमः ।
ओं सुमुक्तिदायै नमः । ८१
ओं पापहन्त्र्यै नमः ।
ओं पावनाङ्गायै नमः ।
ओं परब्रह्मस्वरूपिण्यै नमः ।
ओं पूर्णायै नमः ।
ओं पुरातनायै नमः ।
ओं पुण्यायै नमः ।
ओं पुण्यदायै नमः ।
ओं पुण्यवाहिन्यै नमः ।
ओं पुलोमजार्चितायै नमः । ९०
ओं भूदायै नमः ।
ओं पूतत्रिभुवनायै नमः ।
ओं जयायै नमः ।
ओं जङ्गमायै नमः ।
ओं जङ्गमाधारायै नमः ।
ओं जलरूपायै नमः ।
ओं जगद्धात्र्यै नमः ।
ओं जगद्भूतायै नमः ।
ओं जनार्चितायै नमः । ९९
ओं जह्नुपुत्र्यै नमः ।
ओं जगन्मात्रे नमः ।
ओं जम्बूद्वीपविहारिण्यै नमः ।
ओं भवपत्न्यै नमः ।
ओं भीष्ममात्रे नमः ।
ओं सिक्तायै नमः ।
ओं रम्यरूपधृते नमः ।
ओं उमासहोदर्यै नमः ।
ओं अज्ञानतिमिरापहृते नमः । १०८
इति श्री गङ्गाष्टोत्तरशतनामावली ॥
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

