Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
उद्यद्भानुसहस्रकान्तिमरुणक्षौमाम्बरालङ्कृतां
गन्धालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्दधतीं त्रिणेत्रविलसद्वक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्नमकुटां वन्देऽरविन्दस्थिताम् ॥ १ ॥
एणधराश्मकृतोन्नतधिष्ण्यं
हेमविनिर्मितपादमनोज्ञम् ।
शोणशिलाफलकं च विशालं
देवि सुखासनमद्य ददामि ॥ २ ॥
ईशमनोहररूपविलासे
शीतलचन्दनकुङ्कुममिश्रम् ।
हृद्यसुवर्णघटे परिपूर्णं
पाद्यमिदं त्रिपुरेशि गृहाण ॥ ३ ॥
लब्धभवत्करुणोऽहमिदानीं
रक्तसुमाक्षतयुक्तमनर्घम् ।
रुक्मविनिर्मितपात्रविशेषे-
-ष्वर्घ्यमिदं त्रिपुरेशि गृहाण ॥ ४ ॥
ह्रीमिति मन्त्रजपेन सुगम्ये
हेमलतोज्ज्वलदिव्यशरीरे ।
योगिमनः समशीतजलेन
ह्याचमनं त्रिपुरेऽद्य विधेहि ॥ ५ ॥
हस्तलसत्कटकादि सुभूषाः
आदरतोऽम्ब वरोप्य निधाय ।
चन्दनवासितमन्त्रिततोयैः
स्नानमयि त्रिपुरेशि विधेहि ॥ ६ ॥
सञ्चितमम्ब मया ह्यतिमूल्यं
कुङ्कुमशोणमतीव मृदु त्वम् ।
शङ्करतुङ्गतराङ्कनिवासे
वस्त्रयुगं त्रिपुरे परिधेहि ॥ ७ ॥
कन्दलदंशुकिरीटमनर्घं
कङ्कणकुण्डलनूपुरहारम् ।
अङ्गदमङ्गुलिभूषणमम्ब
स्वीकुरु देवि पुराधिनिवासे ॥ ८ ॥
हस्तलसद्वरभीतिहमुद्रे
शस्ततरं मृगनाभिसमेतम् ।
सद्घनसारसुकुङ्कुममिश्रं
चन्दनपङ्कमिदं च गृहाण ॥ ९ ॥
लब्धविकासकदम्बकजाती-
-चम्पकपङ्कजकेतकयुक्तैः ।
पुष्यचयैर्मनसामुचितैस्त्वां
अम्ब पुरेशि भवानि भजामि ॥ १० ॥
ह्रींपदशोभिमहामनुरूपे
धूरसि मन्त्रवरेण मनोज्ञम् ।
अष्टसुगन्धरजःकृतमाद्ये
धूपमिमं त्रिपुरेशि ददामि ॥ ११ ॥
सन्तमसापहमुज्ज्वलपात्रे
गव्यघृतैः परिवर्धितदेहम् ।
चम्पककुड्मलवृन्तसमानं
दीपगणं त्रिपुरेऽद्य गृहाण ॥ १२ ॥
कल्पितमद्य धियाऽमृतकल्पं
दुग्धसितायुतमन्नविशेषम् ।
माषविनिर्मितपूपसहस्रं
स्वीकुरु देवि निवेदनमाद्ये ॥ १३ ॥
लङ्घितकेतकवर्णविशेषैः
शोधितकोमलनागदलैश्च ।
मौक्तिकचूर्णयुतैः क्रमुकाद्यैः
पूर्णतराम्ब पुरस्तव पात्री ॥ १४ ॥
ह्रींत्रयपूरितमन्त्रविशेषं
पञ्चदशीमपि षोडशरूपम् ।
सञ्चितपापहरं च जपित्वा
मन्त्रसुमाञ्जलिमम्ब ददामि ॥ १५ ॥
श्रींपदपूर्णमहामनुरूपे
श्रीशिवकाममहेश्वरहृद्ये ।
श्रीगुहवन्दितपादपयोजे
बालवपुर्धरदेवि नमस्ते ॥ १६ ॥
इति श्री बाला मानस पूजा स्तोत्रम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.