Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ सचिवोक्तिः ॥
इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः ।
ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम् ॥ १ ॥
द्विषत्पक्षमविज्ञाय नीतिबाह्यास्त्वबुद्धयः ।
अविज्ञायात्मपक्षं च राजानं भीषयन्ति हि ॥ २ ॥
राजन् परिघशक्त्यृष्टिशूलपट्टिशसङ्कुलम् ।
सुमहन्नो बलं कस्माद्विषादं भजते भवान् ॥ ३ ॥
त्वया भोगवतीं गत्वा निर्जिताः पन्नगा युधि ।
कैलासशिखरावासी यक्षैर्बहुभिरावृतः ॥ ४ ॥
सुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः ।
स महेश्वरसख्येन श्लाघमानस्त्वया विभो ॥ ५ ॥
निर्जितः समरे रोषाल्लोकपालो महाबलः ।
विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च ॥ ६ ॥
त्वया कैलासशिखराद्विमानमिदमाहृतम् ।
मयेन दानवेन्द्रेण त्वद्भयात्सख्यमिच्छता ॥ ७ ॥
दुहिता तव भार्यार्थे दत्ता राक्षसपुङ्गव ।
दानवेन्द्रो मधुर्नाम वीर्योत्सिक्तो दुरासदः ॥ ८ ॥
विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः ।
निर्जितास्ते महाबाहो नागा गत्वा रसातलम् ॥ ९ ॥
वासुकिस्तक्षकः शङ्खो जटी च वशमाहृताः ।
अक्षया बलवन्तश्च शूरा लब्धवराः पुरा ॥ १० ॥
त्वया संवत्सरं युद्ध्वा समरे दानवा विभो ।
स्वबलं समुपाश्रित्य नीता वशमरिन्दम ॥ ११ ॥
मायाश्चाधिगतास्तत्र बहवो राक्षसाधिप ।
निर्जिताः समरे रोषाल्लोकपाला महाबलाः ॥ १२ ॥
देवलोकमितो गत्वा शक्रश्चापि विनिर्जितः ।
शूराश्च बलवन्तश्च वरुणस्य सुता रणे ॥ १३ ॥
निर्जितास्ते महाबाहो चतुर्विधबलानुगाः ।
मृत्युदण्डमहाग्राहं शाल्मलिद्रुममण्डितम् ॥ १४ ॥
कालपाशमहावीचिं यमकिङ्करपन्नगम् ।
अवगाह्य त्वया राजन् यमस्य बलसागरम् ॥ १५ ॥
जयश्च विपुलः प्राप्तो मृत्युश्च प्रतिषेधितः ।
सुयुद्धेन च ते सर्वे लोकास्तत्र विलोलिताः ॥ १६ ॥ [सुतोषिताः]
क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः ।
आसीद्वसुमती पूर्णा महद्भिरिव पादपैः ॥ १७ ॥
तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे ।
प्रसह्य ते त्वया राजन् हताः परमदुर्जयाः ॥ १८ ॥
तिष्ठ वा किं महाराज श्रमेण तव वानरान् ।
अयमेको महाबाहुरिन्द्रजित् क्षपयिष्यति ॥ १९ ॥
अनेन हि महाराज माहेश्वरमनुत्तमम् ।
इष्ट्वा यज्ञं वरो लब्धो लोके परमदुर्लभः ॥ २० ॥
शक्तितोमरमीनं च विनिकीर्णान्त्रशैवलम् ।
गजकच्छपसम्बाधमश्वमण्डूकसङ्कुलम् ॥ २१ ॥
रुद्रादित्यमहाग्राहं मरुद्वसुमहोरगम् ।
रथाश्वगजतोयौघं पदातिपुलिनं महत् ॥ २२ ॥
अनेन हि समासाद्य देवानां बलसागरम् ।
गृहीतो दैवतपतिर्लङ्कां चापि प्रवेशितः ॥ २३ ॥
पीतामहनियोगाच्च मुक्तः शम्बरवृत्रहा ।
गतस्त्रिविष्टपं राजन् सर्वदेवनमस्कृतः ॥ २४ ॥
तमेव त्वं महाराज विसृजेन्द्रजितं सुतम् ।
यावद्वानरसेनां तां सरामां नयति क्षयम् ॥ २५ ॥
राजन्नापदयुक्तेयमागता प्राकृताज्जनात् ।
हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम् ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तमः सर्गः ॥ ७ ॥
सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.