Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
उदयरविसहस्रद्योतितं रूक्षवीक्षं
प्रलय जलधिनादं कल्पकृद्वह्निवक्त्रम् ।
सुरपतिरिपुवक्षश्छेद रक्तोक्षिताङ्गं
प्रणतभयहरं तं नारसिंहं नमामि ॥
प्रलयरविकरालाकाररुक्चक्रवालं
विरलयदुरुरोचीरोचिताशान्तराल ।
प्रतिभयतमकोपात्युत्कटोच्चाट्टहासिन्
दह दह नरसिंहासह्यवीर्याहितं मे ॥ १ ॥
सरसरभसपादापातभाराभिराव
प्रचकितचलसप्तद्वन्द्वलोकस्तुतस्त्वम् ।
रिपुरुधिरनिषेकेणैव शोणाङ्घ्रिशालिन्
दह दह नरसिंहासह्यवीर्याहितं मे ॥ २ ॥
तव घनघनघोषो घोरमाघ्राय जङ्घा-
-परिघमलघुमूरुव्याजतेजोगिरिं च ।
घनविघटितमागाद्दैत्यजङ्घालसङ्घो
दह दह नरसिंहासह्यवीर्याहितं मे ॥ ३ ॥
कटकिकटकराजद्धाटकाग्र्यस्थलाभा
प्रकटपटतटित्ते सत्कटिस्थाऽतिपट्वी ।
कटुककटुकदुष्टाटोपदृष्टिप्रमुष्टौ
दह दह नरसिंहासह्यवीर्याहितं मे ॥ ४ ॥
प्रखरनखरवज्रोत्खातरूक्षादिवक्षः
शिखरिशिखररक्तैराक्तसन्दोहदेह ।
सुवलिभशुभकुक्षे भद्रगम्भीरनाभे
दह दह नरसिंहासह्यवीर्याहितं मे ॥ ५ ॥
स्फुरयति तव साक्षात्सैव नक्षत्रमाला
क्षपितदितिजवक्षोव्याप्तनक्षत्रमार्गम् ।
अरिदरधरजान्वासक्त हस्तद्वयाहो
दह दह नरसिंहासह्यवीर्याहितं मे ॥ ६ ॥
कटुविकटसटौघोद्घट्टनाद्भ्रष्टभूयो-
-घनपटलविशालाकाशलब्धावकाशम् ।
करपरिघविमर्दप्रोद्यमं ध्यायतस्ते
दह दह नरसिंहासह्यवीर्याहितं मे ॥ ७ ॥
हयलुठदलघिष्ठोत्कण्ठदष्टोष्ठविद्यु-
-त्सटशठकठिनोरः पीठभित्सुष्ठुनिष्ठाम् ।
पठति नु तव कण्ठाधिष्ठघोरान्त्रमाला
दह दह नरसिंहासह्यवीर्याहितं मे ॥ ८ ॥
हृतबहुमिहिराभासह्यसंहाररंहो
हुतवह बहुहेतिह्रेषिकानन्तहेति ।
अहितविहितमोहं संवहन् सैंहमास्यं
दह दह नरसिंहासह्यवीर्याहितं मे ॥ ९ ॥
गुरुगुरुगिरिराजत्कन्दरान्तर्गते वा
दिनमणिमणिशृङ्गे वन्तवह्निप्रदीप्ते ।
दधदतिकटुदंष्ट्रे भीषणोज्जिह्ववक्त्रे
दह दह नरसिंहासह्यवीर्याहितं मे ॥ १० ॥
अपरितविबुधाब्धिध्यानधैर्यं विदध्य-
-द्विविधविबुधधीश्रद्धापितेन्द्रारिनाशम् ।
निदधदतिकटाहोद्धट्टनेद्धाट्टहासं
दह दह नरसिंहासह्यवीर्याहितं मे ॥ ११ ॥
त्रिभुवनतृणमात्रत्राणतृष्णं तु नेत्र-
-त्रयमतिलघितार्चिर्विष्टपाविष्टपादम् ।
नवतररविरत्नं धारयन् रूक्षवीक्षं
दह दह नरसिंहासह्यवीर्याहितं मे ॥ १२ ॥
भ्रमदभिभवभूभृद्भूरिभूभारसद्भि-
-द्भिदभिनव विदभ्रूविभ्रमादभ्रशुभ्र ।
ऋभुभवभयभेत्तर्भासि भोभोविभाभि-
-र्दह दह नरसिंहासह्यवीर्याहितं मे ॥ १३ ॥
श्रवणखचितचञ्चत्कुण्डलोच्चण्डगण्ड
भ्रुकुटिकटुललाटश्रेष्ठनासारुणोष्ठ ।
वरद सुरद राजत्केशरोत्सारितारे
दह दह नरसिंहासह्यवीर्याहितं मे ॥ १४ ॥
प्रविकचकचराजद्रत्नकोटीरशालिन्
गलगतगलदुस्रोदाररत्नाङ्गदाढ्य ।
कनककटककाञ्चीशिञ्जिनीमुद्रिकावन्
दह दह नरसिंहासह्यवीर्याहितं मे ॥ १५ ॥
अरिदरमसिखेटौ बाणचापे गदां स-
-न्मुसलमपि कराभ्यामङ्कुशं पाशवर्यम् ।
करयुगल धृतान्त्रस्रग्विभिन्नारिवक्षो
दह दह नरसिंहासह्यवीर्याहितं मे ॥ १६ ॥
चट चट चट दूरं मोहय भ्रामयारीन्
कडि कडि कडि कामं ज्वालय स्फोटयस्व ।
जहि जहि जहि वेगं शात्रवं सानुबन्धं
दह दह नरसिंहासह्यवीर्याहितं मे ॥ १७ ॥
विधिभवविबुधेशभ्रामकाग्निस्फुलिङ्ग-
-प्रसविविकटदंष्ट्रोज्जिह्ववक्त्र त्रिनेत्र ।
कल कल कल कामं पाहि मां ते सुभक्तं
दह दह नरसिंहासह्यवीर्याहितं मे ॥ १८ ॥
कुरु कुरु करुणां तां साङ्कुरां दैत्यपोते
दिश दिश विशदां मे शाश्वतीं देव दृष्टिम् ।
जय जय जय मुर्तेऽनार्त जेतव्यपक्षं
दह दह नरसिंहासह्यवीर्याहितं मे ॥ १९ ॥
स्तुतिरियमहितघ्नी सेविता नारसिंही
तनुरिव परिशान्ता मालिनी साभितोलम् ।
तदखिलगुरुमाग्न्यश्रीदरूपा लसद्भिः
सुनियमनयकृत्यैः सद्गुणैर्नित्ययुक्ता ॥ २० ॥
लिकुचतिलकसूनुः सद्धितार्थानुसारी
नरहरिनुतिमेतां शत्रुसंहारहेतुम् ।
अकृत सकलपापध्वंसिनीं यः पठेत्तां
व्रजति नृहरिलोकं कामलोभाद्यसक्तः ॥ २१ ॥
इति श्रीमन्नारायणपण्डिताचार्य विरचिता श्री नरसिंह स्तुतिः ।
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

