Yuddha Kanda Sarga 60 – युद्धकाण्ड षष्टितमः सर्गः (६०)


॥ कुम्भकर्णप्रबोधः ॥

स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः ।
भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ॥ १ ॥

मातङ्ग इव सिंहेन गरुडेनेव पन्नगः ।
अभिभूतोऽभवद्राजा राघवेण महात्मना ॥ २ ॥

ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् ।
स्मरन्राघवबाणानां विव्यथे राक्षसेश्वरः ॥ ३ ॥

स काञ्चनमयं दिव्यमाश्रित्य परमासनम् ।
विप्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् ॥ ४ ॥

सर्वं तत्खलु मे मोघं यत्तप्तं परमं तपः ।
यत्समानो महेन्द्रेण मानुषेणास्मि निर्जितः ॥ ५ ॥

इदं तद्ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम् ।
मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा ॥ ६ ॥

देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः ।
अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् ॥ ७ ॥

तमिमं मानुषं मन्ये रामं दशरथात्मजम् । [विदितं]
इक्ष्वाकुकुलनाथेन अनरण्येन यत्पुरा ॥ ८ ॥

उत्पत्स्यते हि मद्वंशे पुरुषो राक्षसाधम ।
यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम् ॥ ९ ॥

निहनिष्यति सङ्ग्रामे त्वां कुलाधम दुर्मते ।
शप्तोऽहं वेदवत्या च यदा सा धर्षिता पुरा ॥ १० ॥

सेयं सीता महाभागा जाता जनकनन्दिनी ।
उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका ॥ ११ ॥

यथोक्तास्तपसा प्राप्तं न मिथ्या ऋषिभाषितम् ।
एतदेवाभ्युपागम्य यत्नं कर्तुमिहार्हथ ॥ १२ ॥

राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु ।
स चाप्रतिमगम्भीरो देवदानवदर्पहा ॥ १३ ॥

ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् ।
स पराजितमात्मानं प्रहस्तं च निषूदितम् ॥ १४ ॥

ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः ।
द्वारेषु यत्नः क्रियतां प्राकारश्चाधिरुह्यताम् ॥ १५ ॥

निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् ।
सुखं स्वपिति निश्चिन्तः कालोपहतचेतनः ॥ १६ ॥

नव षट् सप्त चाष्टौ च मासान् स्वपिति राक्षसः ।
मन्त्रयित्वा प्रसुप्तोऽयमितस्तु नवमेऽहनि ॥ १७ ॥

तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् ।
स तु सङ्ख्ये महाबाहुः ककुदः सर्वरक्षसाम् ॥ १८ ॥

वानरान्राजपुत्रौ च क्षिप्रमेव वधिष्यति ।
एष केतुः परः सङ्ख्ये मुख्यो वै सर्वरक्षसाम् ॥ १९ ॥

कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः ।
रामेण हि निरस्तस्य सङ्ग्रामेस्मिन्सुदारुणे ॥ २० ॥

भविष्यति न मे शोकः कुम्भकर्णे विबोधिते ।
किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि ॥ २१ ॥

ईदृशे व्यसने प्राप्ते यो न साह्याय कल्पते ।
ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः ॥ २२ ॥

जग्मुः परमसम्भ्रान्ताः कुम्भकर्णनिवेशनम् ।
ते रावण समादिष्टा मांसशोणितभोजनाः ॥ २३ ॥

गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा ययुः ।
तां प्रविश्य महाद्वारां सर्वतो योजनायताम् ॥ २४ ॥

कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम् ।
कुम्भकर्णस्य निःश्वासादवधूता महाबलाः ॥ २५ ॥

प्रतिष्ठमानः कृच्छ्रेण यत्नात्प्रविविशुर्गुहाम् ।
तां प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्‍टिमाम् ॥ २६ ॥

ददृशुर्नैरृतव्याघ्रं शयानं भीमदर्शनम् ।
ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् ॥ २७ ॥

कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन् ।
ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम् ॥ २८ ॥

त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम् ।
भीमनासापुटं तं तु पातालविपुलाननम् ॥ २९ ॥

शय्यायां न्यस्तसर्वाङ्गं मेदोरुधिरगन्धिनम् ।
काञ्चनाङ्गदनद्धाङ्गं किरीटिनमरिन्दमम् ॥ ३० ॥

ददृशुर्नैरृतव्याघ्रं कुम्भकर्णं महाबलम् ।
ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदा ॥ ३१ ॥

मांसानां मेरुसङ्काशं राशिं परमतर्पणम् ।
मृगाणां महिषाणां च वराहाणां च सञ्चयान् ॥ ३२ ॥

चक्रुर्नैरृतशार्दूला राशिमन्नस्य चाद्भुतम् ।
ततः शोणितकुम्भांश्च मद्यानि विविधानि च ॥ ३३ ॥

पुरस्तात्कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः ।
लिलिपुश्च परार्ध्येन चन्दनेन परन्तपम् ॥ ३४ ॥

दिव्यैराच्छादयामासुर्माल्यैर्गन्धैः सुगन्धिभिः ।
धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परन्तपम् ॥ ३५ ॥

जलदा इव चोन्नेदुर्यातुधानास्ततस्ततः ।
शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान् ॥ ३६ ॥

तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः ।
नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः ।
कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम् ॥ ३७ ॥

सशङ्खभेरीपणवप्रणाद-
-मास्फोटितक्ष्वेलितसिंहनादम् ।
दिशो द्रवन्तस्त्रिदिवं किरन्तः
श्रुत्वा विहङ्गाः सहसा निपेतुः ॥ ३८ ॥

यदा भृशं तैर्निनदैर्महात्मा
न कुम्भकर्णो बुबुधे प्रसुप्तः ।
ततो मुसुण्ठीर्मुसलानि सर्वे
रक्षोगणास्ते जगृहुर्गदाश्च ॥ ३९ ॥

तं शैलशृङ्गैर्मुसलैर्गदाभि-
-र्वृक्षैस्तलैर्मुद्गरमुष्टिभिश्च ।
सुखप्रसुप्तं भुवि कुम्भकर्णं
रक्षांस्युदग्राणि तदा निजघ्नुः ॥ ४० ॥

तस्य निःश्वासवातेन कुम्भकर्णस्य रक्षसः ।
राक्षसा बलवन्तोऽपि स्थातुं नाशक्नुवन्पुरः ॥ ४१ ॥

ततः परिहिता गाढं राक्षसा भीमविक्रमाः ।
मृदङ्गपणवान्भेरीः शङ्खकुम्भगणांस्तदा ॥ ४२ ॥

दशराक्षससाहस्रा युगपत्पर्यवादयन् ।
नीलाञ्जनचयाकारास्ते तु तं प्रत्यबोधयन् ॥ ४३ ॥

अभिघ्नन्तो नदन्तश्च नैव संविविदे तु सः ।
यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा ॥ ४४ ॥

ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् ।
अश्वानुष्ट्रान्खरान्नागान् जघ्नुर्दण्डकशाङ्कुशैः ॥ ४५ ॥

भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् ।
निजघ्नुश्चास्य गात्राणि महाकाष्ठकटङ्करैः ॥ ४६ ॥

मुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः ।
तेन शब्देन महता लङ्का समभिपूरिता ॥ ४७ ॥

सपर्वतवना सर्वा सोऽपि नैव प्रबुध्यते ।
ततः सहस्रं भेरीणां युगपत्समहन्यत ॥ ४८ ॥

मृष्टकाञ्चनकोणानामासक्तानां समन्ततः ।
एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यते ॥ ४९ ॥

शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः ।
महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः ॥ ५० ॥

तद्रक्षो बोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् ।
अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् ॥ ५१ ॥

केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति च ।
उदकुम्भशतान्यन्ये समसिञ्चन्त कर्णयोः ॥ ५२ ॥

न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः ।
अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः ॥ ५३ ॥

मूर्ध्नि वक्षसि गात्रेषु पातयन्कूटमुद्गरान् ।
रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः ॥ ५४ ॥

वध्यमानो महाकायो न प्राबुध्यत राक्षसः ।
वारणानां सहस्रं तु शरीरेऽस्य प्रधावितम् ।
कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत ॥ ५५ ॥

स पात्यमानैर्गिरिशृङ्गवृक्षै-
-रचिन्तयंस्तान्विपुलान्प्रहारान् ।
निद्राक्षयात् क्षुद्भयपीडितश्च
विजृम्भमाणः सहसोत्पपात ॥ ५६ ॥

स नागभोगाचलशृङ्गकल्पौ
विक्षिप्य बाहू गिरिशृङ्गसारौ ।
विवृत्य वक्त्रं बडबामुखाभं
निशाचरोऽसौ विकृतं जजृम्भे ॥ ५७ ॥

तस्य जाजृम्भमाणस्य वक्त्रं पातालसन्निभम् ।
ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः ॥ ५८ ॥

स जृम्भमाणोऽतिबलः प्रतिबुद्धो निशाचरः ।
निःश्वासश्चास्य सञ्जज्ञे पर्वतादिव मारुतः ॥ ५९ ॥

रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ ।
तपान्ते सबलाकस्य मेघस्येव विवर्षतः ॥ ६० ॥

तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी ।
ददृशाते महानेत्रे दीप्ताविव महाग्रहौ ॥ ६१ ॥

ततस्त्वदर्शयन्सर्वान्भक्ष्यांश्च विविधान्बहून् ।
वराहान्महिषांश्चैव स बभक्ष महाबलः ॥ ६२ ॥

अदन्बुभुक्षितो मांसं शोणितं तृषितः पिबन् ।
मेदः कुम्भांश्च मद्यं च पपौ शक्ररिपुस्तदा ॥ ६३ ॥

ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः ।
शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ॥ ६४ ॥

निद्राविशदनेत्रस्तु कलुषीकृतलोचनः ।
चारयन्सर्वतो दृष्टिं तान्ददर्श निशाचरान् ॥ ६५ ॥

स सर्वान्सान्त्वयामास नैरृतान्नैरृतर्षभः ।
बोधनाद्विस्मितश्चापि राक्षसानिदमब्रवीत् ॥ ६६ ॥

किमर्थमहमादृत्य भवद्भिः प्रतिबोधितः ।
कच्चित्सुकुशलं राज्ञो भयवानेष वा न किम् ॥ ६७ ॥

अथवा ध्रुवमन्येभ्यो भयं परमुपस्थितम् ।
यदर्थमेवं त्वरितैर्भवद्भिः प्रतिबोधितः ॥ ६८ ॥

अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम् ।
पातयिष्ये महेन्द्रं वा शातयिष्ये तथाऽनलम् ॥ ६९ ॥

न ह्यल्पकारणे सुप्तं बोधयिष्यति मां गुरुः ।
तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् ॥ ७० ॥

एवं ब्रुवाणं संरब्धं कुम्भकर्णं महाबलम् ।
यूपाक्षः सचिवो राज्ञः कृताञ्जलिरुवाच ह ॥ ७१ ॥

न नो दैवकृतं किञ्चिद्भयमस्ति कदाचन ।
मानुषान्नो भयं राजंस्तुमुलं सम्प्रबाधते ॥ ७२ ॥

न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् ।
यादृशं मानुषं राजन्भयमस्मानुपस्थितम् ॥ ७३ ॥

वानरैः पर्वताकारैर्लङ्केयं परिवारिता ।
सीताहरणसन्तप्ताद्रामान्नस्तुमुलं भयम् ॥ ७४ ॥

एकेन वानरेणेयं पूर्वं दग्धा महापुरी ।
कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः ॥ ७५ ॥

स्वयं रक्षोधिपश्चापि पौलस्त्यो देवकण्टकः ।
मृतेति सम्युगे मुक्तो रामेणादित्यतेजसा ॥ ७६ ॥

यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैः ।
कृतः स इह रामेण विमुक्तः प्राणसंशयात् ॥ ७७ ॥

स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम् ।
कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् ॥ ७८ ॥

सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् ।
राघवं च रणे हत्वा पश्चाद्द्रक्ष्यामि रावणम् ॥ ७९ ॥

राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः ।
रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् ॥ ८० ॥

तत्तस्य वाक्यं ब्रुवतो निशम्य
सगर्वितं रोषविवृद्धदोषम् ।
महोदरो नैरृतयोधमुख्यः
कृताञ्जलिर्वाक्यमिदं बभाषे ॥ ८१ ॥

रावणस्य वचः श्रुत्वा गुणदोषौ विमृश्य च ।
पश्चादपि महाबाहो शत्रून्युधि विजेष्यसि ॥ ८२ ॥

महोदरवचः श्रुत्वा राक्षसैः परिवारितः ।
कुम्भकर्णो महातेजाः सम्प्रतस्थे महाबलः ॥ ८३ ॥

तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् ।
राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् ॥ ८४ ॥

ततो गत्वा दशग्रीवमासीनं परमासने ।
ऊचुर्बद्धाञ्जलिपुटाः सर्व एव निशाचराः ॥ ८५ ॥

प्रबुद्धः कुम्भकर्णोऽयं भ्राता ते राक्षसर्षभ ।
कथं तत्रैव निर्यातु द्रक्ष्यस्येनमिहागतम् ॥ ८६ ॥

रावणस्त्वब्रवीद्धृष्टो राक्षसांस्तानुपस्थितान् ।
द्रष्टुमेनमिहेच्छामि यथान्यायं च पूज्यताम् ॥ ८७ ॥

तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः ।
कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः ॥ ८८ ॥

द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुङ्गवः ।
गमने क्रियतां बुद्धिर्भ्रातरं सम्प्रहर्षय ॥ ८९ ॥

कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् ।
तथेत्युक्त्वा महाबाहुः शयनादुत्पपात ह ॥ ९० ॥

प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितः ।
पिपासुस्त्वरयामास पानं बलसमीरणम् ॥ ९१ ॥

ततस्ते त्वरितास्तस्य राक्षसा रावणाज्ञया ।
मद्यकुम्भांश्च विविधान् क्षिप्रमेवोपहारयन् ॥ ९२ ॥

पीत्वा घटसहस्रे द्वे गमनायोपचक्रमे ।
ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः ॥ ९३ ॥

कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः ।
भ्रातुः स भवनं गच्छन्रक्षोगणसमन्वितः ।
कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ ९४ ॥

स राजमार्गं वपुषा प्रकाशयन्
सहस्ररश्मिर्धरणीमिवांशुभिः ।
जगाम तत्राञ्जलिमालया वृतः
शतक्रतुर्गेहमिव स्वयम्भुवः ॥ ९५ ॥

तं राजमार्गस्थममित्रघातिनं
वनौकसस्ते सहसा बहिः स्थिताः ।
दृष्ट्वाप्रमेयं गिरिशृङ्गकल्पं
वितत्रसुस्ते हरियूथपालाः ॥ ९६ ॥

केचिच्छरण्यं शरणं स्म रामं
व्रजन्ति केचिद्व्यथिताः पतन्ति ।
केचिद्दिशः स्म व्यथिताः प्रयान्ति
केचिद्भयार्ता भुवि शेरते स्म ॥ ९७ ॥

तमद्रिशृङ्गप्रतिमं किरीटिनं
स्पृशन्तमादित्यमिवात्मतेजसा ।
वनौकसः प्रेक्ष्य विवृद्धमद्भुतं
भयार्दिता दुद्रुविरे ततस्ततः ॥ ९८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षष्टितमः सर्गः ॥ ६० ॥

युद्धकाण्ड एकषष्टितमः सर्गः (६१) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed