Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
शान्तिरुवाच ।
ओं नमः सर्वभूतानां साधनाय महात्मने ।
एकद्विपञ्चधिष्ट्याय राजसूये षडात्मने ॥ १ ॥
नमः समस्तदेवानां वृत्तिदाय सुवर्चसे ।
शुक्ररूपाय जगतामशेषाणां स्थितिप्रदः ॥ २ ॥
त्वं मुखं सर्वदेवानां त्वयात्तुं भगवन्हविः ।
प्रीणयत्यखिलान् देवान् त्वत्प्राणाः सर्वदेवताः ॥ ३ ॥
हुतं हविस्त्वय्यमलमेधत्वमुपगच्छति ।
ततश्च जलरूपेण परिणाममुपैति यत् ॥ ४ ॥
तेनाखिलौषधीजन्म भवत्यनिलसारथे ।
औषधीभिरशेषाभिः सुखं जीवन्ति जन्तवः ॥ ५ ॥
वितन्वते नरा यज्ञान् त्वत्सृष्टास्वोषधीषु च ।
यज्ञैर्देवास्तथा दैत्यास्तद्वद्रक्षांसि पावक ॥ ६ ॥
आप्याय्यन्ते च ते यज्ञास्त्वदाधारा हुताशन ।
अतः सर्वस्य योनिस्त्वं वह्ने सर्वमयस्तथा ॥ ७ ॥
देवता दानवा यक्षा दैत्या गन्धर्वराक्षसाः ।
मानुषाः पशवो वृक्षा मृगपक्षिसरीसृपाः ॥ ८ ॥
आप्याय्यन्ते त्वया सर्वे संवर्ध्यन्ते च पावक ।
त्वत्त एवोद्भवं यान्ति त्वय्यन्ते च तथा लयम् ॥ ९ ॥
अपः सृजसि देव त्वं त्वमत्सि पुनरेव ताः ।
पच्यमानास्त्वया ताश्च प्राणिनां पुष्टिकारणम् ॥ १० ॥
देवेषु तेजोरूपेण कान्त्या सिद्धेष्ववस्थितः ।
विषरूपेण नागेषु वायुरूपः पतत्त्रिषु ॥ ११ ॥
मनुजेषु भवान् क्रोधो मोहः पक्षिमृगादिषु ।
अवष्टम्भोऽसि तरुषु काठिन्यं त्वं महीं प्रति ॥ १२ ॥
जले द्रवत्वं भगवान् जलरूपी तथाऽनिले ।
व्यापित्वेन तथैवाग्ने नभस्यात्मा व्यवस्थितः ॥ १३ ॥
त्वमग्ने सर्वभूतानामन्तश्चरसि पालयन् ।
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः ॥ १४ ॥
त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ।
त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः ॥ १५ ॥
त्वामृते हि जगत्सर्वं सद्यो नश्येद्धुताशन ।
तुभ्यं कृत्वा द्विजः पूजां स्वकर्मविहितां गतिम् ॥ १६ ॥
प्रयाति हव्यकव्याद्यैः स्वधास्वाहाभ्युदीरणात् ।
परिणामात्मवीर्या हि प्राणिनाममरार्चित ॥ १७ ॥
दहन्ति सर्वभूतानि ततो निष्क्रम्य हेतयः ।
जातवेदस्तवैवेयं विश्वसृष्टिमहाद्युते ॥ १८ ॥
तवैव वैदिकं कर्म सर्वभूतात्मकं जगत् ।
नमस्तेऽनल पिङ्गाक्ष नमस्तेऽस्तु हुताशन ॥ १९ ॥
पावकाद्य नमस्तेऽस्तु नमस्ते हव्यवाहन ।
त्वमेव भुक्तपीतानां पाचनाद्विश्वपावकः ॥ २० ॥
शस्यानां पाककर्ता त्वं पोष्टा त्वं जगतस्तथा ।
त्वमेव मेघस्त्वं वायुस्त्वं बीजं शस्यहेतुकम् ॥ २१ ॥
पोषाय सर्वभूतानां भूतभव्यभवो ह्यसि ।
त्वं ज्योतिः सर्वभूतेषु त्वमादित्यो विभावसुः ॥ २२ ॥
त्वमहस्त्वं तथा रात्रिरुभे सन्ध्ये तथा भवान् ।
हिरण्यरेतास्त्वं वह्ने हिरण्योद्भवकारणम् ॥ २३ ॥
हिरण्यगर्भश्च भवान् हिरण्यसदृशप्रभः ।
त्वं मुहूर्तं क्षणश्च त्वं त्वं त्रुटिस्त्वं तथा लवः ॥ २४ ॥
कलाकाष्ठानिमेषादिरूपेणासि जगत्प्रभो ।
त्वमेतदखिलं कालः परिणामात्मको भवान् ॥ २५ ॥
या जिह्वा भवतः काली कालनिष्ठाकरी प्रभो ।
भयान्नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ २६ ॥
कराली नाम या जिह्वा महाप्रलयकारणम् ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ २७ ॥
मनोजवा च या जिह्वा लघिमागुणलक्षणा ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ २८ ॥
करोति कामं भूतेभ्यो या ते जिह्वा सुलोहिता ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ २९ ॥
सुधूम्रवर्णा या जिह्वा प्राणिनां रोगदाहिका ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ ३० ॥
स्फुलिङ्गिनी च या जिह्वा यतः सकलपुद्गलाः ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ ३१ ॥
या ते विश्वा सदा जिह्वा प्राणिनां शर्मदायिनी ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ ३२ ॥
पिङ्गाक्ष लोहितग्रीव कृष्णवर्ण हुताशन ।
त्राहि मां सर्वदोषेभ्यः संसारादुद्धरेह माम् ॥ ३३ ॥
प्रसीद वह्ने सप्तार्चिः कृशानो हव्यवाहन ।
अग्निपावकशुक्रादि नामाष्टभिरुदीरितः ॥ ३४ ॥
अग्नेऽग्रे सर्वभूतानां समुद्भूत विभावसो ।
प्रसीद हव्यवाहाख्य अभिष्टुत मयाव्यय ॥ ३५ ॥
त्वमक्षयो वह्निरचिन्त्यरूपः
समृद्धिमन् दुष्प्रसहोऽतितीव्रः ।
त्वमव्ययं भीममशेषलोकं
समूर्तिको हन्त्यथवातिवीर्यः ॥ ३६ ॥
त्वमुत्तमं सत्त्वमशेषसत्व-
-हृत्पुण्डरीकस्त्वमनन्तमीड्यम् ।
त्वया ततं विश्वमिदं चराचरं
हुताशनैको बहुधा त्वमत्र ॥ ३७ ॥
त्वमक्षयः सगिरिवना वसुन्धरा
नभः ससोमार्कमहर्दिवाखिलम् ।
महोदधेर्जठरगतञ्च वाडवो
भवान्विभूत्या परया करे स्थितः ॥ ३८ ॥
हुताशनस्त्वमिति सदाभिपूज्यसे
महाक्रतौ नियमपरैर्महर्षिभिः ।
अभिष्टुतः पिवसि च सोममध्वरे
वषट्कृतान्यपि च हवींषि भूतये ॥ ३९ ॥
त्वं विप्रैः सततमिहेज्यसे फलार्थं
वेदाङ्गेष्वथ सकलेषु गीयसे त्वम् ।
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा
वेदाङ्गान्यधिगमयन्ति सर्वकाले ॥ ४० ॥
त्वं ब्रह्मा यजनपरस्तथैव विष्णुः
भूतेशः सुरपतिरर्यमा जलेशः ।
सूर्येन्दु सकलसुरासुराश्च हव्यैः
सन्तोष्याभिमतफलान्यथाप्नुवन्ति ॥ ४१ ॥
अर्चिर्भिः परममहोपघातदुष्टं
संस्पृष्टं तव शुचि जायते समस्तम् ।
स्नानानां परममतीव भस्मना सत्
सन्ध्यायां मुनिभिरतीव सेव्यसे तत् ॥ ४२ ॥
प्रसीद वह्ने शुचिनामधेय
प्रसीद वायो विमलातिदीप्ते ।
प्रसीद मे पावक वैद्युताद्य
प्रसीद हव्याशन पाहि मां त्वम् ॥ ४३ ॥
यत्ते वह्ने शिवं रूपं ये च ते सप्त हेतयः ।
तः पाहि नः स्तुतो देव पिता पुत्रमिवात्मजम् ॥ ४४ ॥
इति श्रीमार्कण्डेयपुराणे भौत्यमन्वन्तरे अग्नि स्तोत्रम् नाम एकोनशतोऽध्यायः ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
One thought on “Agni Stotram (Markandeya Puranam) – अग्नि स्तोत्रम्”
Leave a Reply
You must be logged in to post a comment.


When Agnistotram should recited? Morning or Evening? And is there any BANDHAN on this site and how many time this has to be done. Shall be highly obliged.