Yuddha Kanda Sarga 95 – युद्धकाण्ड पञ्चनवतितमः सर्गः (९५)



॥ राक्षसीविलापः ॥

तानि तानि सहस्राणि सारोहाणां च वाजिनाम् ।
रथानां त्वग्निवर्णानां सध्वजानां सहस्रशः ॥ १ ॥

राक्षसानां सहस्राणि गदापरिघयोधिनाम् ।
काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् ॥ २ ॥

निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः ।
रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा ॥ ३ ॥

दृष्ट्वा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचराः ।
राक्षसीश्च समागम्य दीनाश्चिन्तापरिप्लुताः ॥ ४ ॥

विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः ।
राक्षस्यः सह सङ्गम्य दुःखार्ताः पर्यदेवयन् ॥ ५ ॥

कथं शूर्पणखा वृद्धा कराला निर्णतोदरी ।
आससाद वने रामं कन्दर्पमिव रूपिणम् ॥ ६ ॥

सुकुमारं महासत्त्वं सर्वभूतहिते रतम् ।
तं दृष्ट्वा लोकनिन्द्या सा हीनरूपा प्रकामिता ॥ ७ ॥

कथं सर्वगुणैर्हीना गुणवन्तं महौजसम् ।
सुमुखं दुर्मुखी रामं कामयामास राक्षसी ॥ ८ ॥

जनस्यास्याल्पभाग्यत्वाद्वलिनी श्वेतमूर्धजा ।
अकार्यमपहास्यं च सर्वलोकविगर्हितम् ॥ ९ ॥

राक्षसानां विनाशाय दूषणस्य खरस्य च ।
चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम् ॥ १० ॥

तन्निमित्तमिदं वैरं रावणेन कृतं महत् ।
वधाय सीता सानीता दशग्रीवेण रक्षसा ॥ ११ ॥

न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम् ।
बद्धं बलवता वैरमक्षयं राघवेण च ॥ १२ ॥

वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसम् ।
हतमेकेन रामेण पर्याप्तं तन्निदर्शनम् ॥ १३ ॥

चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् ।
निहतानि जनस्थाने शरैरग्निशिखोपमैः ॥ १४ ॥

खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा ।
शरैरादित्यसङ्काशैः पर्याप्तं तन्निदर्शनम् ॥ १५ ॥

हतो योजनबाहुश्च कबन्धो रुधिराशनः ।
क्रोधान्नादं नदन्सोऽथ पर्याप्तं तन्निदर्शनम् ॥ १६ ॥

जघान बलिनं रामः सहस्रनयनात्मजम् ।
वालिनं मेरुसङ्काशं पर्याप्तं तन्निदर्शनम् ॥ १७ ॥

ऋश्यमूके वसन् शैले दीनो भग्नमनोरथः ।
सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम् ॥ १८ ॥

[* अधिकपाठः –
एको वायुसुतः प्राप्य लङ्कां हत्वा च राक्षसान् ।
दग्ध्वा तां च पुनर्यातः पर्याप्तं तन्निदर्शनम् ।
निगृह्य सागरं तस्मिन्सेतुं बध्वा प्लवङ्गमैः ।
वृतोऽतरत्तं यद्रामः पर्याप्तं तन्निदर्शनम् ।
*]

धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम् ।
युक्तं विभीषणेनोक्तं मोहात्तस्य न रोचते ॥ १९ ॥

विभीषणवचः कुर्याद्यदि स्म धनदानुजः ।
श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत् ॥ २० ॥

कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम् ।
अतिकायं च दुर्धर्षं लक्ष्मणेन हतं पुनः ॥ २१ ॥

प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते ।
मम पुत्रो मम भ्राता मम भर्ता रणे हतः ॥ २२ ॥

इत्येवं श्रूयते शब्दो राक्षसानां कुले कुले ।
रथाश्चाश्वाश्च नागाश्च हताः शतसहस्रशः ॥ २३ ॥

रणे रामेण शूरेण राक्षसाश्च पदातयः ।
रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः ॥ २४ ॥

हन्ति नो रामरूपेण यदि वा स्वयमन्तकः ।
हतप्रवीरा रामेण निराशा जीविते वयम् ॥ २५ ॥

अपश्यन्तो भयस्यान्तमनाथा विलपामहे ।
रामहस्ताद्दशग्रीवः शूरो दत्तमहावरः ॥ २६ ॥

इदं भयं महाघोरमुत्पन्नं नावबुध्यते ।
न देवा न च गन्धर्वा न पिशाचा न राक्षसाः ॥ २७ ॥

उपसृष्टं परित्रातुं शक्ता रामेण सम्युगे ।
उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे ॥ २८ ॥

कथयिष्यन्ति रामेण रावणस्य निबर्हणम् ।
पितामहेन प्रीतेन देवदानवराक्षसैः ॥ २९ ॥

रावणस्याभयं दत्तं मानुषेभ्यो न याचितम् ।
तदिदं मानुषं मन्ये प्राप्तं निःसंशयं भयम् ॥ ३० ॥

जीवितान्तकरं घोरं रक्षसां रावणस्य च ।
पीड्यमानास्तु बलिना वरदानेन रक्षसा ॥ ३१ ॥

दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन् ।
देवतानां हितार्थाय महात्मा वै पितामहः ॥ ३२ ॥

उवाच देवताः सर्वा इदं तुष्टो महद्वचः ।
अद्यप्रभृति लोकांस्त्रीन्सर्वे दानवराक्षसाः ॥ ३३ ॥

भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम् ।
दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः ॥ ३४ ॥

वृषध्वजस्त्रिपुरहा महादेवः प्रसादितः ।
प्रसन्नस्तु महादेवो देवानेतद्वचोऽब्रवीत् ॥ ३५ ॥

उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा ।
एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान्पुरा ॥ ३६ ॥

भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान् ।
रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः ॥ ३७ ॥

अयं निष्ठानको घोरः शोकेन समभिप्लुतः ।
तं न पश्यामहे लोके यो नः शरणदो भवेत् ॥ ३८ ॥

राघवेणोपसृष्टानां कालेनेव युगक्षये ।
नास्ति नः शरणं कश्चिद्भये महति तिष्ठताम् ॥ ३९ ॥

दवाग्निवेष्टितानां हि करेणूनां यथा वने ।
प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना ।
यत एव भयं दृष्टं तमेव शरणं गतः ॥ ४० ॥

इतीव सर्वा रजनीचरस्त्रियः
परस्परं सम्परिरभ्य बाहुभिः ।
विषेदुरार्ता भयभारपीडिताः
विनेदुरुच्चैश्च तदा सुदारुणम् ॥ ४१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चनवतितमः सर्गः ॥ ९५ ॥

युद्धकाण्ड षण्णवतितमः सर्गः (९६) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed