Shiva Pada Mani Mala – शिवपदमणिमाला


शिवेति द्वौवर्णौ परपद नयद्धंस गरुतौ
तटौ संसाराब्धेर्निजविषय बोधाङ्कुर दले ।
श्रुतेरन्तर्गोपायित पररहस्यौ हृदिचरौ
घरट्‍टग्रावाणौ भव विटपि बीजौघ दलने ॥ १ ॥

शिवेति द्वौवर्णौ जनन विजय स्तम्भ कलशौ
दुरन्तान्तर्ध्वान्त प्रमथन शुभाधान चतुरौ ।
महायात्राध्वस्य प्रमुख जनता कञ्चुकिवरौ
मरुज्घम्पायौतौ कृतफल नवाम्भोदमथने ॥ २ ॥

शिवेति द्वौवर्णौ शिवमवदतां चैव वसुधा-
-मुभाभ्यां वर्णाभ्यां रथरथिक यो राज्यकलनात् ।
ततः सर्वः शेषः परिकर इहात्यत्किमपि नो
क्व चाऽहं क्व त्वं ना क्व परमिदमूह्यं बुधगणैः ॥ ३ ॥

शिवेति द्वौवर्णौ विहपरसुखाधान चतुरौ
क्रमोच्चाराद्धातोर्विनिमयवशादर्थघटने ।
रहस्यार्थो ह्येषः प्रकटयति नाम्नि क्षितिरथं
प्रजानामानन्दं किमिति न विदुर्मूढधिषणाः ॥ ४ ॥

शिवेति द्वौवर्णौ यजुषितु चतुर्थ्येकवचनो
नमः पूर्वो मन्त्रः समजनिजनिध्वंस हतये ।
तथापि प्रज्ञान्धाः जननमृति नक्राहिजटिले
पतन्त्येतच्चित्रं भवजलधिपङ्के शिवशिव ॥ ५ ॥

शिवेति द्वौवर्णौ भजत भजदानन्दजनके
भुवो भर्ता भूत्वा स तु भवति मुक्तेरपि तथा ।
उभाभ्यां वर्णाभ्यामधिगमयतार्तं विनिमयात्
ववर्णो भूभारं दिशति हि शिकारः परपदम् ॥ ६ ॥

शिवेति द्वौवर्णौ द्विवचन कृत द्वन्द्वकलना-
-द्ब्रुवन्तौ गूढार्थं भगवदनुबन्धान्वित धियः ।
न कश्चिन्मन्त्रश्च प्रथयति तदर्थानुगमनं
ततोऽयं सर्वासु श्रुतिषु जयघण्टा विजयते ॥ ७ ॥

शिवेति द्वौवर्णौ प्रथममभिधायानुगुणतः
अथो मे सन्धानाद्गतिरिति च सन्धान परथ ।
न कालो बध्नाति त्यजति ननु तत्काल इह वः
किमर्थं संसारे पतथ यतथेमं मनुवरम् ॥ ८ ॥

शिवेति द्वौवर्णौ चरमपद विश्वस्वरयुता
वहं शब्दोच्चाराद्भवति खलु वर्णत्रयमनुः ।
इमं प्राणायामैः पठथ हठयोगादिभिरलं
भवेदात्मेशैक्यं करबदरतुल्यं बुधवराः ॥ ९ ॥

शिवेति द्वौवर्णौ मम कनकरत्नायुषकथा
सुधाभोगाभोगामनुजपतपोध्यानविधयः ।
प्रथा बोधस्मृतिरतिगति प्राप्तिनिधयः
भवेतां प्रारब्ध प्रमथन शुभाधान चतुरौ ॥ १० ॥

शिवेति द्वौवर्णौ प्रति सरधरौ मुक्तिजनने
जनुर्लक्षाकोटि प्रमथन परा नित्यसदृशौ ।
कियन्तो विस्रस्ता जगति जनका मज्जननतः
स्मृतिं जज्ञे चित्तं शिवशिव कदाप्यस्तुव जनुः ॥ ११ ॥

शिवेति द्वौवर्णौ विहजनुषि लब्धौकिलमुया
पुरा गङ्गा स्नाता ननु किमु कृतं चाध्वरशतम् ।
जडस्यैवं किं स्याज्जनककृतमाद्यं खलु तपः
कुमारो मे स्यादित्यनुमितमिदं तद्धि परमम् ॥ १२ ॥

शिवेति द्वौवर्णौ शिवशिव कदा नो पठितवान्
पुरा नो चेत् किंस्वित् जठर पिठरी संस्थितिरियम् ।
क्व शम्भोर्नामोक्तिः क्व जननकथा चण्डकिरणे
तपत्यभ्रेऽदभ्र भ्रमणमिह किं स्याद्धि तमसः ॥ १३ ॥

शिवेति द्वौवर्णौ निरत दुरित ध्वंसनपरौ
अयत्नाद्यस्यास्तां जगति सकृदास्यान्तरगतौ ।
न तस्याप्याशास्यः सुरकुलधुरीणस्य निलयः
न धातुस्तस्यासीत्पितुरपि स सर्वस्य जनकः ॥ १४ ॥

शिवेति द्वौवर्णौ जगपति समवायस्तदपरं
निमित्तं वर्णानां श्रुतिपथ रहस्यं निगदितम् ।
न चेदित्थं सृष्टौ परिकर इहान्योस्तियदिकः
शिवे सर्वाद्वैते न किमपि च वस्तुप्रथयति ॥ १५ ॥

शिवेति द्वौवर्णौ वचसि मनसि ध्वस्त दुरितौ
प्रहृत्यान्तर्ध्वान्तं मिहिर शशिनोः शक्तिमघनाम् ।
प्रहस्य व्याख्यातस्तदुचित तमोभेदनपदे
समासे नो षष्ठी विकसति तृतीयैव सुकरा ॥ १६ ॥

शिवेति द्वौवर्णौ भुवन भवजाताण्डघटना
पटिष्ठे चोर्ध्वाथः स्फुटपटुतरे खर्परयुगे ।
शिवोलिङ्गं सर्वं तदुदरगतं स्याद्धि निगमः
तथावादी सत्यं पदति खलु तत्केन भवति ॥ १७ ॥

शिवेति द्वौवर्णौ भज यज शिवार्धाङ्ग वपुषं
त्यजासन्तं मार्गं व्रजशिवपुरीं मुक्तिनिलयाम् ।
न चेदेतौ वरौ भजसि यज दैवास्यममुतः
त्यज श्रौतं मार्गं व्रज निरयमिच्छैव सुखदा ॥ १८ ॥

शिवेति द्वौवर्णौ पठति समहान् धातृविषये
पलायध्वं यूयं भवथ भयभीता यमभटाः ।
पतन्त्या संसार भ्रमण परिताप प्रमथन
प्रचण्डास्तस्याग्रे प्रमथपति वीक्षारसझराः ॥ १९ ॥

शिवेति द्वौवर्णौ मम विमल जन्मावनिरुहः
फले द्वे तत्रैकं जनयति रुचीः पायसमयीः ।
फलत्येकं सर्पिर्द्वयमपि मदग्रग्रसनतः
त्वरत्येकास्वादे नमति रुचितासीद्द्विकलने ॥ २० ॥

शिवेति द्वौवर्णौ पठसि हठयोगादिभिरलं
किमुद्दिश्यात्मानं व्यथयसि वृथा भ्रान्तिरफला ।
करस्थे श्रीखण्डे मृगयसि हि मुस्तां सिकतले
जडादेशः कां कां दिशति विपदं नो शिव शिव ॥ २१ ॥

शिवेति द्वौवर्णौ वद यदि शिवं वाञ्छति भवान्
न चेदेतन्नेव श्रुतिसमय सिद्धान्तमवदम् ।
विना हेतोः कार्यं न खलु पटतन्तून् घटमृदः
न जानीषे किं वा शिवविरहितो नाप्स्यति शिवम् ॥ २२ ॥

शिवेति द्वौवर्णौ परमशिव कारुण्यजलधे
स्थिरीकृत्य स्वान्ते मम विमलभावं कुरु सदा ।
चरेयं सर्वं ते निरुपम निरातङ्क महसां
ज्वलज्ज्वालाजाल ज्वलितमिदमासीज्जगदिति ॥ २३ ॥

शिवेति द्वौवर्णौ वद वद रसज्ञे बुधगणाः
भवन्तीं तन्नाम्नीमभिदधतु चैनं यदि न चेत् ।
न योगं रूढिं वा भजसि खलु डित्थादि तुलना
भवेद्दैवीशक्तिस्त्वयि विफलिता स्याद्धिचिनुहि ॥ २४ ॥

शिवेति द्वौवर्णौ जगति खलु नेत्रद्वयमिदं
बहिश्चक्षुर्द्वन्द्वं न हि दिशति वस्तु व्यवहितम् ।
इदं बाह्याभ्यन्तः स्फुट विमल विज्ञान विभवं
गरीयस्त्वोच्चाराद्दिशति खलु नेत्रं समधिकम् ॥ २५ ॥

शिवेति द्वौवर्णौ वदनसदने यस्य महतः
तदीयं पादाब्जं रघुपति पदाब्जं प्रहसति ।
न तच्चित्रं तस्मिन् परम पुरुषार्थं प्रदरजो
व्रजालाने मौनेर्दिशति किल संसारपतनम् ॥ २६ ॥

शिवेति द्वौवर्णौ सकृथवशमुच्चारण बलात्
दिशेतां साम्राज्यं पुरमथन ते मुक्तिनिलयम् ।
न चेत्तस्यैवान्तः किमिव निवसेदान्तरगुहा-
-विहारेलोलः सन्निदमुदवहन्मे दृढपदम् ॥ २७ ॥

शिवेति द्वौवर्णौ क्षितिजलशिखिस्पर्शनवियत्
विवस्वच्छीतांशु प्रथमपुरुषैरष्टभिरिदम् ।
ततं विश्वं पश्चाद्वदति इति मत्वा सुखमहो
नरः प्रोज्झन् सर्वं किमिति न पिबेत्तन्मथुरसम् ॥ २८ ॥

शिवेति द्वौवर्णौ प्रकटित निजद्वन्द्वविधया
जगन्मातापित्रोर्मिधुनमदधातां श्रुतिपथे ।
जनास्तस्माद्यूयं तरत चरतावश्यमवनौ
पितृभ्यां नैवान्यत् परमपद सम्प्राप्ति विभवे ॥ २९ ॥

शिवेति द्वौवर्णौ रसिक रसना रङ्गचतुरौ
मनोधर्माधर्माभ्यसन गजकण्ठीरव शिशू ।
वपुः कार्याकार्य व्यसन हरिण व्याघ्रकलभौ
विनोदं तन्वाते किमिह मम कालापनयने ॥ ३० ॥

शिवेति द्वौवर्णौ जगति वशधातु प्रकटिता
विति प्रोचुः केचिद्ध्रुवमिति तदीयास्त्वचतुराः ।
शिवात्सूत्रोद्धारस्तदनुखलु धात्वर्थ विवृतिः
कथं पौर्वापर्यं वदत विबुधाः संशयमिदम् ॥ ३१ ॥

शिवेति द्वौवर्णौ गुरुमुखत येष्यन्नहरहः
जपिष्यत्याशास्यं न खलु तदयं पूर्णहृदयः ।
इति प्राचीनास्ते शिवपदमुपेत्य स्थितिमिताः
किमुद्दिश्याजापीस्त्वमिह शिव एवासि भगवान् ॥ ३२ ॥

शिवेति द्वौवर्णौ मनुरयमभिन्न स्वरहलां
विभेदाश्चत्वारः फलित पुरुषार्थः श्रुतिमताः ।
नचैकस्मिन्मन्त्रे सकलपुरुषार्थ प्रतिगतिः
किमर्थं भ्रान्त्यान्यन्मनु धिषणया बिभ्रथ धुरम् ॥ ३३ ॥

शिवेति द्वौवर्णौ मधुरिम गरिम्णा मधुरसे
पयःपूरे कुत्सां न परमपरं किं जनयताम् ।
जिहासन्नाहारे सुरपुरि सदा गाङ्ग सलिलं
पिबन् को वा लिप्सां भजति सरसः पल्वलजले ॥ ३४ ॥

शिवेति द्वौवर्णौ परमपद मां पाहि पदयो-
-र्मिलित्वाधावन्ते युगमभव दष्टाक्षरमनुः ।
सकृत्तं यः कोवा पठति तदधीनो गिरिधनुः
परः सर्वाद्वैत प्रथित निजसाम्राज्यविभवैः ॥ ३५ ॥

शिवेति द्वौवर्णौ मम वपुषि सर्वाङ्ग कवचौ
परं सव्यासव्य प्रसरण पटिष्ठाम्बक वरौ ।
उभावन्तर्बाह्याहित मथनकोदण्डतिलकौ
भृशं स्यात्तां मोक्षश्रियमवसरे दातु मुदितौ ॥ ३६ ॥

शिवपदादधिको न परो मनुः
शिवपदादधिका न परा गतिः ।
शिवपदादधिकं न परं पदं
शिवपदादधिकं न हि शासनम् ॥ ३७ ॥

शिवस्त्राता शिवोदाता शिवो माता शिवः पिता ।
शिव एव हि मे सर्वं शिवादन्यं न वेद्म्यहम् ॥ ३८ ॥

शिवपदमणिमालां ये तु कैवल्यमूलां
दधति पठनमात्राद्द्राक्छिवाधीन चित्ताः ।
भवति खलु भवानी भर्गयो राजधानी
प्रमथ विहृतिवाटी भानुभूतेश्च पेटी ॥ ३९ ॥

शिवलिङ्गमुमैवाङ्ग मनया सहितस्तथा ।
तयोः सम्बन्ध इत्येवं पदत्रयमुपास्महे ॥ ४० ॥

इति श्रीशङ्कराचार्यकृत शिवपदमणिमाला ।


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed