Yuddha Kanda Sarga 110 – युद्धकाण्ड दशोत्तरशततमः सर्गः (११०)

॥ रावणैकशतशिरश्छेदनम् ॥

तौ तदा युध्यमानौ तु समरे रामरावणौ ।
ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ॥ १ ॥

अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ ।
परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ ॥ २ ॥

परस्परवधे युक्तौ घोररूपौ बभूवतुः ।
मण्डलानि च वीथीश्च गतप्रत्यागतानि च ॥ ३ ॥

दर्शयन्तौ बहुविधां सूतसारथ्यजां गतिम् ।
अर्दयन्रावणं रामो राघवं चापि रावणः ॥ ४ ॥

गतिवेगं समापन्नौ प्रवर्तननिवर्तने ।
क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ ॥ ५ ॥

चेरतुः सम्युगमहीं सासारौ जलदौ यथा ।
दर्शयित्वा तथा तौ तु गतिं बहुविधां रणे ॥ ६ ॥

परस्परस्याभिमुखौ पुनरेवावतस्थतुः ।
धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम् ॥ ७ ॥

पताकाश्च पताकाभिः समेयुः स्थितयोस्तदा ।
रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः ॥ ८ ॥

चतुर्भिश्चतुरो दीप्तैर्हयान्प्रत्यपसर्पयत् ।
स क्रोधवशमापन्नो हयानामपसर्पणे ॥ ९ ॥

मुमोच निशितान्बाणान्राघवाय निशाचरः ।
सोऽतिविद्धो बलवता दशग्रीवेण राघवः ॥ १० ॥

जगाम न विकारं च न चापि व्यथितोऽभवत् ।
चिक्षेप च पुनर्बाणान्वज्रपातसमस्वनान् ॥ ११ ॥

सारथिं वज्रहस्तस्य समुद्दिश्य निशाचरः ।
मातलेस्तु महावेगाः शरीरे पतिताः शराः ॥ १२ ॥

न सूक्ष्ममपि सम्मोहं व्यथां वा प्रददुर्युधि ।
तया धर्षणया क्रुद्धो मातलेर्न तथाऽऽत्मनः ॥ १३ ॥

चकार शरजालेन राघवो विमुखं रिपुम् ।
विंशतं त्रिंशतं षष्टिं शतशोऽथ सहस्रशः ॥ १४ ॥

मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः ।
रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ॥ १५ ॥

गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ।
तत्प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् ॥ १६ ॥

गदानां मुसलानां च परिघाणां च निःस्वनैः ।
शराणां पुङ्खपातैश्च क्षुभिताः सप्त सागराः ॥ १७ ॥

क्षुब्धानां सागराणां च पातालतलवासिनः ।
व्यथिताः पन्नगाः सर्वे दानवाश्च सहस्रशः ॥ १८ ॥

चकम्पे मेदिनी कृत्स्ना सशैलवनकानना ।
भास्करो निष्प्रभश्चासीन्न ववौ चापि मारुतः ॥ १९ ॥

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
चिन्तामापेदिरे सर्वे सकिन्नरमहोरगाः ॥ २० ॥

स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वताः ।
जयतां राघवः सङ्ख्ये रावणं राक्षसेश्वरम् ॥ २१ ॥

एवं जपन्तोऽपश्यंस्ते देवाः सर्षिगणास्तदा ।
रामरावणयोर्युद्धं सुघोरं रोमहर्षणम् ॥ २२ ॥

गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम् ।
गगनं गगनाकारं सागरः सागरोपमः ॥ २३ ॥

रामरावणयोर्युद्धं रामरावणयोरिव ।
एवं ब्रुवन्तो ददृशुस्तद्युद्धं रामरावणम् ॥ २४ ॥

ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः ।
सन्धाय धनुषा रामः क्षुरमाशीविषोपमम् ॥ २५ ॥

रावणस्य शिरोच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् ।
तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा ॥ २६ ॥

तस्यैव सदृशं चान्यद्रावणस्योत्थितं शिरः ।
तत्क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा ॥ २७ ॥

द्वितीयं रावणशिरश्छिन्नं सम्यति सायकैः ।
छिन्नमात्रं तु तच्छीर्षं पुनरन्यत्स्म दृश्यते ॥ २८ ॥

तदप्यशनिसङ्काशैश्छिन्नं रामेण सायकैः ।
एवमेकशतं छिन्नं शिरसां तुल्यवर्चसाम् ॥ २९ ॥

न चैव रावणस्यान्तो दृश्यते जीवितक्षये ।
ततः सर्वास्त्रविद्वीरः कौसल्यानन्दवर्धनः ॥ ३० ॥

मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः ।
मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः ॥ ३१ ॥

क्रौञ्चावने विराधस्तु कबन्धो दण्डकावने ।
यैः साला गिरयो भग्ना वाली च क्षुभितोऽम्बुधिः ॥ ३२ ॥

त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम ।
किंनु तत्कारणं येन रावणे मन्दतेजसः ॥ ३३ ॥

इति चिन्तापरश्चासीदप्रमत्तश्च सम्युगे ।
ववर्ष शरवर्षाणि राघवो रावणोरसि ॥ ३४ ॥

रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ।
गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ॥ ३५ ॥

तत्प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् ।
अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि ॥ ३६ ॥

देवदानवयक्षाणां पिशाचोरगरक्षसाम् ।
पश्यतां तन्महद्युद्धं सर्वरात्रमवर्तत ॥ ३७ ॥

नैव रात्रं न दिवसं न मुहूर्तं न च क्षणम् ।
रामरावणयोर्युद्धं विराममुपगच्छति ॥ ३८ ॥

दशरथसुतराक्षसेन्द्रयोः
जयमनवेक्ष्य रणे स राघवस्य ।
सुरवररथसारथिर्महान्
रणगतमेनमुवाच वाक्यमाशु ॥ ३९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे दशोत्तरशततमः सर्गः ॥ ११० ॥

युद्धकाण्ड एकादशोत्तरशततमः सर्गः (१११) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక: "శ్రీ శివ స్తోత్రనిధి" పుస్తకము ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.

Facebook Comments

You may also like...

error: Not allowed
%d bloggers like this: