Yuddha Kanda Sarga 75 – युद्धकाण्ड पञ्चसप्ततितमः सर्गः (७५)



॥ लङ्कादाहः ॥

ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः ।
अर्थ्यं विज्ञापयंश्चापि हनुमन्तमिदं वचः ॥ १ ॥

यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः ।
नेदानीमुपनिर्हारं रावणो दातुमर्हति ॥ २ ॥

ये ये महाबलाः सन्ति लघवश्च प्लवङ्गमाः ।
लङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः ॥ ३ ॥

[* हरयो हरिसङ्काशाः प्रदग्धुं रावणालयम् । *]
ततोऽस्तङ्गत आदित्ये रौद्रे तस्मिन्निशामुखे ।
लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ॥ ४ ॥

उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः ।
आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः ॥ ५ ॥

गोपुराट्‍टप्रतोलीषु चर्यासु विविधासु च ।
प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् ॥ ६ ॥

तेषां गृहसस्राणि ददाह हुतभुक्तदा ।
प्रासादाः पर्वताकाराः पतन्ति धरणीतले ॥ ७ ॥

अगरुर्दह्यते तत्र वरं च हरिचन्दनम् ।
मौक्तिकामणयः स्निग्धा वज्रं चापि प्रवालकम् ॥ ८ ॥

क्षौमं च दह्यते तत्र कौशेयं चापि शोभनम् ।
आविकं विविधं चौर्णं काञ्चनं भाण्डमायुधम् ॥ ९ ॥

नानाविकृतसंस्थानं वाजिभाण्डपरिच्छदौ ।
गजग्रैवेयकक्ष्याश्च रथभाण्डाश्च संस्कृताः ॥ १० ॥

तनुत्राणि च योधानां हस्त्यश्वानां च वर्म च ।
खड्गा धनूंषि ज्याबाणास्तोमराङ्कुशशक्तयः ॥ ११ ॥

रोमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु ।
मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः ॥ १२ ॥

विविधानस्त्रसम्योगानग्निर्दहति तत्र वै ।
नानाविधान्गृहच्छन्दान्ददाह हुतभूक्तदा ॥ १३ ॥

आवासान्राक्षसानां च सर्वेषां गृहगर्धिनाम् ।
हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम् ॥ १४ ॥

शीधुपानचलाक्षाणां मदविह्वलगामिनाम् ।
कान्तालम्बितवस्त्राणां शत्रुसञ्जातमन्युनाम् ॥ १५ ॥

गदाशूलासिहस्तानां खादतां पिबतामपि ।
शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह ॥ १६ ॥

त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः ।
तेषां शतसहस्राणि तदा लङ्कानिवासिनाम् ॥ १७ ॥

अदहत्पावकस्तत्र जज्वाल च पुनः पुनः ।
सारवन्ति महार्हाणि गम्भीरगुणवन्ति च ॥ १८ ॥

हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च ।
रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः ॥ १९ ॥

मणिविद्रुमचित्राणि स्पृशन्तीव दिवाकरम् ।
क्रौञ्चबर्हिणवीणानां भूषणानां च निःस्वनैः ॥ २० ॥

नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः ।
ज्वलनेन परीतानि तोरणानि चकाशिरे ॥ २१ ॥

विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे ।
ज्वलनेन परीतानि निपेतुर्भवनान्यथ ॥ २२ ॥

वज्रिवज्रहतानीव शिखराणि महागिरेः ।
विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः ॥ २३ ॥

त्यक्ताभरणसर्वाङ्गा हा हेत्युच्चैर्विचुक्रुशुः ।
तानि निर्दह्यमानानि दूरतः प्रचकाशिरे ॥ २४ ॥

हिमवच्छिखराणीव दीप्तौषधिवनानि च ।
हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि ॥ २५ ॥

रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः ।
हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि ॥ २६ ॥

बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ।
अश्वं मुक्तं गजो दृष्ट्वा क्वचिद्भीतोऽपसर्पति ॥ २७ ॥

भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते ।
लङ्कायां दह्यमानायां शुशुभे स महार्णवः ॥ २८ ॥

छायासंसक्तसलिलो लोहितोद इवार्णवः ।
सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी ॥ २९ ॥

लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुन्धरा ।
नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः ॥ ३० ॥

स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् ।
प्रदग्धकायानपरान्राक्षसान्निर्गतान्बहिः ॥ ३१ ॥

सहसाऽभ्युत्पतन्ति स्म हरयोऽथ युयुत्सवः ।
उद्घुष्टं वानराणां च राक्षसानां च निस्वनः ॥ ३२ ॥

दिशो दश समुद्रं च पृथिवीं चान्वनादयत् ।
विशल्यौ तु महात्मानौ तावुभौ रामलक्ष्मणौ ॥ ३३ ॥

असम्भ्रान्तौ जगृहतुस्तदोभे धनुषी वरे ।
ततो विष्फारयानस्य रामस्य धनुरुत्तमम् ॥ ३४ ॥

बभूव तुमुलः शब्दो राक्षसानां भयावहः ।
अशोभत तदा रामो धनुर्विष्फारयन्महत् ॥ ३५ ॥

भगवानिव सङ्क्रुद्धो भवो वेदमयं धनुः ।
उद्घुष्टं वानराणां च राक्षसानां च निस्वनम् ॥ ३६ ॥

ज्याशब्दस्तावुभौ शब्दावतिरामस्य शुश्रुवे ।
वानरोद्घुष्टघोषश्च राक्षसानां च निस्वनः ॥ ३७ ॥

ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश ।
तस्य कार्मुकमुक्तैश्च शरैस्तत्पुरगोपुरम् ॥ ३८ ॥

कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि ।
ततो रामशरान्दृष्ट्वा विमानेषु गृहेषु च ॥ ३९ ॥

सन्नाहो राक्षसेन्द्राणां तुमुलः समपद्यत ।
तेषां सन्नह्यमानानां सिंहनादं च कुर्वताम् ॥ ४० ॥

शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत ।
आदिष्टा वानरेन्द्रास्तु सुग्रीवेण महात्मना ॥ ४१ ॥

आसन्नद्वारमासाद्य युध्यध्वं प्लवगर्षभाः ।
यश्च वो वितथं कुर्यात्तत्र तत्र ह्युपस्थितः ॥ ४२ ॥

स हन्तव्यो हि सम्प्लुत्य राजशासनदूषकः ।
तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु ॥ ४३ ॥

स्थितेषु द्वारमासाद्य रावणं मन्युराविशत् ।
तस्य जृम्भितविक्षेपाद्व्यामिश्रा वै दिशो दश ॥ ४४ ॥

रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत ।
स निकुम्भं च कुम्भं च कुम्भकर्णात्मजावुभौ ॥ ४५ ॥

प्रेषयामास सङ्क्रुद्धो राक्षसैर्बहुभिः सह ।
यूपाक्षः शोणिताक्षश्च प्रजङ्घः कम्पनस्तथा ॥ ४६ ॥

निर्ययुः कौम्भकर्णिभ्यां सह रावणशासनात् ।
शशास चैव तान्सर्वान्राक्षसान्सुमहाबलान् ॥ ४७ ॥

नादयन्गच्छताऽत्रैव जयध्वं शीघ्रमेव च ।
ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः ॥ ४८ ॥

लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः ।
रक्षसां भूषणस्थाभिर्भाभिः स्वाभिश्च सर्वशः ॥ ४९ ॥

चक्रुस्ते सप्रभं व्योम हरयश्चाग्निभिः सह ।
तत्र ताराधिपस्याभा ताराणां च तथैव च ॥ ५० ॥

तयोराभरणस्था च बलयोर्द्यामभासयन् ।
चन्द्राभा भूषणाभा च गृहाणां ज्वलतां च भा ॥ ५१ ॥

हरिराक्षससैन्यानि भ्राजयामास सर्वतः ।
तत्र चोर्ध्वं प्रदीप्तानां गृहाणां सागरः पुनः ॥ ५२ ॥

भाभिः संसक्तपातालश्चलोर्मिः शुशुभेऽधिकम् ।
पताकाध्वजसंसक्तमुत्तमासिपरश्वधम् ॥ ५३ ॥

भीमाश्वरथमातङ्गं नानापत्तिसमाकुलम् ।
दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम् ॥ ५४ ॥

तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् ।
ददृशे ज्वलितप्रासं किङ्किणीशतनादितम् ॥ ५५ ॥

हेमजालाचितभुजं व्यामिश्रितपरश्वधम् ।
व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम् ॥ ५६ ॥

गन्धमाल्यमधूत्सेकसम्मोदितमहानिलम् ।
घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम् ॥ ५७ ॥

तद्दृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम् ।
सञ्चचाल प्लवङ्गानां बलमुच्चैर्ननाद च ॥ ५८ ॥

जवेनाप्लुत्य च पुनस्तद्बलं रक्षसां महत् ।
अभ्ययात्प्रत्यरिबलं पतङ्गा इव पावकम् ॥ ५९ ॥

तेषां भुजपरामर्शव्यामृष्टपरिघाशनि ।
राक्षसानां बलं श्रेष्ठं भूयस्तरमशोभत ॥ ६० ॥

तत्रोन्मत्ता इवोत्पेतुर्हरयोऽथ युयुत्सवः ।
तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान् ॥ ६१ ॥

तथैवापततां तेषां कपीनामसिभिः शितैः ।
शिरांसि सहसा जह्रू राक्षसा भीमदर्शनाः ॥ ६२ ॥

दशनैर्हृतकर्णाश्च मुष्टिनिष्कीर्णमस्तकाः ।
शिलाप्रहारभग्नाङ्गा विचेरुस्तत्र राक्षसाः ॥ ६३ ॥

तथैवाप्यपरे तेषां कपीनामभिलक्षिताः ।
प्रवीरानभितो जघ्नू राक्षसानां तरस्विनाम् ॥ ६४ ॥

तथैवाप्यपरे तेषां कपीनामसिभिः शितैः ।
हरिवीरान्निजघ्नुश्च घोररूपा निशाचराः ॥ ६५ ॥

घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत् ।
गर्हमाणं जगर्हेऽन्यो दशन्तमपरोऽदशत् ॥ ६६ ॥

देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः ।
किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे ॥ ६७ ॥

विप्रलम्बितवस्त्रं च विमुक्तकवचायुधम् ।
समुद्यतमहाप्रासं यष्टिशूलासिसङ्कुलम् ॥ ६८ ॥

प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् ।
वानरान्दश सप्तेति राक्षसा जघ्नुराहवे ॥ ६९ ॥

राक्षसान्दश सप्तेति वानराश्चाभ्यपातयन् ।
विस्रस्तकेशवसनं विध्वस्तकवचध्वजम् ।
बलं राक्षसमालम्ब्य वानराः पर्यवारयन् ॥ ७० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥

युद्धकाण्ड षट्सप्ततितमः सर्गः (७६) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed