Sri Lakshmi Hrudaya Stotram – श्री लक्ष्मी हृदय स्तोत्रम्


अस्य श्री महालक्ष्मीहृदयस्तोत्र महामन्त्रस्य भार्गव ऋषिः, अनुष्टुपादीनि नानाछन्दांसि, आद्यादि श्रीमहालक्ष्मीर्देवता, श्रीं बीजं, ह्रीं शक्तिः, ऐं कीलकं, आद्यादिमहालक्ष्मी प्रसादसिद्ध्यर्थं जपे विनियोगः ॥

ऋष्यादिन्यासः –
ओं भार्गवऋषये नमः शिरसि ।
ओं अनुष्टुपादिनानाछन्दोभ्यो नमो मुखे ।
ओं आद्यादिश्रीमहालक्ष्मी देवतायै नमो हृदये ।
ओं श्रीं बीजाय नमो गुह्ये ।
ओं ह्रीं शक्तये नमः पादयोः ।
ओं ऐं कीलकाय नमो नाभौ ।
ओं विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –
ओं श्रीं अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं तर्जनीभ्यां नमः ।
ओं ऐं मध्यमाभ्यां नमः ।
ओं श्रीं अनामिकाभ्यां नमः ।
ओं ह्रीं कनिष्ठिकाभ्यां नमः ।
ओं ऐं करतल करपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ओं श्रीं हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं ऐं शिखायै वषट् ।
ओं श्रीं कवचाय हुम् ।
ओं ह्रीं नेत्रत्रयाय वौषट् ।
ओं ऐं अस्त्राय फट् ।
ओं श्रीं ह्रीं ऐं इति दिग्बन्धः ।

अथ ध्यानम् ।
हस्तद्वयेन कमले धारयन्तीं स्वलीलया ।
हारनूपुरसम्युक्तां लक्ष्मीं देवीं विचिन्तये ॥

कौशेयपीतवसनामरविन्दनेत्रां
पद्मद्वयाभयवरोद्यतपद्महस्ताम् ।
उद्यच्छतार्कसदृशीं परमाङ्कसंस्थां
ध्यायेद्विधीशनतपादयुगां जनित्रीम् ॥

पीतवस्त्रां सुवर्णाङ्गीं पद्महस्तद्वायान्विताम् ।
लक्ष्मीं ध्यात्वेति मन्त्रेण स भवेत्पृथिवीपतिः ॥

मातुलुङ्गं गदां खेटं पाणौ पात्रं च बिभ्रती ।
नागं लिङ्गं च योनिं च बिभ्रतीं चैव मूर्धनि ॥

[ इति ध्यात्वा मानसोपचारैः सम्पूज्य ।
शङ्खचक्रगदाहस्ते शुभ्रवर्णे सुवासिनी ।
मम देहि वरं लक्ष्मीः सर्वसिद्धिप्रदायिनी ।
इति सम्प्रार्थ्य ओं श्रीं ह्रीं ऐं महालक्ष्म्यै कमलधारिण्यै सिंहवाहिन्यै स्वाहा इति मन्त्रं जप्त्वा पुनः पूर्ववद्धृदयादि षडङ्गन्यासं कृत्वा स्तोत्रं पठेत् । ]

स्तोत्रम् ।
वन्दे लक्ष्मीं परमशिवमयीं शुद्धजाम्बूनदाभां
तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलाङ्गीम् ।
बीजापूरं कनककलशं हेमपद्मं दधाना-
-माद्यां शक्तिं सकलजननीं विष्णुवामाङ्कसंस्थाम् ॥ १ ॥

श्रीमत्सौभाग्यजननीं स्तौमि लक्ष्मीं सनातनीम् ।
सर्वकामफलावाप्तिसाधनैकसुखावहाम् ॥ २ ॥

स्मरामि नित्यं देवेशि त्वया प्रेरितमानसः ।
त्वदाज्ञां शिरसा धृत्वा भजामि परमेश्वरीम् ॥ ३ ॥

समस्तसम्पत्सुखदां महाश्रियं
समस्तसौभाग्यकरीं महाश्रियम् ।
समस्तकल्याणकरीं महाश्रियं
भजाम्यहं ज्ञानकरीं महाश्रियम् ॥ ४ ॥

विज्ञानसम्पत्सुखदां सनातनीं
विचित्रवाग्भूतिकरीं मनोहराम् ।
अनन्तसंमोदसुखप्रदायिनीं
नमाम्यहं भूतिकरीं हरिप्रियाम् ॥ ५ ॥

समस्तभूतान्तरसंस्थिता त्वं
समस्तभोक्त्रीश्वरि विश्वरूपे ।
तन्नास्ति यत्त्वद्व्यतिरिक्तवस्तु
त्वत्पादपद्मं प्रणमाम्यहं श्रीः ॥ ६ ॥

दारिद्र्य दुःखौघतमोपहन्त्री
त्वत्पादपद्मं मयि सन्निधत्स्व ।
दीनार्तिविच्छेदनहेतुभूतैः
कृपाकटाक्षैरभिषिञ्च मां श्रीः ॥ ७ ॥

अम्ब प्रसीद करुणासुधयार्द्रदृष्ट्या
मां त्वत्कृपाद्रविणगेहमिमं कुरुष्व ।
आलोकय प्रणतहृद्गतशोकहन्त्री
त्वत्पादपद्मयुगलं प्रणमाम्यहं श्रीः ॥ ८ ॥

शान्त्यै नमोऽस्तु शरणागतरक्षणायै
कान्त्यै नमोऽस्तु कमनीयगुणाश्रयायै ।
क्षान्त्यै नमोऽस्तु दुरितक्षयकारणायै
दात्र्यै नमोऽस्तु धनधान्यसमृद्धिदायै ॥ ९ ॥

शक्त्यै नमोऽस्तु शशिशेखरसंस्तुतायै
रत्यै नमोऽस्तु रजनीकरसोदरायै ।
भक्त्यै नमोऽस्तु भवसागरतारकायै
मत्यै नमोऽस्तु मधुसूदनवल्लभायै ॥ १० ॥

लक्ष्म्यै नमोऽस्तु शुभलक्षणलक्षितायै
सिद्ध्यै नमोऽस्तु शिवसिद्धसुपूजितायै ।
धृत्यै नमोऽस्त्वमितदुर्गतिभञ्जनायै
गत्यै नमोऽस्तु वरसद्गतिदायिकायै ॥ ११ ॥

देव्यै नमोऽस्तु दिवि देवगणार्चितायै
भूत्यै नमोऽस्तु भुवनार्तिविनाशनायै ।
धात्र्यै नमोऽस्तु धरणीधरवल्लभायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ १२ ॥

सुतीव्रदारिद्र्यविदुःखहन्त्र्यै
नमोऽस्तु ते सर्वभयापहन्त्र्यै ।
श्रीविष्णुवक्षःस्थलसंस्थितायै
नमो नमः सर्वविभूतिदायै ॥ १३ ॥

जयतु जयतु लक्ष्मीर्लक्षणालङ्कृताङ्गी
जयतु जयतु पद्मा पद्मसद्माभिवन्द्या ।
जयतु जयतु विद्या विष्णुवामाङ्कसंस्था
जयतु जयतु सम्यक्सर्वसम्पत्करी श्रीः ॥ १४ ॥

जयतु जयतु देवी देवसङ्घाभिपूज्या
जयतु जयतु भद्रा भार्गवी भाग्यरूपा ।
जयतु जयतु नित्या निर्मलज्ञानवेद्या
जयतु जयतु सत्या सर्वभूतान्तरस्था ॥ १५ ॥

जयतु जयतु रम्या रत्नगर्भान्तरस्था
जयतु जयतु शुद्धा शुद्धजाम्बूनदाभा ।
जयतु जयतु कान्ता कान्तिमद्भासिताङ्गी
जयतु जयतु शान्ता शीघ्रमागच्छ सौम्ये ॥ १६ ॥

यस्याः कलायाः कमलोद्भवाद्या
रुद्राश्च शक्र प्रमुखाश्च देवाः ।
जीवन्ति सर्वेऽपि सशक्तयस्ते
प्रभुत्वमाप्ताः परमायुषस्ते ॥ १७ ॥

लिलेख निटिले विधिर्मम लिपिं विसृज्यान्तरं
त्वया विलिखितव्यमेतदिति तत्फलप्राप्तये ।
तदन्तरफलेस्फुटं कमलवासिनी श्रीरिमां
समर्पय समुद्रिकां सकलभाग्यसंसूचिकाम् ॥ १८ ॥

कलया ते यथा देवि जीवन्ति सचराचराः ।
तथा सम्पत्करे लक्ष्मि सर्वदा सम्प्रसीद मे ॥ १९ ॥

यथा विष्णुर्ध्रुवे नित्यं स्वकलां संन्यवेशयत् ।
तथैव स्वकलां लक्ष्मि मयि सम्यक् समर्पय ॥ २० ॥

सर्वसौख्यप्रदे देवि भक्तानामभयप्रदे ।
अचलां कुरु यत्नेन कलां मयि निवेशिताम् ॥ २१ ॥

मुदास्तां मत्फाले परमपदलक्ष्मीः स्फुटकला
सदा वैकुण्ठश्रीर्निवसतु कला मे नयनयोः ।
वसेत्सत्ये लोके मम वचसि लक्ष्मीर्वरकला
श्रियः श्वेतद्वीपे निवसतु कला मे स्वकरयोः ॥ २२ ॥

तावन्नित्यं ममाङ्गेषु क्षीराब्धौ श्रीकला वसेत् ।
सूर्याचन्द्रमसौ यावद्यावल्लक्ष्मीपतिः श्रियाः ॥ २३ ॥

सर्वमङ्गलसम्पूर्णा सर्वैश्वर्यसमन्विता ।
आद्यादि श्रीर्महालक्ष्मी त्वत्कला मयि तिष्ठतु ॥ २४ ॥

अज्ञानतिमिरं हन्तुं शुद्धज्ञानप्रकाशिका ।
सर्वैश्वर्यप्रदा मेऽस्तु त्वत्कला मयि संस्थिता ॥ २५ ॥

अलक्ष्मीं हरतु क्षिप्रं तमः सूर्यप्रभा यथा ।
वितनोतु मम श्रेयस्त्वत्कला मयि संस्थिता ॥ २६ ॥

ऐश्वर्यमङ्गलोत्पत्तिस्त्वत्कलायां निधीयते ।
मयि तस्मात्कृतार्थोऽस्मि पात्रमस्मि स्थितेस्तव ॥ २७ ॥

भवदावेशभाग्यार्हो भाग्यवानस्मि भार्गवि ।
त्वत्प्रसादात्पवित्रोऽहं लोकमातर्नमोऽस्तु ते ॥ २८ ॥

पुनासि मां त्वत्कलयैव यस्मा-
-दतः समागच्छ ममाग्रतस्त्वम् ।
परं पदं श्रीर्भव सुप्रसन्ना
मय्यच्युतेन प्रविशादिलक्ष्मीः ॥ २९ ॥

श्रीवैकुण्ठस्थिते लक्ष्मि समागच्छ ममाग्रतः ।
नारायणेन सह मां कृपादृष्ट्याऽवलोकय ॥ ३० ॥

सत्यलोकस्थिते लक्ष्मि त्वं ममागच्छ सन्निधिम् ।
वासुदेवेन सहिता प्रसीद वरदा भव ॥ ३१ ॥

श्वेतद्वीपस्थिते लक्ष्मि शीघ्रमागच्छ सुव्रते ।
विष्णुना सहिते देवि जगन्मातः प्रसीद मे ॥ ३२ ॥

क्षीराम्बुधिस्थिते लक्ष्मि समागच्छ समाधवा ।
त्वत्कृपादृष्टिसुधया सततं मां विलोकय ॥ ३३ ॥

रत्नगर्भस्थिते लक्ष्मि परिपूर्णे हिरण्मये ।
समागच्छ समागच्छ स्थित्वाऽऽशु पुरतो मम ॥ ३४ ॥

स्थिरा भव महालक्ष्मि निश्चला भव निर्मले ।
प्रसन्ने कमले देवि प्रसन्नहृदया भव ॥ ३५ ॥

श्रीधरे श्रीमहाभूते त्वदन्तःस्थं महानिधिम् ।
शीघ्रमुद्धृत्य पुरतः प्रदर्शय समर्पय ॥ ३६ ॥

वसुन्धरे श्रीवसुधे वसुदोग्ध्रि कृपामये ।
त्वत्कुक्षिगतसर्वस्वं शीघ्रं मे सम्प्रदर्शय ॥ ३७ ॥

विष्णुप्रिये रत्नगर्भे समस्तफलदे शिवे ।
त्वद्गर्भगतहेमादीन् सम्प्रदर्शय दर्शय ॥ ३८ ॥

रसातलगते लक्ष्मि शीघ्रमागच्छ मे पुरः ।
न जाने परमं रूपं मातर्मे सम्प्रदर्शय ॥ ३९ ॥

आविर्भव मनोवेगाच्छीघ्रमागच्छ मे पुरः ।
मा वत्स भैरिहेत्युक्त्वा कामं गौरिव रक्ष माम् ॥ ४० ॥

देवि शीघ्रं समागच्छ धरणीगर्भसंस्थिते ।
मातस्त्वद्भृत्यभृत्योऽहं मृगये त्वां कुतूहलात् ॥ ४१ ॥

उत्तिष्ठ जागृहि त्वं मे समुत्तिष्ठ सुजागृहि ।
अक्षयान् हेमकलशान् सुवर्णेन सुपूरितान् ॥ ४२ ॥

निक्षेपान्मे समाकृष्य समुद्धृत्य ममाग्रतः ।
समुन्नतानना भूत्वा समाधेहि धरान्तरात् ॥ ४३ ॥

मत्सन्निधिं समागच्छ मदाहितकृपारसात् ।
प्रसीद श्रेयसां दोग्ध्री लक्ष्मीर्मे नयनाग्रतः ॥ ४४ ॥

अत्रोपविश लक्ष्मि त्वं स्थिरा भव हिरण्मये ।
सुस्थिरा भव सम्प्रीत्या प्रसीद वरदा भव ॥ ४५ ॥

आनीतांस्तु तथा देवि निधीन्मे सम्प्रदर्शय ।
अद्य क्षणेन सहसा दत्त्वा संरक्ष मां सदा ॥ ४६ ॥

मयि तिष्ठ तथा नित्यं यथेन्द्रादिषु तिष्ठसि ।
अभयं कुरु मे देवि महालक्ष्मीर्नमोऽस्तु ते ॥ ४७ ॥

समागच्छ महालक्ष्मि शुद्धजाम्बूनदप्रभे ।
प्रसीद पुरतः स्थित्वा प्रणतं मां विलोकय ॥ ४८ ॥

लक्ष्मीर्भुवं गता भासि यत्र यत्र हिरण्मयी ।
तत्र तत्र स्थिता त्वं मे तव रूपं प्रदर्शय ॥ ४९ ॥

क्रीडन्ती बहुधा भूमौ परिपूर्णकृपामयि ।
मम मूर्धनि ते हस्तमविलम्बितमर्पय ॥ ५० ॥

फलद्भाग्योदये लक्ष्मि समस्तपुरवासिनी ।
प्रसीद मे महालक्ष्मि परिपूर्णमनोरथे ॥ ५१ ॥

अयोध्यादिषु सर्वेषु नगरेषु समास्थिते ।
वैभवैर्विविधैर्युक्तैः समागच्छ मुदान्विते ॥ ५२ ॥

समागच्छ समागच्छ ममाग्रे भव सुस्थिरा ।
करुणारसनिष्यन्दनेत्रद्वय विलासिनी ॥ ५३ ॥ [निष्पन्न]

सन्निधत्स्व महालक्ष्मि त्वत्पाणिं मम मस्तके ।
करुणासुधया मां त्वमभिषिञ्च्य स्थिरं कुरु ॥ ५४ ॥

सर्वराजगृहे लक्ष्मि समागच्छ बलान्विते । [मुदान्विते]
स्थित्वाऽऽशु पुरतो मेऽद्य प्रसादेनाऽभयं कुरु ॥ ५५ ॥

सादरं मस्तके हस्तं मम त्वं कृपयार्पय ।
सर्वराजगृहे लक्ष्मि त्वत्कला मयि तिष्ठतु ॥ ५६ ॥

आद्यादि श्रीमहालक्ष्मि विष्णुवामाङ्कसंस्थिते ।
प्रत्यक्षं कुरु मे रूपं रक्ष मां शरणागतम् ॥ ५७ ॥

प्रसीद मे महालक्ष्मि सुप्रसीद महाशिवे ।
अचला भव सम्प्रीत्या सुस्थिरा भव मद्गृहे ॥ ५८ ॥

यावत्तिष्ठन्ति वेदाश्च यावच्चन्द्रदिवाकरौ ।
यावद्विष्णुश्च यावत्त्वं तावत्कुरु कृपां मयि ॥ ५९ ॥

चान्द्रीकला यथा शुक्ले वर्धते सा दिने दिने ।
तथा दया ते मय्येव वर्धतामभिवर्धताम् ॥ ६० ॥

यथा वैकुण्ठनगरे यथा वै क्षीरसागरे ।
तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ ६१ ॥

योगिनां हृदये नित्यं यथा तिष्ठसि विष्णुना ।
तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ ६२ ॥

नारायणस्य हृदये भवती यथास्ते
नारायणोऽपि तव हृत्कमले यथास्ते ।
नारायणस्त्वमपि नित्यमुभौ तथैव
तौ तिष्ठतां हृदि ममापि दयान्वितौ श्रीः ॥ ६३ ॥

विज्ञानवृद्धिं हृदये कुरु श्रीः
सौभाग्यवृद्धिं कुरु मे गृहे श्रीः ।
दयासुवृद्धिं कुरुतां मयि श्रीः
सुवर्णवृद्धिं कुरु मे गृहे श्रीः ॥ ६४ ॥

न मां त्यजेथाः श्रितकल्पवल्लि
सद्भक्तचिन्तामणिकामधेनो ।
विश्वस्य मातर्भव सुप्रसन्ना
गृहे कलत्रेषु च पुत्रवर्गे ॥ ६५ ॥

आद्यादिमाये त्वमजाण्डबीजं
त्वमेव साकारनिराकृतिस्त्वम् ।
त्वया धृताश्चाब्जभवाण्डसङ्घा-
-श्चित्रं चरित्रं तव देवि विष्णोः ॥ ६६ ॥

ब्रह्मरुद्रादयो देवा वेदाश्चापि न शक्नुयुः ।
महिमानं तव स्तोतुं मन्दोऽहं शक्नुयां कथम् ॥ ६७ ॥

अम्ब त्वद्वत्सवाक्यानि सूक्तासूक्तानि यानि च ।
तानि स्वीकुरु सर्वज्ञे दयालुत्वेन सादरम् ॥ ६८ ॥

भवतीं शरणं गत्वा कृतार्थाः स्युः पुरातनाः ।
इति सञ्चिन्त्य मनसा त्वामहं शरणं व्रजे ॥ ६९ ॥

अनन्ता नित्यसुखिनस्त्वद्भक्तास्त्वत्परायणाः ।
इति वेदप्रमाणाद्धि देवि त्वां शरणं व्रजे ॥ ७० ॥

तव प्रतिज्ञा मद्भक्ता न नश्यन्तीत्यपि क्वचित् ।
इति सञ्चिन्त्य सञ्चिन्त्य प्राणान् सन्धारयाम्यहम् ॥ ७१ ॥

त्वदधीनस्त्वहं मातस्त्वत्कृपा मयि विद्यते ।
यावत्सम्पूर्णकामः स्यात्तावद्देहि दयानिधे ॥ ७२ ॥

क्षणमात्रं न शक्नोमि जीवितुं त्वत्कृपां विना ।
न जीवन्तीह जलजा जलं त्यक्त्वा जलग्रहाः ॥ ७३ ॥

यथा हि पुत्रवात्सल्याज्जननी प्रस्नुतस्तनी ।
वत्सं त्वरितमागत्य सम्प्रीणयति वत्सला ॥ ७४ ॥

यदि स्यां तव पुत्रोऽहं माता त्वं यदि मामकी ।
दयापयोधरस्तन्यसुधाभिरभिषिञ्च माम् ॥ ७५ ॥

मृग्यो न गुणलेशोऽपि मयि दोषैकमन्दिरे ।
पांसूनां वृष्टिबिन्दूनां दोषाणां च न मे मतिः ॥ ७६ ॥

पापिनामहमेवाग्र्यो दयालूनां त्वमग्रणीः ।
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥ ७७ ॥

विधिनाहं न सृष्टश्चेन्न स्यात्तव दयालुता ।
आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः ॥ ७८ ॥

कृपा मदग्रजा किं ते अहं किं वा तदग्रजः ।
विचार्य देहि मे वित्तं तव देवि दयानिधे ॥ ७९ ॥

माता पिता त्वं गुरुसद्गतिः श्री-
-स्त्वमेव सञ्जीवनहेतुभूता ।
अन्यं न मन्ये जगदेकनाथे
त्वमेव सर्वं मम देवि सत्ये ॥ ८० ॥

आद्यादिलक्ष्मीर्भव सुप्रसन्ना
विशुद्धविज्ञानसुखैकदोग्ध्री ।
अज्ञानहन्त्री त्रिगुणातिरिक्ता
प्रज्ञाननेत्री भव सुप्रसन्ना ॥ ८१ ॥

अशेषवाग्जाड्यमलापहन्त्री
नवं नवं स्पष्टसुवाक्प्रदायिनी ।
ममेह जिह्वाग्र सुरङ्गनर्तकी [नर्तिनी]
भव प्रसन्ना वदने च मे श्रीः ॥ ८२ ॥

समस्तसम्पत्सुविराजमाना
समस्ततेजश्चयभासमाना ।
विष्णुप्रिये त्वं भव दीप्यमाना
वाग्देवता मे नयने प्रसन्ना ॥ ८३ ॥

सर्वप्रदर्शे सकलार्थदे त्वं
प्रभासुलावण्यदयाप्रदोग्ध्री ।
सुवर्णदे त्वं सुमुखी भव श्री-
-र्हिरण्मयी मे नयने प्रसन्ना ॥ ८४ ॥

सर्वार्थदा सर्वजगत्प्रसूतिः
सर्वेश्वरी सर्वभयापहन्त्री ।
सर्वोन्नता त्वं सुमुखी भव श्री-
-र्हिरण्मयी मे नयने प्रसन्ना ॥ ८५ ॥

समस्तविघ्नौघविनाशकारिणी
समस्तभक्तोद्धरणे विचक्षणा ।
अनन्तसौभाग्यसुखप्रदायिनी
हिरण्मयी मे नयने प्रसन्ना ॥ ८६ ॥

देवि प्रसीद दयनीयतमाय मह्यं
देवाधिनाथभवदेवगणाभिवन्द्ये ।
मातस्तथैव भव सन्निहिता दृशोर्मे
पत्या समं मम मुखे भव सुप्रसन्ना ॥ ८७ ॥

मा वत्स भैरभयदानकरोऽर्पितस्ते
मौलौ ममेति मयि दीनदयानुकम्पे ।
मातः समर्पय मुदा करुणाकटाक्षं
माङ्गल्यबीजमिह नः सृज जन्म मातः ॥ ८८ ॥

कटाक्ष इह कामधुक्तव मनस्तु चिन्तामणिः
करः सुरतरुः सदा नवनिधिस्त्वमेवेन्दिरे ।
भवे तव दयारसो मम रसायनं चान्वहं
मुखं तव कलानिधिर्विविधवाञ्छितार्थप्रदम् ॥ ८९ ॥

यथा रसस्पर्शनतोऽयसोऽपि
सुवर्णता स्यात्कमले तथा ते ।
कटाक्षसंस्पर्शनतो जनाना-
-ममङ्गलानामपि मङ्गलत्वम् ॥ ९० ॥

देहीति नास्तीति वचः प्रवेशा-
-द्भीतो रमे त्वां शरणं प्रपद्ये ।
अतः सदाऽस्मिन्नभयप्रदा त्वं
सहैव पत्या मयि सन्निधेहि ॥ ९१ ॥

कल्पद्रुमेण मणिना सहिता सुरम्या
श्रीस्ते कला मयि रसेन रसायनेन ।
आस्तां यतो मम शिरःकरदृष्टिपाद-
-स्पृष्टाः सुवर्णवपुषः स्थिरजङ्गमाः स्युः ॥ ९२ ॥

