Yuddha Kanda Sarga 109 – युद्धकाण्ड नवोत्तरशततमः सर्गः (१०९)

॥ रावणध्वजोन्मथनम् ॥

ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा ।
सुमहद्द्वैरथं युद्धं सर्वलोकभयावहम् ॥ १ ॥

ततो राक्षससैन्यं च हरीणां च महद्बलम् ।
प्रगृहीतप्रहरणं निश्चेष्टं समतिष्ठत ॥ २ ॥

सम्प्रयुद्धौ ततो दृष्ट्वा बलवन्नरराक्षसौ ।
व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः ॥ ३ ॥

नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः ।
सर्पन्तं प्रेक्ष्य सङ्ग्रामं नाभिजग्मुः परस्परम् ॥ ४ ॥

रक्षसां रावणं चापि वानराणां च राघवम् ।
पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ ॥ ५ ॥

तौ तु तत्र निमित्तानि दृष्ट्वा रावणराघवौ ।
कृतबुद्धी स्थिरामर्षौ युयुधाते ह्यभीतवत् ॥ ६ ॥

जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः ।
धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा ॥ ७ ॥

ततः क्रोधाद्दशग्रीवः शरान्सन्धाय वीर्यवान् ।
मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् ॥ ८ ॥

ते शरास्तमनासाद्य पुरन्दररथध्वजम् ।
रथशक्तिं परामृश्य निपेतुर्धरणीतले ॥ ९ ॥

ततो रामोऽभिसङ्क्रुद्धश्चापमायम्य वीर्यवान् ।
कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे ॥ १० ॥

रावणध्वजमुद्दिश्य मुमोच निशितं शरम् ।
महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा ॥ ११ ॥

जगाम स महीं छित्त्वा दशग्रीवध्वजं शरः ।
स निकृत्तोऽपतद्भूमौ रावणस्य रथध्वजः ॥ १२ ॥

ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः ।
सम्प्रदीप्तोऽभवत्क्रोधादमर्षात्प्रदहन्निव ॥ १३ ॥

स रोषवशमापन्नः शरवर्षं महद्वमन् ।
रामस्य तुरगान्दीप्तैः शरैर्विव्याध रावणः ॥ १४ ॥

ते विद्धा हरयस्तत्र नास्खलन्नापि बभ्रमुः ।
बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः ॥ १५ ॥

तेषामसम्भ्रमं दृष्ट्वा वाजिनां रावणस्तदा ।
भूय एव सुसङ्क्रुद्धः शरवर्षं मुमोच ह ॥ १६ ॥

गदाश्च परिघाश्चैव चक्राणि मुसलानि च ।
गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान् ॥ १७ ॥

मायाविहितमेतत्तु शस्त्रवर्षमपातयत् ।
तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् ॥ १८ ॥

तद्वर्षमभवद्युद्धे नैकशस्त्रमयं महत् ।
विमुच्य राघवरथं समान्ताद्वानरे बले ॥ १९ ॥

सायकैरन्तरिक्षं च चकाराशु निरन्तरम् ।
सहस्रशस्ततो बाणानश्रान्तहृदयोद्यमः ॥ २० ॥

मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना ।
व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे ॥ २१ ॥

प्रहसन्निव काकुत्स्थः सन्दधे सायकान् शितान् ।
स मुमोच ततो बाणान्रणे शतसहस्रशः ॥ २२ ॥

तान्दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम् ।
ततस्ताभ्यां प्रमुक्तेन शरवर्षेण भास्वता ॥ २३ ॥

शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम् ।
नानिमित्तोऽभवद्बाणो नातिभेत्ता न निष्फलः ॥ २४ ॥

अन्योन्यमभिसंहत्य निपेतुर्धरणीतले ।
तथा विसृजतोर्बाणान्रामरावणयोर्मृधे ॥ २५ ॥

प्रायुद्ध्यतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम् ।
चक्रतुश्च शरौघैस्तौ निरुच्छ्वासमिवाम्बरम् ॥ २६ ॥

रावणस्य हयान्रामो हयान्रामस्य रावणः ।
जघ्नतुस्तौ तथाऽन्योन्यं कृतानुकृतकारिणौ ॥ २७ ॥

एवं तौ तु सुसङ्क्रुद्धौ चक्रतुर्युद्धमद्भुतम् ।
मुहूर्तमभवद्युद्धं तुमुलं रोमहर्षणम् ॥ २८ ॥

प्रयुध्यमानौ समरे महाबलौ
शितैः शरै रावणलक्ष्मणाग्रजौ ।
ध्वजावपातेन स राक्षसाधिपो
भृशं प्रचुक्रोध तदा रघूत्तमे ॥ २९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवोत्तरशततमः सर्गः ॥ १०९ ॥

युद्धकाण्ड दशोत्तरशततमः सर्गः (११०) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక: "శ్రీ శివ స్తోత్రనిధి" పుస్తకము ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.

Facebook Comments

You may also like...

error: Not allowed
%d bloggers like this: