Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
शिवेति द्वौवर्णौ परपद नयद्धंस गरुतौ
तटौ संसाराब्धेर्निजविषय बोधाङ्कुर दले ।
श्रुतेरन्तर्गोपायित पररहस्यौ हृदिचरौ
घरट्टग्रावाणौ भव विटपि बीजौघ दलने ॥ १ ॥
शिवेति द्वौवर्णौ जनन विजय स्तम्भ कलशौ
दुरन्तान्तर्ध्वान्त प्रमथन शुभाधान चतुरौ ।
महायात्राध्वस्य प्रमुख जनता कञ्चुकिवरौ
मरुज्घम्पायौतौ कृतफल नवाम्भोदमथने ॥ २ ॥
शिवेति द्वौवर्णौ शिवमवदतां चैव वसुधा-
-मुभाभ्यां वर्णाभ्यां रथरथिक यो राज्यकलनात् ।
ततः सर्वः शेषः परिकर इहात्यत्किमपि नो
क्व चाऽहं क्व त्वं ना क्व परमिदमूह्यं बुधगणैः ॥ ३ ॥
शिवेति द्वौवर्णौ विहपरसुखाधान चतुरौ
क्रमोच्चाराद्धातोर्विनिमयवशादर्थघटने ।
रहस्यार्थो ह्येषः प्रकटयति नाम्नि क्षितिरथं
प्रजानामानन्दं किमिति न विदुर्मूढधिषणाः ॥ ४ ॥
शिवेति द्वौवर्णौ यजुषितु चतुर्थ्येकवचनो
नमः पूर्वो मन्त्रः समजनिजनिध्वंस हतये ।
तथापि प्रज्ञान्धाः जननमृति नक्राहिजटिले
पतन्त्येतच्चित्रं भवजलधिपङ्के शिवशिव ॥ ५ ॥
शिवेति द्वौवर्णौ भजत भजदानन्दजनके
भुवो भर्ता भूत्वा स तु भवति मुक्तेरपि तथा ।
उभाभ्यां वर्णाभ्यामधिगमयतार्तं विनिमयात्
ववर्णो भूभारं दिशति हि शिकारः परपदम् ॥ ६ ॥
शिवेति द्वौवर्णौ द्विवचन कृत द्वन्द्वकलना-
-द्ब्रुवन्तौ गूढार्थं भगवदनुबन्धान्वित धियः ।
न कश्चिन्मन्त्रश्च प्रथयति तदर्थानुगमनं
ततोऽयं सर्वासु श्रुतिषु जयघण्टा विजयते ॥ ७ ॥
शिवेति द्वौवर्णौ प्रथममभिधायानुगुणतः
अथो मे सन्धानाद्गतिरिति च सन्धान परथ ।
न कालो बध्नाति त्यजति ननु तत्काल इह वः
किमर्थं संसारे पतथ यतथेमं मनुवरम् ॥ ८ ॥
शिवेति द्वौवर्णौ चरमपद विश्वस्वरयुता
वहं शब्दोच्चाराद्भवति खलु वर्णत्रयमनुः ।
इमं प्राणायामैः पठथ हठयोगादिभिरलं
भवेदात्मेशैक्यं करबदरतुल्यं बुधवराः ॥ ९ ॥
शिवेति द्वौवर्णौ मम कनकरत्नायुषकथा
सुधाभोगाभोगामनुजपतपोध्यानविधयः ।
प्रथा बोधस्मृतिरतिगति प्राप्तिनिधयः
भवेतां प्रारब्ध प्रमथन शुभाधान चतुरौ ॥ १० ॥
शिवेति द्वौवर्णौ प्रति सरधरौ मुक्तिजनने
जनुर्लक्षाकोटि प्रमथन परा नित्यसदृशौ ।
कियन्तो विस्रस्ता जगति जनका मज्जननतः
स्मृतिं जज्ञे चित्तं शिवशिव कदाप्यस्तुव जनुः ॥ ११ ॥
शिवेति द्वौवर्णौ विहजनुषि लब्धौकिलमुया
पुरा गङ्गा स्नाता ननु किमु कृतं चाध्वरशतम् ।
जडस्यैवं किं स्याज्जनककृतमाद्यं खलु तपः
कुमारो मे स्यादित्यनुमितमिदं तद्धि परमम् ॥ १२ ॥
शिवेति द्वौवर्णौ शिवशिव कदा नो पठितवान्
पुरा नो चेत् किंस्वित् जठर पिठरी संस्थितिरियम् ।
क्व शम्भोर्नामोक्तिः क्व जननकथा चण्डकिरणे
तपत्यभ्रेऽदभ्र भ्रमणमिह किं स्याद्धि तमसः ॥ १३ ॥
शिवेति द्वौवर्णौ निरत दुरित ध्वंसनपरौ
अयत्नाद्यस्यास्तां जगति सकृदास्यान्तरगतौ ।
न तस्याप्याशास्यः सुरकुलधुरीणस्य निलयः
न धातुस्तस्यासीत्पितुरपि स सर्वस्य जनकः ॥ १४ ॥
शिवेति द्वौवर्णौ जगपति समवायस्तदपरं
निमित्तं वर्णानां श्रुतिपथ रहस्यं निगदितम् ।
न चेदित्थं सृष्टौ परिकर इहान्योस्तियदिकः
शिवे सर्वाद्वैते न किमपि च वस्तुप्रथयति ॥ १५ ॥
शिवेति द्वौवर्णौ वचसि मनसि ध्वस्त दुरितौ
प्रहृत्यान्तर्ध्वान्तं मिहिर शशिनोः शक्तिमघनाम् ।
प्रहस्य व्याख्यातस्तदुचित तमोभेदनपदे
समासे नो षष्ठी विकसति तृतीयैव सुकरा ॥ १६ ॥
शिवेति द्वौवर्णौ भुवन भवजाताण्डघटना
पटिष्ठे चोर्ध्वाथः स्फुटपटुतरे खर्परयुगे ।
शिवोलिङ्गं सर्वं तदुदरगतं स्याद्धि निगमः
तथावादी सत्यं पदति खलु तत्केन भवति ॥ १७ ॥
शिवेति द्वौवर्णौ भज यज शिवार्धाङ्ग वपुषं
त्यजासन्तं मार्गं व्रजशिवपुरीं मुक्तिनिलयाम् ।
न चेदेतौ वरौ भजसि यज दैवास्यममुतः
त्यज श्रौतं मार्गं व्रज निरयमिच्छैव सुखदा ॥ १८ ॥
शिवेति द्वौवर्णौ पठति समहान् धातृविषये
पलायध्वं यूयं भवथ भयभीता यमभटाः ।
पतन्त्या संसार भ्रमण परिताप प्रमथन
प्रचण्डास्तस्याग्रे प्रमथपति वीक्षारसझराः ॥ १९ ॥
शिवेति द्वौवर्णौ मम विमल जन्मावनिरुहः
फले द्वे तत्रैकं जनयति रुचीः पायसमयीः ।
फलत्येकं सर्पिर्द्वयमपि मदग्रग्रसनतः
त्वरत्येकास्वादे नमति रुचितासीद्द्विकलने ॥ २० ॥
शिवेति द्वौवर्णौ पठसि हठयोगादिभिरलं
किमुद्दिश्यात्मानं व्यथयसि वृथा भ्रान्तिरफला ।
करस्थे श्रीखण्डे मृगयसि हि मुस्तां सिकतले
जडादेशः कां कां दिशति विपदं नो शिव शिव ॥ २१ ॥
शिवेति द्वौवर्णौ वद यदि शिवं वाञ्छति भवान्
न चेदेतन्नेव श्रुतिसमय सिद्धान्तमवदम् ।
विना हेतोः कार्यं न खलु पटतन्तून् घटमृदः
न जानीषे किं वा शिवविरहितो नाप्स्यति शिवम् ॥ २२ ॥
शिवेति द्वौवर्णौ परमशिव कारुण्यजलधे
स्थिरीकृत्य स्वान्ते मम विमलभावं कुरु सदा ।
चरेयं सर्वं ते निरुपम निरातङ्क महसां
ज्वलज्ज्वालाजाल ज्वलितमिदमासीज्जगदिति ॥ २३ ॥
शिवेति द्वौवर्णौ वद वद रसज्ञे बुधगणाः
भवन्तीं तन्नाम्नीमभिदधतु चैनं यदि न चेत् ।
न योगं रूढिं वा भजसि खलु डित्थादि तुलना
भवेद्दैवीशक्तिस्त्वयि विफलिता स्याद्धिचिनुहि ॥ २४ ॥
शिवेति द्वौवर्णौ जगति खलु नेत्रद्वयमिदं
बहिश्चक्षुर्द्वन्द्वं न हि दिशति वस्तु व्यवहितम् ।
इदं बाह्याभ्यन्तः स्फुट विमल विज्ञान विभवं
गरीयस्त्वोच्चाराद्दिशति खलु नेत्रं समधिकम् ॥ २५ ॥
शिवेति द्वौवर्णौ वदनसदने यस्य महतः
तदीयं पादाब्जं रघुपति पदाब्जं प्रहसति ।
न तच्चित्रं तस्मिन् परम पुरुषार्थं प्रदरजो
व्रजालाने मौनेर्दिशति किल संसारपतनम् ॥ २६ ॥
शिवेति द्वौवर्णौ सकृथवशमुच्चारण बलात्
दिशेतां साम्राज्यं पुरमथन ते मुक्तिनिलयम् ।
न चेत्तस्यैवान्तः किमिव निवसेदान्तरगुहा-
-विहारेलोलः सन्निदमुदवहन्मे दृढपदम् ॥ २७ ॥
शिवेति द्वौवर्णौ क्षितिजलशिखिस्पर्शनवियत्
विवस्वच्छीतांशु प्रथमपुरुषैरष्टभिरिदम् ।
ततं विश्वं पश्चाद्वदति इति मत्वा सुखमहो
नरः प्रोज्झन् सर्वं किमिति न पिबेत्तन्मथुरसम् ॥ २८ ॥
शिवेति द्वौवर्णौ प्रकटित निजद्वन्द्वविधया
जगन्मातापित्रोर्मिधुनमदधातां श्रुतिपथे ।
जनास्तस्माद्यूयं तरत चरतावश्यमवनौ
पितृभ्यां नैवान्यत् परमपद सम्प्राप्ति विभवे ॥ २९ ॥
शिवेति द्वौवर्णौ रसिक रसना रङ्गचतुरौ
मनोधर्माधर्माभ्यसन गजकण्ठीरव शिशू ।
वपुः कार्याकार्य व्यसन हरिण व्याघ्रकलभौ
विनोदं तन्वाते किमिह मम कालापनयने ॥ ३० ॥
शिवेति द्वौवर्णौ जगति वशधातु प्रकटिता
विति प्रोचुः केचिद्ध्रुवमिति तदीयास्त्वचतुराः ।
शिवात्सूत्रोद्धारस्तदनुखलु धात्वर्थ विवृतिः
कथं पौर्वापर्यं वदत विबुधाः संशयमिदम् ॥ ३१ ॥
शिवेति द्वौवर्णौ गुरुमुखत येष्यन्नहरहः
जपिष्यत्याशास्यं न खलु तदयं पूर्णहृदयः ।
इति प्राचीनास्ते शिवपदमुपेत्य स्थितिमिताः
किमुद्दिश्याजापीस्त्वमिह शिव एवासि भगवान् ॥ ३२ ॥
शिवेति द्वौवर्णौ मनुरयमभिन्न स्वरहलां
विभेदाश्चत्वारः फलित पुरुषार्थः श्रुतिमताः ।
नचैकस्मिन्मन्त्रे सकलपुरुषार्थ प्रतिगतिः
किमर्थं भ्रान्त्यान्यन्मनु धिषणया बिभ्रथ धुरम् ॥ ३३ ॥
शिवेति द्वौवर्णौ मधुरिम गरिम्णा मधुरसे
पयःपूरे कुत्सां न परमपरं किं जनयताम् ।
जिहासन्नाहारे सुरपुरि सदा गाङ्ग सलिलं
पिबन् को वा लिप्सां भजति सरसः पल्वलजले ॥ ३४ ॥
शिवेति द्वौवर्णौ परमपद मां पाहि पदयो-
-र्मिलित्वाधावन्ते युगमभव दष्टाक्षरमनुः ।
सकृत्तं यः कोवा पठति तदधीनो गिरिधनुः
परः सर्वाद्वैत प्रथित निजसाम्राज्यविभवैः ॥ ३५ ॥
शिवेति द्वौवर्णौ मम वपुषि सर्वाङ्ग कवचौ
परं सव्यासव्य प्रसरण पटिष्ठाम्बक वरौ ।
उभावन्तर्बाह्याहित मथनकोदण्डतिलकौ
भृशं स्यात्तां मोक्षश्रियमवसरे दातु मुदितौ ॥ ३६ ॥
शिवपदादधिको न परो मनुः
शिवपदादधिका न परा गतिः ।
शिवपदादधिकं न परं पदं
शिवपदादधिकं न हि शासनम् ॥ ३७ ॥
शिवस्त्राता शिवोदाता शिवो माता शिवः पिता ।
शिव एव हि मे सर्वं शिवादन्यं न वेद्म्यहम् ॥ ३८ ॥
शिवपदमणिमालां ये तु कैवल्यमूलां
दधति पठनमात्राद्द्राक्छिवाधीन चित्ताः ।
भवति खलु भवानी भर्गयो राजधानी
प्रमथ विहृतिवाटी भानुभूतेश्च पेटी ॥ ३९ ॥
शिवलिङ्गमुमैवाङ्ग मनया सहितस्तथा ।
तयोः सम्बन्ध इत्येवं पदत्रयमुपास्महे ॥ ४० ॥
इति श्रीशङ्कराचार्यकृत शिवपदमणिमाला ।
इतर श्री शिव स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

