Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अथैकदाऽदृश्यत दक्षगेहे
शाक्तं महस्तच्च बभूव बाला ।
विज्ञाय ते शक्तिमिमां जगत्सु
सर्वेऽपि हृष्टा अभवत् क्षणश्च ॥ २९-१ ॥
दक्षः स्वगेहापतितां चकार
नाम्ना सतीं पोषयति स्म तां सः ।
स्मरन् वचस्ते गिरिशाय काले
प्रदाय तां द्वौ समतोषयच्च ॥ २९-२ ॥
एवं शिवःशक्तियुतः पुनश्च
बभूव गच्छत्सु दिनेषु दक्षः ।
दैवाच्छिवद्वेषमवाप देहं
तत्पोषितं स्वं विजहौ सती च ॥ २९-३ ॥
दुःखेन कोपेन च हा सतीति
मुहुर्वदन्नुद्धृतदारदेहः ।
बभ्राम सर्वत्र हरः सुरेषु
पश्यत्सु शार्ङ्गी शिवमन्वचारीत् ॥ २९-४ ॥
रुद्रांसविन्यस्तसतीशरीरं
विष्णुः शरौघैर्बहुशश्चकर्त ।
एकैकशः पेतुरमुष्य खण्डा
भूमौ शिवे साष्टशतं स्थलेषु ॥ २९-५ ॥
यतो यतः पेतुरिमे स्थलानि
सर्वाणि तानि प्रथितानि लोके ।
इमानि पूतानि भवानि देवी-
-पीठानि सर्वाघहराणि भान्ति ॥ २९-६ ॥
त्वमेकमेवाद्वयमत्र भिन्न-
-नामानि धृत्वा खलु मन्त्रतन्त्रैः ।
सम्पूज्यमाना शरणागतानां
भुक्तिं च मुक्तिं च ददासि मातः ॥ २९-७ ॥
निर्विण्णचित्तः स सतीवियोगा-
-च्छिवः स्मरंस्त्वां कुहचिन्निषण्णः ।
समाधिमग्नोऽभवदेष लोकः
शक्तिं विना हा विरसोऽलसश्च ॥ २९-८ ॥
चिन्ताकुला मोहधियो विशीर्ण-
-तोषा महारोगनिपीडिताश्च ।
सौभाग्यहीना विहताभिलाषाः
सर्वे सदोद्विग्नहृदो बभूवुः ॥ २९-९ ॥
शिवोऽपि शक्त्या सहितः करोति
सर्वं वियुक्तश्च तया जडः स्यात् ।
मा माऽस्तु मे शक्तिवियोग एष
दासोऽस्मि भूयो वरदे नमस्ते ॥ २९-१० ॥
त्रिंश दशकम् (३०) – श्रीपार्वत्यवतारम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.