Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
आद्येति विद्येति च कथ्यते या
या चोदयेद्बुद्धिमुपासकस्य ।
ध्यायामि तामेव सदाऽपि सर्व-
-चैतन्यरूपां भवमोचनीं त्वाम् ॥ ४०-१ ॥
प्रतिष्ठिताऽन्तःकरणेऽस्तु वाङ्मे
वदामि सत्यं न वदाम्यसत्यम् ।
सत्योक्तिरेनं परिपातु मां मे
श्रुतं च मा विस्मृतिमेतु मातः ॥ ४०-२ ॥
तेजस्वि मेऽधीतमजस्रमस्तु
मा मा परद्वेषमतिश्च देवि ।
करोमि वीर्याणि समं सुहृद्भि-
-र्विद्या परा साऽवतु मां प्रमादात् ॥ ४०-३ ॥
त्वं रक्ष मे प्राणशरीरकर्म-
-ज्ञानेन्द्रियान्तःकरणानि देवि ।
भवन्तु धर्मा मयि वैदिकास्ते
निराकृतिर्माऽस्तु मिथः कृपार्द्रे ॥ ४०-४ ॥
यच्छ्रूयते यत्खलु दृश्यते च
तदस्तु भद्रं सकलं यजत्रे ।
त्वां संस्तुवन्नस्तसमस्तरोग
आयुः शिवे देवहितं नयानि ॥ ४०-५ ॥
अविघ्नमायात्विह विश्वतो मे
ज्ञानं प्रसन्ना मम बुद्धिरस्तु ।
नावेव सिन्धुं दुरितं समस्तं
त्वत्सेवयैवातितरामि देवि ॥ ४०-६ ॥
उर्वारुकं बन्धनतो यथैव
तथैव मुच्येय च कर्मपाशात् ।
त्वां त्र्यम्बकां कीर्तिमतीं यजेय
सन्मार्गतो मां नय विश्वमातः ॥ ४०-७ ॥
क्षीणायुषो मृत्युगतान् स्वशक्त्या
दीर्घायुषो वीतभयान् करोषि ।
सङ्गच्छतः संवदतश्च सर्वान्
परोपकारैकरतान् कुरुष्व ॥ ४०-८ ॥
मर्त्यो ह्यहं बालिशबुद्धिरेव
धर्मानभिज्ञोऽप्यपराधकृच्च ।
हा दुर्लभं मे कपिहस्तपुष्प-
-सुमाल्यवच्छीर्णमिदं नृजन्म ॥ ४०-९ ॥
यथा पथा वारि यथा च गौः स्वं
वत्सं तथाऽऽधावतु मां मनस्ते ।
विश्वानि पापानि विनाश्य मे य-
-द्भद्रं शिवे देहि तदार्तिहन्त्रि ॥ ४०-१० ॥
बहूक्तिभिः किं विदितस्त्वयाऽहं
पुत्रः शिशुस्ते न च वेद्मि किञ्चित् ।
आगच्छ पश्यानि मुखारविन्दं
पदाम्बुजाभ्यां सततं नमस्ते ॥ ४०-११ ॥
एकचत्वारिंश दशकम् (४१) – प्रणामम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.