Sri Bala Manasa Puja Stotram – श्री बाला मानसपूजा स्तोत्रम्



उद्यद्भानुसहस्रकान्तिमरुणक्षौमाम्बरालङ्कृतां
गन्धालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्दधतीं त्रिणेत्रविलसद्वक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्नमकुटां वन्देऽरविन्दस्थिताम् ॥ १ ॥

एणधराश्मकृतोन्नतधिष्ण्यं
हेमविनिर्मितपादमनोज्ञम् ।
शोणशिलाफलकं च विशालं
देवि सुखासनमद्य ददामि ॥ २ ॥

ईशमनोहररूपविलासे
शीतलचन्दनकुङ्कुममिश्रम् ।
हृद्यसुवर्णघटे परिपूर्णं
पाद्यमिदं त्रिपुरेशि गृहाण ॥ ३ ॥

लब्धभवत्करुणोऽहमिदानीं
रक्तसुमाक्षतयुक्तमनर्घम् ।
रुक्मविनिर्मितपात्रविशेषे-
-ष्वर्घ्यमिदं त्रिपुरेशि गृहाण ॥ ४ ॥

ह्रीमिति मन्त्रजपेन सुगम्ये
हेमलतोज्ज्वलदिव्यशरीरे ।
योगिमनः समशीतजलेन
ह्याचमनं त्रिपुरेऽद्य विधेहि ॥ ५ ॥

हस्तलसत्कटकादि सुभूषाः
आदरतोऽम्ब वरोप्य निधाय ।
चन्दनवासितमन्त्रिततोयैः
स्नानमयि त्रिपुरेशि विधेहि ॥ ६ ॥

सञ्चितमम्ब मया ह्यतिमूल्यं
कुङ्कुमशोणमतीव मृदु त्वम् ।
शङ्करतुङ्गतराङ्कनिवासे
वस्त्रयुगं त्रिपुरे परिधेहि ॥ ७ ॥

कन्दलदंशुकिरीटमनर्घं
कङ्कणकुण्डलनूपुरहारम् ।
अङ्गदमङ्गुलिभूषणमम्ब
स्वीकुरु देवि पुराधिनिवासे ॥ ८ ॥

हस्तलसद्वरभीतिहमुद्रे
शस्ततरं मृगनाभिसमेतम् ।
सद्घनसारसुकुङ्कुममिश्रं
चन्दनपङ्कमिदं च गृहाण ॥ ९ ॥

लब्धविकासकदम्बकजाती-
-चम्पकपङ्कजकेतकयुक्तैः ।
पुष्यचयैर्मनसामुचितैस्त्वां
अम्ब पुरेशि भवानि भजामि ॥ १० ॥

ह्रीं‍पदशोभिमहामनुरूपे
धूरसि मन्त्रवरेण मनोज्ञम् ।
अष्टसुगन्धरजःकृतमाद्ये
धूपमिमं त्रिपुरेशि ददामि ॥ ११ ॥

सन्तमसापहमुज्ज्वलपात्रे
गव्यघृतैः परिवर्धितदेहम् ।
चम्पककुड्मलवृन्तसमानं
दीपगणं त्रिपुरेऽद्य गृहाण ॥ १२ ॥

कल्पितमद्य धियाऽमृतकल्पं
दुग्धसितायुतमन्नविशेषम् ।
माषविनिर्मितपूपसहस्रं
स्वीकुरु देवि निवेदनमाद्ये ॥ १३ ॥

लङ्घितकेतकवर्णविशेषैः
शोधितकोमलनागदलैश्च ।
मौक्तिकचूर्णयुतैः क्रमुकाद्यैः
पूर्णतराम्ब पुरस्तव पात्री ॥ १४ ॥

ह्रीं‍त्रयपूरितमन्त्रविशेषं
पञ्चदशीमपि षोडशरूपम् ।
सञ्चितपापहरं च जपित्वा
मन्त्रसुमाञ्जलिमम्ब ददामि ॥ १५ ॥

श्रीं‍पदपूर्णमहामनुरूपे
श्रीशिवकाममहेश्वरहृद्ये ।
श्रीगुहवन्दितपादपयोजे
बालवपुर्धरदेवि नमस्ते ॥ १६ ॥

इति श्री बाला मानस पूजा स्तोत्रम् ।


इतर श्री बाला स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed