Sri Bala Tripurasundari Triyakshari Mantra – श्री बालात्रिपुरसुन्दरी त्र्यक्षरी मन्त्रः


(शापोद्धारः – ओं ऐं ऐं सौः, क्लीं क्लीं ऐं, सौः सौः क्लीम् । इति शतवारं जपेत् ।)

अस्य श्रीबालात्रिपुरसुन्दरी महामन्त्रस्य दक्षिणामूर्तिः ऋषिः (शिरसि), पङ्क्तिश्छन्दः (मुखे) श्रीबालात्रिपुरसुन्दरी देवता (हृदि), ऐं बीजं (गुह्ये), सौः शक्तिः (पादयोः), क्लीं कीलकं (नाभौ), श्रीबालात्रिपुरसुन्दरी प्रीत्यर्थे जपे विनियोगः ।

करन्यासः –
ऐं अङ्गुष्ठाभ्यां नमः ।
क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः ।
ऐं अनामिकाभ्यां नमः ।
क्लीं कनिष्ठिकाभ्यां नमः ।
सौः करतल करपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ऐं हृदयाय नमः ।
क्लीं शिरसे स्वाहा ।
सौः शिखायै वषट् ।
ऐं कवचाय हुम् ।
क्लीं नेत्रत्रयाय वौषट् ।
सौः अस्त्राय फट् ।
भूर्भुवस्सुवरों इति दिग्बन्धः ॥

ध्यानम् ।
अरुणकिरणजालैः रञ्जिताशावकाशा
विधृतजपवटीका पुस्तकाभीतिहस्ता ।
इतरकरवराढ्या फुल्लकल्हारसंस्था
निवसतु हृदि बाला नित्यकल्याणशीला ॥

लमित्यादि पञ्च पूजाः ।
लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।
हं आकाशात्मिकायै पुष्पाणि समर्पयामि ।
यं वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं अग्न्यात्मिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै अमृतोपहारं निवेदयामि ।

मूलमन्त्रः – ओं ऐं क्लीं सौः ।

उत्तर करन्यासः –
ऐं अङ्गुष्ठाभ्यां नमः ।
क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः ।
ऐं अनामिकाभ्यां नमः ।
क्लीं कनिष्ठिकाभ्यां नमः ।
सौः करतल करपृष्ठाभ्यां नमः ।

उत्तर हृदयादिन्यासः –
ऐं हृदयाय नमः ।
क्लीं शिरसे स्वाहा ।
सौः शिखायै वषट् ।
ऐं कवचाय हुम् ।
क्लीं नेत्रत्रयाय वौषट् ।
सौः अस्त्राय फट् ।
भूर्भुवस्सुवरों इति दिग्विमोकः ॥

ध्यानम् ।
अरुणकिरणजालैः रञ्जिताशावकाशा
विधृतजपवटीका पुस्तकाभीतिहस्ता ।
इतरकरवराढ्या फुल्लकल्हारसंस्था
निवसतु हृदि बाला नित्यकल्याणशीला ॥

लमित्यादि पञ्च पूजाः ।
लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।
हं आकाशात्मिकायै पुष्पाणि समर्पयामि ।
यं वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं अग्न्यात्मिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै अमृतोपहारं निवेदयामि ।

समर्पणम् –
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिरा ।


इतर श्री बाला स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed