Yuddha Kanda Sarga 8 – युद्धकाण्ड अष्टमः सर्गः (८)


॥ प्रहस्तादिवचनम् ॥

ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः ।
अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा ॥ १ ॥

देवदानवगन्धर्वाः पिशाचपतगोरगाः ।
न त्वां धर्षयितुं शक्ताः किं पुनर्वानरा रणे ॥ २ ॥

सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता ।
न हि मे जीवतो गच्छेज्जीवन् स वनगोचरः ॥ ३ ॥

सर्वां सागरपर्यन्तां सशैलवनकाननाम् ।
करोम्यवानरां भूमिमाज्ञापयतु मां भवान् ॥ ४ ॥

रक्षां चैव विधास्यामि वानराद्रजनीचर ।
नागमिष्यति ते दुःखं किञ्चिदात्मापराधजम् ॥ ५ ॥

अब्रवीत्तु सुसङ्क्रुद्धो दुर्मुखो नाम राक्षसः ।
इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् ॥ ६ ॥

अयं परिभवो भूयः पुरस्यान्तःपुरस्य च ।
श्रीमतो राक्षसेन्द्रस्य वानरेण प्रधर्षणम् ॥ ७ ॥

अस्मिन्मुहूर्ते हत्वैको निवर्तिष्यामि वानरान् ।
प्रविष्टान् सागरं भीममम्बरं वा रसातलम् ॥ ८ ॥

ततोऽब्रवीत्सुसङ्क्रुद्धो वज्रदंष्ट्रो महाबलः ।
प्रगृह्य परिघं घोरं मांसशोणितरूषितम् ॥ ९ ॥

किं वो हनुमता कार्यं कृपणेन तपस्विना । [दुरात्मना]
रामे तिष्ठति दुर्धर्षे ससुग्रीवे सलक्ष्मणे ॥ १० ॥

अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम् ।
आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम् ॥ ११ ॥

इदं ममापरं वाक्यं शृणु राजन् यदीच्छसि ।
उपायकुशलो ह्येवं जयेच्छत्रूनतन्द्रितः ॥ १२ ॥

कामरूपधराः शूराः सुभीमा भीमदर्शनाः ।
राक्षसा वै सहस्राणि राक्षसाधिप निश्चिताः ॥ १३ ॥

काकुत्स्थमुपसङ्गम्य बिभ्रतो मानुषं वपुः ।
सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ॥ १४ ॥

प्रेषिता भरतेन स्म भ्रात्रा तव यवीयसा ।
तवागमनमुद्दिश्य कृत्यमात्ययिकं त्विति ॥ १५ ॥

स हि सेनां समुत्थाप्य क्षिप्रमेवोपयास्यति ।
ततो वयमितस्तुर्णं शूलशक्तिगदाधराः ॥ १६ ॥

चापबाणासिहस्ताश्च त्वरितास्तत्र याम हे ।
आकाशे गणशः स्थित्वा हत्वा तां हरिवाहिनीम् ॥ १७ ॥

अश्मशस्त्रमहावृष्ट्या प्रापयाम यमक्षयम् ।
एवं चेदुपसर्पेतामनयं रामलक्ष्मणौ ॥ १८ ॥

अवश्यमपनीतेन जहतामेव जीवितम् ।
कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान् ॥ १९ ॥

अब्रवीत्परमक्रुद्धो रावणं लोकरावणम् ।
सर्वे भवन्तस्तिष्ठन्तु महाराजेन सङ्गताः ॥ २० ॥

अहमेको हनिष्यामि राघवं सहलक्ष्मणम् ।
सुग्रीवं च हनूमन्तं सर्वानेव च वानरान् ॥ २१ ॥

ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ।
क्रुद्धः परिलिहन्वक्त्रं जिह्वया वाक्यमब्रवीत् ॥ २२ ॥

स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः ।
एकोऽहं भक्षयिष्यामि तान् सर्वान् हरियूथपान् ॥ २३ ॥

स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तो मधु वारुणीम् ।
अहमेको वधिष्यामि सुग्रीवं सहलक्ष्मणम् ।
अङ्गदं च हनूमन्तं रामं च रणकुञ्जरम् ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टमः सर्गः ॥ ८ ॥

युद्धकाण्ड नवमः सर्गः (९)>>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed