Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नौमि ह्रीञ्जपमात्रतुष्टहृदयां श्रीचक्रराजालयां
भाग्यायत्तनिजाङ्घ्रिपङ्कजनतिस्तोत्रादिसंसेवनाम् ।
स्कन्देभास्यविभासिपार्श्वयुगलां लावण्यपाथोनिधिं
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १ ॥
नौमि ह्रीमत आदधाति सुगिरा वागीश्वरादीन्सुराँ-
-ल्लक्ष्मीन्द्रप्रमुखांश्च सत्वरमहो यत्पादनम्रो जनः ।
कामादींश्च वशीकरोति तरसायासं विना तां मुदा
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ २ ॥
नौमि श्रीसुतजीवनप्रदकटाक्षांशां शशाङ्कं रविं
कुर्वाणां निजकर्णभूषणपदादानेन तेजस्विनौ ।
चाम्पेयं निजनासिकासदृशतादानात्कृतार्थं तथा
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ३ ॥
नौमि श्रीविधिभामिनीकरलसत्सच्चामराभ्यां मुदा
सव्ये दक्षिणके च वीजनवतीमैन्द्र्यात्तसत्पादुकाम् ।
वेदैरात्तवपुर्भिरादरभरात्संस्तूयमानां सदा
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ४ ॥
नौमि श्रीमतिधैर्यवीर्यजननीं पादाम्बुजे जातुचि-
-न्नम्राणामपि शान्तिदान्तिसुगुणान्विश्राणयन्तीं जवात् ।
श्रीकामेशमनोम्बुजस्य दिवसेशानार्भकाणां ततिं
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ५ ॥
नौमि श्रीपतिपद्मयोनिगिरिजानाथैः समाराधितां
रम्भास्तम्भसमानसक्थियुगलां कुम्भाभिरामस्तनीम् ।
भामिन्यादिविषोपमेयविषयेष्वत्यन्तवैराग्यदां
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ६ ॥
नौमि व्याहृतिनिर्जितामरधुनीगर्वा भवन्त्यञ्जसा
मूका अप्यवशाद्यदङ्घ्रियुगलीसन्दर्शनाज्जातुचित् ।
हार्दध्वान्तनिवारणं विदधतीं कान्त्या नखानां हि तां
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ७ ॥
नौमि ब्रह्मविबोधिनीं नमुचिजिन्मुख्यामराणां तते-
-र्भण्डाद्याशरखण्डनैकनिपुणां कल्याणशैलालयाम् ।
फुल्लेन्दीवरगर्वहारिनयनां मल्लीसुमालङ्कृतां
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ८ ॥
नौमि प्रीतिमतां यदङ्घ्रियुगलार्चायां न बन्धो भवे-
-त्स्याच्चेद्विन्ध्यनगः प्लवेच्चिरमहो नाथे नदीनामिति ।
मूकः प्राह महाकविर्हि करुणापात्रं भवान्याः स्तुतिं
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ९ ॥
नौमि प्राप्तिकृते यदीयपदयोर्विप्राः समस्तेषणा-
-स्त्यक्त्वा सद्गुरुमभ्युपेत्य निगमान्तार्थं तदास्याम्बुजात् ।
श्रुत्वा तं प्रविचिन्त्य युक्तिभिरतो ध्यायन्ति तां सादरं
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १० ॥
नौमि प्राणनिरोधसज्जनसमासङ्गात्मविद्यामुखै-
-राचार्याननपङ्कजप्रगलितैश्चेतो विजित्याशु याम् ।
आधारादिसरोरुहेषु सुखतो ध्यायन्ति तां सर्वदा
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ११ ॥
नौमि न्यायमुखेषु शास्त्रनिवहेष्वत्यन्तपाण्डित्यदां
वेदान्तेष्वपि निश्चलामलधियं संसारबन्धापहाम् ।
दास्यन्तीं दयया प्रणम्रविततेः कामारिवामाङ्कगां
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १२ ॥
नौमि त्वां शुचिसूर्यचन्द्रनयनां ब्रह्माम्बुजाक्षागजे-
-ड्रूपाणि प्रतिगृह्य सर्वजगतां रक्षां मुदा सर्वदा ।
कुर्वन्तीं गिरिसार्वभौमतनयां क्षिप्रं प्रणम्रेष्टदां
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १३ ॥
नौमि त्वां शरदिन्दुसोदरमुखीं देहप्रभानिर्जित-
-प्रोद्यद्वासरनाथसन्ततिमघाम्भोराशिकुम्भोद्भवम् ।
पञ्चप्रेतमये सदा स्थितिमतीं दिव्ये मृगेन्द्रासने
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १४ ॥
नौमि त्वामनपेक्षकारणकृपारूपेति कीर्तिं गतां
नौकां संसृतिनीरधेस्तु सुदृढां प्रज्ञानमात्रात्मिकाम् ।
कालाम्भोदसमानकेशनिचयां कालाहितप्रेयसीं
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १५ ॥
नौमि त्वां गणपः शिवो हरिरुमेत्याद्यैर्वचोभिर्जना-
-स्तत्तन्मूर्तिरता वदन्ति परमप्रेम्णा जगत्यां तु याम् ।
तां सर्वाशयसंस्थितां सकलदां कारुण्यवारान्निधिं
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १६ ॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्री राजराजेश्वरी षोडशी ।
इतर श्री ललिता स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