आद्यादिविष्णोः स्थिरधर्मपत्नी
त्वमेव पत्या मयि सन्निधेहि ।
आद्यादिलक्ष्मि त्वदनुग्रहेण
पदे पदे मे निधिदर्शनं स्यात् ॥ ९३ ॥

आद्यादिलक्ष्मीहृदयं पठेद्यः
स राज्यलक्ष्मीमचलां तनोति ।
महादरिद्रोऽपि भवेद्धनाढ्य-
-स्तदन्वये श्रीः स्थिरतां प्रयाति ॥ ९४ ॥

यस्य स्मरणमात्रेण तुष्टा स्याद्विष्णुवल्लभा ।
तस्याभीष्टं ददत्याशु तं पालयति पुत्रवत् ॥ ९५ ॥

इदं रहस्यं हृदयं सर्वकामफलप्रदम् ।
जपः पञ्चसहस्रं तु पुरश्चरणमुच्यते ॥ ९६ ॥

त्रिकालमेककालं वा नरो भक्तिसमन्वितः ।
यः पठेच्छृणुयाद्वापि स याति परमां श्रियम् ॥ ९७ ॥

महालक्ष्मीं समुद्दिश्य निशि भार्गववासरे ।
इदं श्रीहृदयं जप्त्वा पञ्चवारं धनी भवेत् ॥ ९८ ॥

अनेन हृदयेनान्नं गर्भिण्या अभिमन्त्रितम् ।
ददाति तत्कुले पुत्रो जायते श्रीपतिः स्वयम् ॥ ९९ ॥

नरेण वाऽथवा नार्या लक्ष्मीहृदयमन्त्रिते ।
जले पीते च तद्वंशे मन्दभाग्यो न जायते ॥ १०० ॥

य आश्विने मासि च शुक्लपक्षे
रमोत्सवे सन्निहिते सुभक्त्या ।
पठेत्तथैकोत्तरवारवृद्ध्या
लभेत्स सौवर्णमयीं सुवृष्टिम् ॥ १०१ ॥

य एकभक्तोऽन्वहमेकवर्षं
विशुद्धधीः सप्ततिवारजापी ।
स मन्दभाग्योऽपि रमाकटाक्षा-
-द्भवेत्सहस्राक्षशताधिकश्रीः ॥ १०२ ॥

श्रीशाङ्घ्रिभक्तिं हरिदासदास्यं
प्रसन्नमन्त्रार्थदृढैकनिष्ठाम् ।
गुरोः स्मृतिं निर्मलबोधबुद्धिं
प्रदेहि मातः परमं पदं श्रीः ॥ १०३ ॥

पृथ्वीपतित्वं पुरुषोत्तमत्वं
विभूतिवासं विविधार्थसिद्धिम् ।
सम्पूर्णकीर्तिं बहुवर्षभोगं
प्रदेहि मे लक्ष्मि पुनः पुनस्त्वम् ॥ १०४ ॥

वादार्थसिद्धिं बहुलोकवश्यं
वयः स्थिरत्वं ललनासुभोगम् ।
पौत्रादिलब्धिं सकलार्थसिद्धिं
प्रदेहि मे भार्गवि जन्मजन्मनि ॥ १०५ ॥

सुवर्णवृद्धिं कुरु मे गृहे श्रीः
सुधान्यवृद्धिं कुरू मे गृहे श्रीः ।
कल्याणवृद्धिं कुरु मे गृहे श्रीः
विभूतिवृद्धिं कुरु मे गृहे श्रीः ॥ १०६ ॥

ध्यायेल्लक्ष्मीं प्रहसितमुखीं कोटिबालार्कभासां
विद्युद्वर्णाम्बरवरधरां भूषणाढ्यां सुशोभाम् ।
बीजापूरं सरसिजयुगं बिभ्रतीं स्वर्णपात्रं
भर्त्रायुक्तां मुहुरभयदां मह्यमप्यच्युतश्रीः ॥ १०७ ॥

गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिता ॥ १०८ ॥

इति श्रीअथर्वणरहस्ये श्रीलक्ष्मीहृदयस्तोत्रं सम्पूर्णम् ॥


इतर श्री लक्ष्मी स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed