Yuddha Kanda Sarga 126 – युद्धकाण्ड षड्विंशत्युत्तरशततमः सर्गः (१२६)


॥ प्रत्यावृत्तिपथवर्णनम् ॥

अनुज्ञातं तु रामेण तद्विमानमनुत्तमम् ।
उत्पपात महामेघः श्वसनेनोद्धतो यथा ॥ १ ॥

पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः ।
अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् ॥ २ ॥

कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् ।
लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा ॥ ३ ॥

एतदायोधनं पश्य मांसशोणितकर्दमम् ।
हरीणां राक्षसानां च सीते विशसनं महत् ॥ ४ ॥

अत्र दत्तवरः शेते प्रमाथी राक्षसेश्वरः ।
तव हेतोर्विशालाक्षि रावणो निहतो मया ॥ ५ ॥

कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः ।
धूम्राक्षश्चात्र निहतो वानरेण हनूमता ॥ ६ ॥

विद्युन्माली हतश्चात्र सुषेणेन महात्मना ।
लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे ॥ ७ ॥

अङ्गदेनात्र निहतो विकटो नाम राक्षसः ।
विरूपाक्षश्च दुर्धर्षो महापार्श्वमहोदरौ ॥ ८ ॥

अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः ।
अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत् ॥ ९ ॥

सपत्नीनां सहस्रेण सास्रेण परिवारिता ।
एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने ॥ १० ॥

यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् ।
एष सेतुर्मया बद्धः सागरे सलिलार्णवे ॥ ११ ॥

तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः ।
पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् ॥ १२ ॥

अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् ।
हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि ॥ १३ ॥

विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम् ।
एतत्कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् ॥ १४ ॥

एतत्तु दृश्यते तीर्थं सागरस्य महात्मनः ।
सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम् ॥ १५ ॥

एतत्पवित्रं परमं महापातकनाशनम् ।
अत्र पूर्वं महादेवः प्रसादमकरोत्प्रभुः ॥ १६ ॥

अत्र राक्षसराजोऽयमाजगाम विभीषणः ।
एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ॥ १७ ॥

सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः ।
अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम् ॥ १८ ॥

अब्रवीत्प्रश्रितं वाक्यं रामं प्रणयसाध्वसा ।
सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप ॥ १९ ॥

अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम् ।
गन्तुमिच्छे सहायोध्यां राजधानीं त्वयाऽनघ ॥ २० ॥

एवमुक्तोऽथ वैदेह्या राघवः प्रत्युवाच ताम् ।
एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः ॥ २१ ॥

विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह ।
ब्रूहि वानरशार्दूल सर्वान्वानरपुङ्गवान् ॥ २२ ॥

स्वदारसहिताः सर्वे ह्ययोध्यां यान्तु सीतया ।
तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल ॥ २३ ॥

अभित्वरस्व सुग्रीव गच्छामः प्लवगेश्वर ।
एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा ॥ २४ ॥

वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः ।
प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य भाषत ॥ २५ ॥

प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम् ।
राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया ॥ २६ ॥

त्वर त्वमभिगच्छामो गृह्य वानरयोषितः ।
अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः ॥ २७ ॥

सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना ।
आहूय चाब्रवीत्सर्वा वानराणां तु योषितः ॥ २८ ॥

सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः ।
मम चापि प्रियं कार्यमयोध्यादर्शनेन च ॥ २९ ॥

प्रवेशं चापि रामस्य पौरजानपदैः सह ।
विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च ॥ ३० ॥

तारया चाभ्यनुज्ञाता सर्वा वानरयोषितः ।
नेपथ्यं विधिपूर्वेण कृत्वा चापि प्रदक्षिणम् ॥ ३१ ॥

अध्यारोहन्विमानं तत्सीतादर्शनकाङ्क्षया ।
ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः ॥ ३२ ॥

ऋश्यमूकसमीपे तु वैदेहीं पुनरब्रवीत् ।
दृश्यतेऽसौ महान्सीते सविद्युदिव तोयदः ॥ ३३ ॥

ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः ।
अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः ॥ ३४ ॥

समयश्च कृतः सीते वधार्थं वालिनो मया ।
एषा सा दृश्यते पम्पा नलिनी चित्रकानना ॥ ३५ ॥

त्वया विहीनो यत्राहं विललाप सुदुःखितः ।
अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी ॥ ३६ ॥

अत्र योजनबाहुश्च कबन्धो निहतो मया ।
दृश्यते च जनस्थाने सीते श्रीमान्वनस्पतिः ॥ ३७ ॥

यत्र युद्धं महद्वृत्तं तव हेतोर्विलासिनि ।
रावणस्य नृशंसस्य जटायोश्च महात्मनः ॥ ३८ ॥

खरश्च निहतो यत्र दूषणश्च निपातितः ।
त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः ॥ ३९ ॥

एतत्तदाश्रमपदमस्माकं वरवर्णिनि ।
पर्णशाला तथा चित्रा दृश्यते शुभदर्शना ॥ ४० ॥

यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् ।
एषा गोदावरी रम्या प्रसन्नसलिला शिवा ॥ ४१ ॥

अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि ।
दीप्तश्चैवाश्रमो ह्येष सुतीक्ष्णस्य महात्मनः ॥ ४२ ॥

वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् ।
उपयातः सहस्राक्षो यत्र शक्रः पुरन्दरः ॥ ४३ ॥

अस्मिन्देशे महाकायो विराधो निहतो मया ।
एते हि तापसावासा दृश्यन्ते तनुमध्यमे ॥ ४४ ॥

अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरप्रभः ।
अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ॥ ४५ ॥

असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते ।
यत्र मां केकयीपुत्रः प्रसादयितुमागतः ॥ ४६ ॥

एषा सा यमुना दूराद्दृश्यते चित्रकानना ।
भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते ॥ ४७ ॥

एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि ।
नानाद्विजगणाकीर्णा सम्प्रपुष्पितकानना ॥ ४८ ॥

शृङ्गिबेरपुरं चैतद्गुहो यत्र समागतः ।
एषा सा दृश्यते सीते सरयूर्यूपमालिनी ॥ ४९ ॥

नानातरुशताकीर्णा सम्प्रपुष्पितकानना ।
एषा सा दृश्यतेऽयोध्या राजधानी पितुर्मम ॥ ५० ॥

अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ।
ततस्ते वानराः सर्वे राक्षसश्च विभीषणः ।
उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम् ॥ ५१ ॥

ततस्तु तां पाण्डुरहर्म्यमालिनीं
विशालकक्ष्यां गजवाजिसङ्कुलाम् ।
पुरीमयोध्यां ददृशुः प्लवङ्गमाः
पुरीं महेन्द्रस्य यथाऽमरावतीम् ॥ ५२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षड्विंशत्युत्तरशततमः सर्गः ॥ १२६ ॥

युद्धकाण्ड सप्तविंशत्युत्तरशततमः सर्गः (१२७) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed