Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
वन्दे वाङ्मनसातीतं निर्गुणं सगुणं गुरुम् ।
दत्तमात्रेयमानन्दकन्दं भक्तेष्टपूरकम् ॥ १ ॥
नमामि सततं दत्तमौदुम्बरनिवासिनम् ।
यतीन्द्ररूपं च सदा निजानन्दप्रबोधनम् ॥ २ ॥
कृष्णा यदग्रे भुवनेशानी विद्यानिधिस्तथा ।
औदुम्बराः कल्पवृक्षाः सर्वतः सुखदाः सदा ॥ ३ ॥
भक्तबृन्दान् दर्शनतः पुरुषार्थचतुष्टयम् ।
ददाति भगवान् भूमा सच्चिदानन्दविग्रहः ॥ ४ ॥
जागर्ति गुप्तरूपेण गोप्ता ध्यानसमाधितः ।
ब्रह्मबृन्दं ब्रह्मसुखं ददाति समदृष्टितः ॥ ५ ॥
कृष्णा तृष्णाहरा यत्र सुखदा भुवनेश्वरी ।
यत्र मोक्षदराड्दत्तपादुका तां नमाम्यहम् ॥ ६ ॥
पादुकारूपियतिराट् श्रीनृसिंहसरस्वती ।
राजते राजराजश्रीदत्तश्रीपादवल्लभः ॥ ७ ॥
नमामि गुरुमूर्ते तं तापत्रयहरं हरिम् ।
आनन्दमयमात्मानं नवभक्त्या सुखप्रदम् ॥ ८ ॥
करवीरस्थविदुषमूढपुत्रं विनिन्दितम् ।
छिन्नजिह्वं बुधं चक्रे तद्वन्मयि कृपां कुरु ॥ ९ ॥
इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं औदुम्बर पादुका स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.