Yuddha Kanda Sarga 108 – युद्धकाण्ड अष्टोत्तरशततमः सर्गः (१०८)


॥ शुभाशुभनिमित्तदर्शनम् ॥

स रथं सारथिर्हृष्टः परसैन्यप्रधर्षणम् ।
गन्धर्वनगराकारं समुच्छ्रितपताकिनम् ॥ १ ॥

युक्तं परमसम्पन्नैर्वाजिभिर्हेममालिभिः ।
युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम् ॥ २ ॥

ग्रसन्तमिव चाकाशं नादयन्तं वसुन्धराम् ।
प्रणाशं परसैन्यानां स्वसैन्यानां प्रहर्षणम् ॥ ३ ॥

रावणस्य रथं क्षिप्रं चोदयामास सारथिः ।
तमापतन्तं सहसा स्वनवन्तं महास्वनम् ॥ ४ ॥

रथं राक्षसराजस्य नरराजो ददर्श ह ।
कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा ॥ ५ ॥

तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् ।
शरधारा विमुञ्चन्तं धारासारमिवाम्बुदम् ॥ ६ ॥

तं दृष्ट्वा मेघसङ्काशमापतन्तं रथं रिपोः ।
गिरैर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम् ॥ ७ ॥

विस्फारयन्वै वेगेन बालचन्द्रनतं धनुः ।
उवाच मातलिं रामः सहस्राक्षस्य सारथिम् ॥ ८ ॥

मातले पश्य संरब्धमापतन्तं रथं रिपोः ।
यथापसव्यं पतता वेगेन महता पुनः ॥ ९ ॥

समरे हन्तुमात्मानं तथा तेन कृता मतिः ।
तदप्रमादमातिष्ठन्प्रत्युद्गच्छ रथं रिपोः ॥ १० ॥

विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् ।
अविक्लवमसम्भ्रान्तमव्यग्रहृदयेक्षणम् ॥ ११ ॥

रश्मिसञ्चारनियतं प्रचोदय रथं द्रुतम् ।
कामं न त्वं समाधेयः पुरन्दररथोचितः ॥ १२ ॥

युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये ।
परितुष्टः स रामस्य तेन वाक्येन मातलिः ॥ १३ ॥

प्रचोदयामास रथं सुरसारथिसत्तमः ।
अपसव्यं ततः कुर्वन्रावणस्य महारथम् ॥ १४ ॥

चक्रोत्क्षिप्तेन रजसा रावणं व्यवधानयत् ।
ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः ॥ १५ ॥

रथप्रतिमुखं रामं सायकैरवधूनयत् ।
धर्षणामर्षितो रामो धैर्यं रोषेण लम्भयन् ॥ १६ ॥

जग्राह सुमहावेगमैन्द्रं युधि शरासनम् ।
शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान् ॥ १७ ॥

तदोपोढं महद्युद्धमन्योन्यवधकाङ्क्षिणोः ।
परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः ॥ १८ ॥

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
समेयुर्द्वैरथं दृष्टुं रावणक्षयकाङ्क्षिणः ॥ १९ ॥

समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः ।
रावणस्य विनाशाय राघवस्य जयाय च ॥ २० ॥

ववर्ष रुधिरं देवो रावणस्य रथोपरि ।
वाता मण्डलिनस्तीक्ष्णा ह्यपसव्यं प्रचक्रमुः ॥ २१ ॥

महद्गृध्रकुलं चास्य भ्रममाणं नभःस्थले ।
येनयेन रथो याति तेनतेन प्रधावति ॥ २२ ॥

सन्ध्यया चावृता लङ्का जपापुष्पनिकाशया ।
दृश्यते सम्प्रदीप्तेव दिवसेऽपि वसुन्धरा ॥ २३ ॥

सनिर्घाता महोल्काश्च सम्प्रचेरुर्महास्वनाः ।
विषादयंस्ते रक्षांसि रावणस्य तदाऽहिताः ॥ २४ ॥

रावणश्च यतस्तत्र सञ्चचाल वसुन्धरा ।
रक्षसां च प्रहरतां गृहीता इव बाहवः ॥ २५ ॥

ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः ।
दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः ॥ २६ ॥

गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः ।
प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः ॥ २७ ॥

प्रतिकूलं ववौ वायू रणे पांसून्समाकिरन् ।
तस्य राक्षसराजस्य कुर्वन्दृष्टिविलोपनम् ॥ २८ ॥

निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः ।
दुर्विषह्यस्वना घोरा विना जलधरस्वनम् ॥ २९ ॥

दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः ।
पांसुवर्षेण महता दुर्दर्शं च नभोऽभवत् ॥ ३० ॥

कुर्वन्त्यः कलहं घोरं शारिकास्तद्रथं प्रति ।
निपेतुः शतशस्तत्र दारुणं दारुणारुताः ॥ ३१ ॥

जघनेभ्यः स्फुलिङ्गांश्च नेत्रेभ्योऽश्रूणि सन्ततम् ।
मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च ॥ ३२ ॥

एवं‍प्रकारा बहवः समुत्पाता भयावहाः ।
रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे ॥ ३३ ॥

रामस्यापि निमित्तानि सौम्यानि च शुभानि च ।
बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः ॥ ३४ ॥

निमित्तानि च सौम्यानि राघवः स्वजयाय च ।
दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम् ॥ ३५ ॥

ततो निरीक्ष्यात्मगतानि राघवो
रणे निमित्तानि निमित्तकोविदः ।
जगाम हर्षं च परां च निर्वृत्तिं
चकार युद्धे ह्यधिकं च विक्रमम् ॥ ३६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टोत्तरशततमः सर्गः ॥ १०८ ॥

युद्धकाण्ड नवोत्तरशततमः सर्गः (१०९) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed