Yuddha Kanda Sarga 14 – युद्धकाण्ड चतुर्दशः सर्गः (१४)


॥ प्रहस्तविभीषणविवादः ॥

निशाचरेन्द्रस्य निशम्य वाक्यं
स कुम्भकर्णस्य च गर्जितानि ।
विभीषणो राक्षसराजमुख्यं
उवाच वाक्यं हितमर्थयुक्तम् ॥ १ ॥

वृतो हि बाह्वन्तरभोगराशि-
-श्चिन्ताविषः सुस्मिततीक्ष्णदंष्ट्रः ।
पञ्चाङ्गुलीपञ्चशिरोतिकायः
सीतामहाहिस्तव केन राजन् ॥ २ ॥

यावन्न लङ्कां समभिद्रवन्ति
वलीमुखाः पर्वतकूटमात्राः ।
दंष्ट्रायुधाश्चैव नखायुधाश्च
प्रदीयतां दाशरथाय मैथिली ॥ ३ ॥

यावन्न गृह्णन्ति शिरांसि बाणा
रामेरिता राक्षसपुङ्गवानाम् ।
वज्रोपमा वायुसमानवेगाः
प्रदीयतां दाशरथाय मैथिली ॥ ४ ॥

[* अधिकश्लोकं –
भित्त्वा न तावत्प्रविशन्ति कायं
प्राणान्तिकास्तेऽशनितुल्यवेगाः ।
शिताः शरा राघवविप्रमुक्ताः
प्रहस्त तेनैव विकत्थसे त्वम् ॥
*]

न कुम्भकर्णेन्द्रजितौ न राजा
तथा महापार्श्वमहोदरौ वा ।
निकुम्भकुम्भौ च तथातिकायः
स्थातुं न शक्ता युधि राघवस्य ॥ ५ ॥

जीवंस्तु रामस्य न मोक्ष्यसे त्वं
गुप्तः सवित्राऽप्यथवा मरुद्भिः ।
न वासवस्याङ्कगतो न मृत्यो-
-र्न खं न पातालमनुप्रविष्टः ॥ ६ ॥

निशम्य वाक्यं तु विभीषणस्य
ततः प्रहस्तो वचनं बभाषे ।
न नो भयं विद्म न दैवतेभ्यो
न दानवेभ्यो ह्यथवा कुतश्चित् ॥ ७ ॥

न यक्षगन्धर्वमहोरगेभ्यो
भयं न सङ्ख्ये पतगोत्तमेभ्यः ।
कथं नु रामाद्भविता भयं नो
नरेन्द्रपुत्रात्समरे कदाचित् ॥ ८ ॥

प्रहस्तवाक्यं त्वहितं निशम्य
विभीषणो राजहितानुकाङ्क्षी ।
ततो महात्मा वचनं बभाषे ।
धर्मार्थकामेषु निविष्टबुद्धिः ॥ ९ ॥

प्रहस्त राजा च महोदरश्च
त्वं कुम्भकर्णश्च यथार्थजातम् ।
ब्रवीथ रामं प्रति तन्न शक्यं
यथा गतिः स्वर्गमधर्मबुद्धेः ॥ १० ॥

वधस्तु रामस्य मया त्वया वा
प्रहस्त सर्वैरपि राक्षसैर्वा ।
कथं भवेदर्थविशारदस्य
महार्णवं तर्तुमिवाप्लवस्य ॥ ११ ॥

धर्मप्रधानस्य महारथस्य
इक्ष्वाकुवंशप्रभवस्य राज्ञः ।
प्रहस्त देवाश्च तथाविधस्य
कृत्येषु शक्तस्य भवन्ति मूढाः ॥ १२ ॥

तीक्ष्णा नता यत्तव कङ्कपत्रा
दुरासदा राघवविप्रमुक्ताः ।
भित्त्वा शरीरं प्रविशन्ति बाणाः
प्रहस्त तेनैव विकत्थसे त्वम् ॥ १३ ॥

न रावणो नातिबलस्त्रिशीर्षो
न कुम्भकर्णस्य सुतो निकुम्भः ।
न चेन्द्रजिद्दाशरथिं प्रसोढुं
त्वं वा रणे शक्रसमं समर्थाः ॥ १४ ॥

देवान्तको वाऽपि नरान्तको वा
तथाऽतिकायोऽतिरथो महात्मा ।
अकम्पनश्चाद्रिसमानसारः
स्थातुं न शक्ता युधि राघवस्य ॥ १५ ॥

अयं हि राजा व्यसनाभिभूतो
मित्रैरमित्रप्रतिमैर्भवद्भिः ।
अन्वास्यते राक्षसनाशनाय
तीक्ष्णः प्रकृत्या ह्यसमीक्ष्यकारी ॥ १६ ॥

अनन्तभोगेन सहस्रमूर्ध्ना
नागेन भीमेन महाबलेन ।
बलात्परिक्षिप्तमिमं भवन्तो
राजानमुत्क्षिप्य विमोचयन्तु ॥ १७ ॥

यावद्धि केशग्रहणां सुहृद्भिः
समेत्य सर्वैः परिपूर्णकामैः ।
निगृह्य राजा परिरक्षितव्यो
भूतैर्यथा भीमबलैर्गृहीतः ॥ १८ ॥

संहारिणा राघवसागरेण
प्रच्छाद्यमानस्तरसा भवद्भिः ।
युक्तस्त्वयं तारयितुं समेत्य
काकुत्स्थपातालमुखे पतन्सः ॥ १९ ॥

इदं पुरस्यास्य सराक्षसस्य
राज्ञश्च पथ्यं ससुहृज्जनस्य ।
सम्यग्घि वाक्यं स्वमतं ब्रवीमि
नरेन्द्रपुत्राय ददाम पत्नीम् ॥ २० ॥

परस्य वीर्यं स्वबलं च बुद्ध्वा
स्थानं क्षयं चैव तथैव वृद्धिम् ।
तथा स्वपक्षेप्यनुमृश्य बुद्ध्या
वदेत्क्षमं स्वामिहितं च मन्त्री ॥ २१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्दशः सर्गः ॥ १४ ॥

युद्धकाण्ड पञ्चदशः सर्गः (१५) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed