Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीपार्वत्युवाच ।
देवदेव महादेव शङ्कर प्राणवल्लभ ।
कवचं श्रोतुमिच्छामि बालाया वद मे प्रभो ॥ १ ॥
श्रीमहेश्वर उवाच ।
श्रीबालाकवचं देवि महाप्राणाधिकं परम् ।
वक्ष्यामि सावधाना त्वं शृणुष्वावहिता प्रिये ॥ २ ॥
अथ ध्यानम् ।
अरुणकिरणजालैः रञ्जिताशावकाशा
विधृतजपवटीका पुस्तकाभीतिहस्ता ।
इतरकरवराढ्या फुल्लकह्लारसंस्था
निवसतु हृदि बाला नित्यकल्याणशीला ॥
अथ कवचम् ।
वाग्भवः पातु शिरसि कामराजस्तथा हृदि ।
शक्तिबीजं सदा पातु नाभौ गुह्ये च पादयोः ॥ १ ॥
ऐं क्लीं सौः वदने पातु बाला मां सर्वसिद्धये ।
हसकलह्रीं सौः पातु स्कन्धे भैरवी कण्ठदेशतः ॥ २ ॥
सुन्दरी नाभिदेशेऽव्याच्चर्चे कामकला सदा ।
भ्रूनासयोरन्तराले महात्रिपुरसुन्दरी ॥ ३ ॥
ललाटे सुभगा पातु भगा मां कण्ठदेशतः ।
भगोदया तु हृदये उदरे भगसर्पिणी ॥ ४ ॥
भगमाला नाभिदेशे लिङ्गे पातु मनोभवा ।
गुह्ये पातु महावीरा राजराजेश्वरी शिवा ॥ ५ ॥
चैतन्यरूपिणी पातु पादयोर्जगदम्बिका ।
नारायणी सर्वगात्रे सर्वकार्य शुभङ्करी ॥ ६ ॥
ब्रह्माणी पातु मां पूर्वे दक्षिणे वैष्णवी तथा ।
पश्चिमे पातु वाराही ह्युत्तरे तु महेश्वरी ॥ ७ ॥
आग्नेय्यां पातु कौमारी महालक्ष्मीश्च निरृतौ ।
वायव्यां पातु चामुण्डा चेन्द्राणी पातु चैशके ॥ ८ ॥
जले पातु महामाया पृथिव्यां सर्वमङ्गला ।
आकाशे पातु वरदा सर्वतो भुवनेश्वरी ॥ ९ ॥
इदं तु कवचं नाम देवानामपि दुर्लभम् ।
पठेत्प्रातः समुत्थाय शुचिः प्रयतमानसः ॥ १० ॥
नामयो व्याधयस्तस्य न भयं च क्वचिद्भवेत् ।
न च मारीभयं तस्य पातकानां भयं तथा ॥ ११ ॥
न दारिद्र्यवशं गच्छेत्तिष्ठेन्मृत्युवशे न च ।
गच्छेच्छिवपुरं देवि सत्यं सत्यं वदाम्यहम् ॥ १२ ॥
यदिदं कवचं ज्ञात्वा श्रीबालां यो जपेच्छिवे ।
स प्राप्नोति फलं सर्वं शिवसायुज्यसम्भवम् ॥ १३ ॥
इति श्रीरुद्रयामले श्री बाला कवचम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.