Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्री वसिष्ठ उवाच ।
अथ वर्षसहस्रेण तां पितामह आययौ ।
दारुणं हि तपः सिद्ध्यै विषाग्निरपि शीतलः ॥ १ ॥
मनसैव प्रणम्यैनं सा तथैव स्थिता सती ।
को वरः क्षुच्छमायाऽलमिति चिन्तान्विताऽभवत् ॥ २ ॥
आ स्मृतं प्रार्थयिष्येऽहं वरमेकमिमं विभुम् ।
अनायसी चायसी च स्यामहं जीवसूचिका ॥ ३ ॥
अस्योक्त्या द्विविधा सूचिर्भूत्वा लक्ष्या विशाम्यहम् ।
प्राणिनां सह सर्वेषां हृदयं सुरभिर्यथा ॥ ४ ॥
यथाभिमतमेतेन ग्रसेयं सकलं जगत् ।
क्रमेण क्षुद्विनाशाय क्षुद्विनाशः परं सुखम् ॥ ५ ॥
इति सञ्चिन्तयन्तीं तामुवाच कमलालयः ।
अन्यादृश्यास्तथा दृष्ट्वा स्तनिताभ्ररवोपमम् ॥ ६ ॥
ब्रह्मोवाच ।
पुत्रि कर्कटिके रक्षःकुलशैलाभ्रमालिके ।
उत्तिष्ठ त्वं तु तुष्टोऽस्मि गृहाणाभिमतं वरम् ॥ ७ ॥
कर्कट्युवाच ।
भगवन् भूतभव्येश स्यामहं जीवसूचिका ।
अनायसी चायसी च विधेऽर्पयसि चेद्वरम् ॥ ८ ॥
श्रीवसिष्ठ उवाच ।
एवमस्त्विति तामुक्त्वा पुनराह पितामहः ।
सूचिका सोपसर्गा त्वं भविष्यसि विषूचिका ॥ ९ ॥
सूक्ष्मया मायया सर्वलोकहिंसां करिष्यसि ।
दुर्भोजना दुरारंभा मूर्खा दुःस्थितयश्च ये ॥ १० ॥
दुर्देशवासिनो दुष्टास्तेषां हिंसां करिष्यसि ।
प्रविश्याऽऽहृदयं प्राणैः पद्मप्लीहादि बाधनात् ॥ ११ ॥
वातलेखात्मिका व्याधिर्भविष्यसि विषूचिका ।
सगुणं विगुणं चैव जनमासादयिष्यसि ॥ १२ ॥
गुणान्वितचिकित्सार्थं मन्त्रोऽयं तु मयोच्यते ।
ब्रह्मोवाच ।
हिमद्रेरुत्तरे पार्श्वे कर्कटी नाम राक्षसी ॥ १३ ॥
विषूचिकाऽभिधाना सा नाम्नाप्यन्यायबाधिका ।
तस्या मन्त्रः ।
ओं ह्रीं ह्रां रीं रां विष्णुशक्तये नमः ।
ओं नमो भगवति विष्णुशक्तिमेनां ओं हर हर नय नय पच पच मथ मथ
उत्सादय उत्सादय दूरे कुरु स्वाहा हिमवन्तं गच्छ जीव सः सः सः चन्द्रमण्डल गतोऽसि स्वाहा ।
इति मन्त्री महामन्त्रं न्यस्य वामकरोदरे ।
मार्जयेदातुराकारं तेन हस्तेन सम्युतः ॥ १४ ॥
हिमशैलाभिमुख्येन विद्रुतां तां विचिन्तयेत् ।
कर्कटी कर्कशाक्रन्दां मन्त्रमुद्गरमर्दिताम् ॥ १५ ॥
आतुरं चिन्तयेच्चन्द्रे रसायनहृदिस्थितम् ।
अजरामरणं युक्तं मुक्तं सर्वाधिविभ्रमैः ॥ १६ ॥
साधको हि शुचिर्भूत्वा स्वाचान्तः सुसमाहितः ।
क्रमेणानेन सकलां प्रोच्छिनत्ति विषूचिकाम् ॥ १७ ॥
इति गगनगतस्त्रिलोकनाथः
गगनगसिद्धगृहीत सिद्धमन्त्रः ।
गत उपगतशक्रवन्द्यमानो
निजपुरमक्षयमायमुज्ज्वलश्रीः ॥ १८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे विषूचिकामन्त्र कथनं नाम एकोनसप्ततितमस्सर्गः ॥
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.