Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ऐंकाररूपिणीं सत्यां ऐंकाराक्षरमालिनीम् ।
ऐंबीजरूपिणीं देवीं बालादेवीं नमाम्यहम् ॥ १ ॥
वाग्भवां वारुणीपीतां वाचासिद्धिप्रदां शिवाम् ।
बलिप्रियां वरालाढ्यां वन्दे बालां शुभप्रदाम् ॥ २ ॥
लाक्षारसनिभां त्र्यक्षां ललज्जिह्वां भवप्रियाम् ।
लम्बकेशीं लोकधात्रीं बालां द्रव्यप्रदां भजे ॥ ३ ॥
यैकारस्थां यज्ञरूपां यूं रूपां मन्त्ररूपिणीम् ।
युधिष्ठिरां महाबालां नमामि परमार्थदाम् ॥ ४ ॥
नमस्तेऽस्तु महाबालां नमस्ते शङ्करप्रियाम् ।
नमस्तेऽस्तु गुणातीतां नमस्तेऽस्तु नमो नमः ॥ ५ ॥
महामनीं मन्त्ररूपां मोक्षदां मुक्तकेशिनीम् ।
मांसांशी चन्द्रमौलिं च स्मरामि सततं शिवाम् ॥ ६ ॥
स्वयम्भुवां स्वधर्मस्थां स्वात्मबोधप्रकाशिकाम् ।
स्वर्णाभरणदीप्ताङ्गं बालां ज्ञानप्रदां भजे ॥ ७ ॥
हा हा हा शब्दनिरतां हास्यां हास्यप्रियां विभुम् ।
हुङ्काराद्दैत्यखण्डाख्यां श्रीबालां प्रणमाम्यहम् ॥ ८ ॥
इत्यष्टकं महापुण्यं बालायाः सिद्धिदायकम् ।
ये पठन्ति सदा भक्त्या गच्छन्ति परमां गतिम् ॥ ९ ॥
इति कुलचूडामणितन्त्रे श्रीबालामन्त्रगर्भाष्टकम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.