Sri Narayana Hrudaya Stotram – श्री नारायण हृदय स्तोत्रम्



अस्य श्रीनारायण हृदय स्तोत्र मन्त्रस्य भार्गव ऋषिः, अनुष्टुप् छन्दः, श्रीलक्ष्मीनारायणो देवता, ओं बीजं, नमः शक्तिः, नारायणायेति कीलकं, श्रीलक्ष्मीनारायण प्रीत्यर्थे जपे विनियोगः ॥

करन्यासः –
नारायणः परं ज्योतिरिति अङ्गुष्ठाभ्यां नमः ।
नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः ।
नारायणः परो देव इति मध्यमाभ्यां नमः ।
नारायणः परं धामेति अनामिकाभ्यां नमः ।
नारायणः परो धर्म इति कनिष्ठिकाभ्यां नमः ।
विश्वं नारायण इति करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
नारायणः परं ज्योतिरिति हृदयाय नमः ।
नारायणः परं ब्रह्मेति शिरसे स्वाहा ।
नारायणः परो देव इति शिखायै वौषट् ।
नारायणः परं धामेति कवचाय हुम् ।
नारायणः परो धर्म इति नेत्राभ्यां वौषट् ।
विश्वं नारायण इति अस्त्राय फट् ।

ओं ऐन्द्र्यादिदशदिशं ओं नमः सुदर्शनाय सहस्राराय हुं फट् बध्नामि नमश्चक्राय स्वाहा । इति प्रतिदिशं योज्यम् ।

अथ ध्यानम् ।
उद्यदादित्यसङ्काशं पीतवासं चतुर्भुजम् ।
शङ्खचक्रगदापाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ॥ १ ॥

त्रैलोक्याधारचक्रं तदुपरि कमठं तत्र चानन्तभोगी
तन्मध्ये भूमिपद्माङ्कुशशिखरदलं कर्णिकाभूतमेरुम् ।
तत्रस्थं शान्तमूर्तिं मणिमयमकुटं कुण्डलोद्भासिताङ्गं
लक्ष्मीनारायणाख्यं सरसिजनयनं सन्ततं चिन्तयामि ॥ २ ॥

ओम् । नारायणः परं ज्योतिरात्मा नारायणः परः ।
नारायणः परं ब्रह्म नारायण नमोऽस्तु ते ॥ १ ॥

नारायणः परो देवो धाता नारायणः परः ।
नारायणः परो धाता नारायण नमोऽस्तु ते ॥ २ ॥

नारायणः परं धाम ध्यानम् नारायणः परः ।
नारायणः परो धर्मो नारायण नमोऽस्तु ते ॥ ३ ॥

नारायणः परो देवो विद्या नारायणः परः ।
विश्वं नारायणः साक्षान्नारायण नमोऽस्तु ते ॥ ४ ॥

नारायणाद्विधिर्जातो जातो नारायणाद्भवः ।
जातो नारायणादिन्द्रो नारायण नमोऽस्तु ते ॥ ५ ॥

रविर्नारायणस्तेजः चन्द्रो नारायणो महः ।
वह्निर्नारायणः साक्षान्नारायण नमोऽस्तु ते ॥ ६ ॥

नारायण उपास्यः स्याद्गुरुर्नारायणः परः ।
नारायणः परो बोधो नारायण नमोऽस्तु ते ॥ ७ ॥

नारायणः फलं मुख्यं सिद्धिर्नारायणः सुखम् ।
हरिर्नारायणः शुद्धिर्नारायण नमोऽस्तु ते ॥ ८ ॥

निगमावेदितानन्तकल्याणगुणवारिधे ।
नारायण नमस्तेऽस्तु नरकार्णवतारक ॥ ९ ॥

जन्ममृत्युजराव्याधिपारतन्त्र्यादिभिः सदा ।
दोषैरस्पृष्टरूपाय नारायण नमोऽस्तु ते ॥ १० ॥

वेदशास्त्रार्थविज्ञानसाध्यभक्त्येकगोचर ।
नारायण नमस्तेऽस्तु मामुद्धर भवार्णवात् ॥ ११ ॥

नित्यानन्द महोदार परात्पर जगत्पते ।
नारायण नमस्तेऽस्तु मोक्षसाम्राज्यदायिने ॥ १२ ॥

आब्रह्मस्तम्बपर्यन्तमखिलात्ममहाश्रय ।
सर्वभूतात्मभूतात्मन् नारायण नमोऽस्तु ते ॥ १३ ॥

पालिताशेषलोकाय पुण्यश्रवणकीर्तन ।
नारायण नमस्तेऽस्तु प्रलयोदकशायिने ॥ १४ ॥

निरस्त सर्वदोषाय भक्त्यादि गुणदायिने ।
नारायण नमस्तेऽस्तु त्वां विना न हि मे गतिः ॥ १५ ॥

धर्मार्थ काम मोक्षाख्य पुरुषार्थ प्रदायिने ।
नारायण नमस्तेऽस्तु पुनस्तेऽस्तु नमो नमः ॥ १६ ॥

– प्रार्थना –
नारायण त्वमेवासि दहराख्ये हृदि स्थितः ।
प्रेरिता प्रेर्यमाणानां त्वया प्रेरितमानसः ॥ १७ ॥

त्वदाज्ञां शिरसा कृत्वा भजामि जनपावनम् । [धृत्वा]
नानोपासनमार्गाणां भवकृद्भावबोधकः ॥ १८ ॥

भावार्थकृद्भवातीतो भव सौख्यप्रदो मम ।
त्वन्मायामोहितं विश्वं त्वयैव परिकल्पितम् ॥ १९ ॥

त्वदधिष्ठानमात्रेण सा वै सर्वार्थकारिणी ।
त्वमेव तां पुरस्कृत्य मम कामान् समर्थय ॥ २० ॥

न मे त्वदन्यस्त्रातास्ति त्वदन्यन्न हि दैवतम् ।
त्वदन्यं न हि जानामि पालकं पुण्यवर्धनम् ॥ २१ ॥

यावत्सांसारिको भावो मनःस्थो भावनात्मकः ।
तावत्सिद्धिर्भवेत् साध्या सर्वथा सर्वदा विभो ॥ २२ ॥

पापिनामहमेकाग्रो दयालूनां त्वमग्रणीः ।
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥ २३ ॥

त्वयाहं नैव सृष्टश्चेन्न स्यात्तव दयालुता ।
आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः ॥ २४ ॥

पापसङ्घपरिश्रान्तः पापात्मा पापरूपधृक् ।
त्वदन्यः कोऽत्र पापेभ्यस्त्रातास्ति जगतीतले ॥ २५ ॥

त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव सेव्यश्च गुरुस्त्वमेव
त्वमेव सर्वं मम देवदेव ॥ २६ ॥

– फलश्रुतिः –
प्रार्थना दशकं चैव मूलाष्टकमतः परम् ।
यः पठेच्छृणुयान्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥ २७ ॥

नारायणस्य हृदयं सर्वाभीष्टफलप्रदम् ।
लक्ष्मीहृदयकं स्तोत्रं यदि चेत्तद्विनाकृतम् ॥ २८ ॥

तत्सर्वं निष्फलं प्रोक्तं लक्ष्मीः क्रुध्यति सर्वदा ।
एतत् सङ्कलितं स्तोत्रं सर्वकामफलप्रदम् ॥ २९ ॥

जपेत् सङ्कलितं कृत्वा सर्वाभीष्टमवाप्नुयात् ।
नारायणस्य हृदयमादौ जप्त्वा ततः परम् ॥ ३० ॥

लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः ।
पुनर्नारायणं जप्त्वा पुनर्लक्ष्मीनुतिं जपेत् ॥ ३१ ॥

तद्वद्धोमादिकं कुर्यादेतत् सङ्कलितं शुभम् ।
एवं मध्ये द्विवारेण जपेत् सङ्कलितं तु तत् ॥ ३२ ॥

लक्ष्मीहृदयके स्तोत्रे सर्वमन्यत् प्रकाशितम् ।
सर्वान् कामानवाप्नोति आधिव्याधिभयं हरेत् ॥ ३३ ॥

गोप्यमेतत् सदा कुर्यान्न सर्वत्र प्रकाशयेत् ।
इति गुह्यतमं शास्त्रं प्राप्तं ब्रह्मादिभिः पुरा ॥ ३४ ॥

लक्ष्मीहृदयप्रोक्तेन विधिना साधयेत् सुधीः ।
तस्मात् सर्वप्रयत्नेन साधयेत् गोपयेत् सुधीः ॥ ३५ ॥

यत्रैतत् पुस्तकं तिष्ठेल्लक्ष्मीनारायणात्मकम् ।
भूतपैशाचवेताल भयं नैव तु सर्वदा ॥ ३६ ॥

भृगुवारे तथा रात्रौ पूजयेत् पुस्तकद्वयम् ।
सर्वथा सर्वदा स्तुत्यं गोपयेत् साधयेत् सुधीः ।
गोपनात् साधनाल्लोके धन्यो भवति तत्त्वतः ॥ ३७ ॥

इत्यथर्वरहस्ये उत्तरभागे श्री नारायण हृदयम् ॥


श्री लक्ष्मी हृदय स्तोत्रम् >>

इतर श्री विष्णु स्तोत्राणि पश्यतु |


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Sri Narayana Hrudaya Stotram – श्री नारायण हृदय स्तोत्रम्



  1. RECITAL PROCEDURE— First recite full narayana hrudayam; then full lakshmihrydayam; then AGAIN narayanahrudayam without fail. Recitation any number of times should be like this, alternating, with beginning and ending with narayana hrudayam. This is given in the stotram itself, and by practitioners.

Leave a Reply

error: Not allowed